61021: चायः की¶
Padacheda: चायः | S | 6 | 1 |
की | S | | | 1
Sutrartha¶
Vasu English Summary¶
The verb की is substituted for the verb चायृ ‘to worship, to observe’, when the Intensive affix यङ् follows.
Vasu English Translation¶
The verb की is substituted for the verb चायृ ‘to worship, to observe’, when the Intensive affix यङ् follows. The phrase यङि is understood here. Thus चेकीयते, चेकीयेते, चेकीयन्ते ॥ The exhibition of की in the sutra with a long ई indicates that there is long vowel even in tenses where यङ् is elided, as चेकीतः ॥ For if the sutra had enunciated कि with a short इ as the substitute of चाय्, the forms चेकीयते &c would have been still valid. Thus कि + यङ् = चि + कि + य = चे + कि + य = चे + की + य (7.4.25) causing the lengthening of the short इ). But then the Nishtha would have been चेकितः which is wrong.
Kashika¶
यङीति वर्तते। चायृ पूजानिशामनयोः इत्येतस्य धातोर्यङि परतः कीत्ययमादेशो भवति। चेकीयते, चेकीयेते, चेकीयन्ते। दीर्घोच्चारणं यङ्लुगर्थम्। चेकीतः॥
Siddhanta Kaumudi¶
चेकीयते ॥
Padamanjari¶
कीति दीर्घोच्चारणमनर्थकम्, ह्रस्वादेशेऽपि ठकृत्सार्वधातुकयोःऽ इति दीर्घस्य सिद्धत्वात्? तत्राह -दीर्घाच्चारणमित्यादि। कथं पुनर्यङ्च्यमान आदेशो यङ्लुकि स्यात्? प्रत्ययलक्षणेन।’न लुमताङ्गस्य’ ? एवं तर्हि दीर्घोच्चारणसामर्थ्याल्लुक्यपि भविष्यति, पूर्वसूत्रविहितं तु प्रसारणं यङ्लुकि न भवत्येव। न च’सम्प्रसारणाश्रयं च कार्यं बलवत्’ इति प्रागेव लुकः सम्प्रसारणम्; प्रत्याथ्यातत्वादस्याः परिभाषायाः। तथा च पूर्वत्रोभयेषां ग्रहणं कृतम्, अनयताऽनयैव परिभाषया हलादिशेषात्प्रगेव सम्प्रसारणं भविष्यतीत्यनर्थकं तत्स्यात्। सास्वपीति, सास्वप्ति। सास्वप्तः, साश्वपीतः। वाव्येति, वाव्याति ॥
Nyaas¶
अथ किमर्थं दीर्घोच्चारणम्, यावता ह्रस्वादेशेऽपि अकृत्सार्वधातुकयोः (7.4.25) इति दीर्घत्वेन चेकीयत इति सिद्धत्येव? इत्याह -दीर्घोच्चारणम् इत्यादि। कथं पुनः यङि च (7.4.30) इत्युच्यमाने आदेशो यङ्लुकि स्यात्? प्रत्ययलक्षणेन स्यात्। अथापि न लुमताङ्गस्य (1.1.63) इति प्रत्ययलक्षणं प्रतिषिध्यते? एवमप्यस्मादेव दीर्घोच्चारमाद्यङ्लुकि भवतीति विज्ञायते, अन्यथा तदपार्थकं स्यात्!`चेकीतः` इति। तसन्तमेतत्। यङोऽचि च (2.4.74) इति यङो लुक्॥
Prakriyasarvasvam¶
चायतेर्यङि की स्यात् । चेकीयते । ‘लिङ्यङोश्च’ (६-१-२९) इति प्यायः पी । पेपीयते । ‘विभाषा श्वेः’ (६-१-३०) इति वा प्रसारणम् । ‘हलः’ (६-४-२) इति दीर्घः । द्वित्वम् । शोशूयते । प्रसारणाभावे तु ‘अकृत्सार्वधातुकयोः—’ (७-४-२५) इति दीर्घः । शेश्वीयते । एवं स्तुञादेरपि अकृत् (७-४-२५) इति दीर्घः । तोष्टूयते । जेजीयते । ‘घमास्था—’ (६-४-६६) इतीत्वे कृते द्वित्वम् । देदीयते । देधीयते । मेमीयते । तेष्ठीयते । जेगीयते । पेपीयते । जेहीयते । सेषीयते । हाङ्स्तु इत्वाभावाद् जाहायते । ‘अयङ् यि क्ङिति’ (७-४-२२) इति शीङो यङि शय्य इत्यस्य द्वित्वम् । शाशय्यते ।