61022: स्फायः स्फी निष्ठायाम् ============================= **Padacheda:** स्फायः | S | 6 | 1 | स्फी | S | | | 1 निष्ठायाम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The स्फी is the substitute of स्फाय 'to swell', the निष्ठा affixes follow. Vasu English Translation ------------------------ The स्फी is the substitute of स्फाय 'to swell', the निष्ठा affixes follow. Thus स्फीतः, स्फीतवान् ॥ Why do we say "when the *Nishtha* affixes follow"? Observe स्फातिः formed by क्तिन् ॥ In the phrase स्फाती भवति, the word स्फाती is the feminine of the word स्फाति formed by क्तिन् ॥ The phrase निष्ठायाम् "when the *Nishtha* follows" governs all the subsequent *sutras* up to (6.1.29). Kashika ------- **स्फायी ओप्यायी वृद्धौ** इत्यस्य धातोर्निष्ठायां परतः स्फीत्ययमादेशो भवति। स्फीतः। स्फीतवान्। निष्ठायामिति किम् ? स्फातिः। स्फातीभवतीत्येतदपि क्तिन्नन्तस्यैव रूपम्, न निष्ठान्तस्य। निष्ठायामित्येतदधिक्रियते **लिड्यङोश्च** (६.१.२९) इति प्रागेतस्मात् सूत्रात्॥ Siddhanta Kaumudi ----------------- स्फीतः ॥ Balamanorama ------------ **स्फायः स्फी निष्ठायाम्** - स्फायः स्फी । 'स्फायी वृद्धौ' अस्य स्फीभावः स्यान्निष्ठायां परत इत्यर्थः । Tattvabodhini ------------- **स्फायः स्फी निष्ठायाम्** - स्फायः स्फी । स्फायी वृद्धौ । कथं तर्हि स्फीतिकाम इति । स्फीतमाष्टे इति ण्यन्तादच इः, अल्लोपणिलोपौ । Nyaas ----- `स्फातिः` इति। **स्त्रियां क्तिन्** (3.3.94) वलि (6.1.64) यलोपः। `स्फातीभवति` इति। स्फायतेर्निष्ठान्ताच्चवौ कृते `अस्य च्वौ (7.4.32) इतीत्वे सतीदं रूपं भवतीति मन्यमानो यश्चोदयेत् - अथ कथं स्फातीभवतीत्येतद्रूपम्, यावताऽत्रापि निष्ठायामस्मिन्नादेशे स्फीतिभवतीत्येवं भवितव्यमिति? तं प्रत्याह - `स्फातीभवतीत्येतदपि` इत्यादि। एतदपि स्फातिशब्दात्? क्तिन्नन्ताच्च्वौ कृते `च्वौ च` (7.4.26) इति दीर्घत्वे च क्तिन्नन्तस्यैव रूपम्। अतो न भवत्येष दोषप्रसङ्गः॥ Prakriyasarvasvam ----------------- स्फीतम् । वेति कौमुदी । स्फातम् ॥