61010: श्लौ =========== **Padacheda:** श्लौ | S | 7 | 1 | Sutrartha --------- **श्लौ परे यस्य धातोः द्वित्वम् न कृतमस्ति तस्य (यथानिर्दिष्टम्) द्वित्वं भवति ।** 'श्लु' इति प्रत्ययलोपस्य एका संज्ञा अस्ति, या **प्रत्ययस्य लुक्-श्लु-लुपः** (1.1.61) इत्यनेन दीयते । यत्र 'श्लु' संज्ञया प्रत्ययलोपः भवति, तत्र वर्तमानसूत्रेण अनभ्यासस्य अङ्गस्य द्वित्वम् भवति । किम् नाम 'अनभ्यासः'? **पूर्वोभ्यासः** (6.1.4) इत्यनेन द्वित्वे कृते द्वयोः यः पूर्वः (प्रथमः), तस्य 'अभ्यास'संज्ञा भवति । अतः यस्य धातोः द्वित्वं कृतं नास्ति, तादृशः धातुः 'अनभ्यासः धातुः' इत्युच्यते । अस्य धातोः श्लौ-परे द्वित्वं भवति । यथा, जुहोत्यादिगणस्य 'दा' धातोः प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - दा + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → दा + तिप् [**तिप्तस्..** (3.4.78) इति तिप्] → दा + शप् + ति [**कर्तरि शप्** (3.1.68) इति शप्] → दा + ति [**जुहोत्यादिभ्यः श्लुः** (2.4.75) इति प्रत्ययस्य श्लुः (लोपः)।] → दा दा + ति [प्रत्ययस्य श्लु-इत्यनेन लोपे कृते **श्लौ** (6.1.10) इत्यनेन अङ्गस्य द्वित्वं भवति ] → द दा + ति [**ह्रस्वः** (7.4.59) इति ह्रस्वः] → ददाति । अत्र शप्-विकरणस्य लोपः 'श्लु' संज्ञया कृतः अस्ति । अतः लोपात् अनन्तरम् **श्लौ** (6.1.10) इत्यनेन अङ्गस्य द्वित्वं अपि क्रियते । Sutrartha (English) ------------------- When a प्रत्यय is removed using the word श्लु, अङ्ग which is not yet duplicated is duplicated. Vasu English Summary -------------------- Of a non-reduplicate root there is reduplication when the विकरण श्लु follows. Vasu English Translation ------------------------ Of a non-reduplicate root there is reduplication when the विकरण श्लु follows. The श्लु is the characteristic sign of the roots of the third class, and causes the elision of the *vikarana* शप् ॥ The reduplication is of the first or second syllable, according as the root has an initial consonant or a vowel. Thus जुहोति (from हु), बिभेति, जिह्रेति ॥ Kashika ------- श्लौ परतोऽनभ्यासस्य धातेरवयवस्य प्रथमस्यैकाचो द्वितीयस्य वा यथायोगं द्वे भवतः। जुहोति। बिभेति। जिह्रेति॥ Siddhanta Kaumudi ----------------- धातोर्द्वे स्तः । जुहोति । जुहुतः । अदभ्यस्तात् (SK2479) इत्यत् । हुश्नुवोः - (SK2387) इति यण् । जुह्वति ॥ Laghu Siddhanta Kaumudi ----------------------- धातोर्द्वे स्तः। जुहोति। जुहुतः॥ Padamanjari ----------- श्लौ परत इति। वर्णानामपि युगपदवस्थानाभावाद् बुद्धिपरिकल्पितं पोर्वापर्यम्, तच्चाभावरूपेण श्लुनाप्युपपद्यत् इति भावः। अनब्यासस्येति। अधीकारमात्रैणैतदुक्तम्, न तु श्लौ साभ्यासो भवति। एवं द्वितीयस्य चेत्यत्र द्रष्टव्यम् ॥ Nyaas ----- `श्लौ परतः` इति। ननु च प्रत्ययादर्शननं श्लुः, तच्चाभावरूपम्, न चाभावे पौर्वापर्यमस्ति, तदुयुक्तमुक्तम्? श्लौ परत इति? स्थानिनः परत्त्वात्त्स्यापि तद्द्वारेण पौर्वापर्यमौपचारिकं गृहीत्वैव युक्तमुक्तमित्यदोषः॥ Prakriyasarvasvam ----------------- श्लौ परे धातोर्द्विवचनं स्यात् । Sutra Prayogas -------------- * **मिमान** (शिशुपालवधम्): `श्लौ` इति द्विर्भावः। * **जहीहि** (भट्टिकाव्यम्): `श्री` इति द्विर्वचनम्।