61007: तुजादीनां दीर्घोऽभ्यासस्य ================================ **Padacheda:** तुजादीनाम् | S | 6 | 3 | दीर्घः | S | 1 | 1 | अभ्यासस्य | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In the room of a short vowel of the Reduplicate of the the roots तुज् etc., a long is substituted. Vasu English Translation ------------------------ In the room of a short vowel of the Reduplicate of the the roots तुज् etc., a long is substituted. There is no list of तुजादि verbs given any where. The word आदि in तुजादि therefore should be construed as "verbs like *tuj*". So that wherever we may find a word having a long vowel in the Reduplicate, we should consider it a valid form. Thus तूतुजानः (तुज् + कानच् (3.2.106) = तूतुजानः *Rig*. I.3.6). मामहानः, अनड्वान् दाधार, स्वधां मीमाय, स तूताव ॥ This lengthening only takes place in the Vedas before some special affixes, and not every where or in secular literature. As तुतोज शबलान् हरीन् ॥ Bhashya ------- तुजादीनां दीर्घोऽभ्यासस्य (2444) - तुजादिषु च्छन्दः प्रत्ययग्रहणम् - तुजादिषु च्छन्दः प्रत्ययग्रहणं कर्तव्यम् । छन्दसि तुजादीनां दीर्घो भवतीति वक्तव्यम् । अस्मिंश्चास्मिंश्च प्रत्यय इति वक्तव्यम् । इह मा भूत्तुतोज शबलान् हरीन् ॥ (5986 उपसंख्यानानुपयोगकथने वार्तिकम् ॥ 2 ॥) - अनारम्भो वाऽपरिगणितत्वात् - अनारम्भो वा पुनश्छन्दसि दीर्घत्वस्य नाय्यः । कुतः ? अपरिगणितत्वात् । न हि च्छन्दसि दीर्घस्य परिगणनं कर्तुं शक्यम् । किं कारणम् ? (5987 उपसंख्यानानुपयोगसाधकवार्तिकम् ॥ 3 ॥) - अन्येषां च दर्शनात् - येषामपि दीर्घत्वं नारभ्यते तेषामपि च्छन्दसि दीर्घत्वं दृश्यते । तद्यथा - पूरुषः, नारक इति ॥ (5988 उपसंख्यानानुपयोगसाधकवार्तिकम् ॥ 4 ॥) - अनेकान्तत्वाच्च - येषां चाप्यारभ्यते तेषामप्यनेकान्तः । यस्मिन्नेव च प्रत्यये दीर्घत्वं दृश्यते तस्मिन्नेव च प्रत्यये न दृश्यते - मामहान उक्थपात्रम्, ममहान इति च ॥ Kashika ------- तुजादीनामिति प्रकार आदिशब्दः। कश्च प्रकारः ? तुजेर्दीर्घोऽभ्यासस्य न विहितः, दृश्यते च। ये तथाभूतास्ते तुजादयस्तेषामभ्यासस्य दीर्घः साधुर्भवति। तूतु॑जानः॒ (ऋ० १.३.६)। मामहा॒नः (तै० सं० ४.६.३.२)। दाधान। मी॑माय (शौ० सं० ५.११.३)। अ॒न॒ड्वान् दा॑धार। (शौ० सं० ४.११.१)। स तू॑ताव (ऋ० १.९४.२)। दीर्घश्चैषां छन्दसि प्रत्ययविशेष एव दृश्यते, ततोऽन्यत्र न भवति। तुतोज शबलान् हरीन्॥ Siddhanta Kaumudi ----------------- तुजादिराकृतिगणः ॥ प्रभरा तूतुजानः (प्रभ॑रा॒ तूतु॑जानः) । सूर्ये मामहानम् (सूर्ये॑ मामहा॒नम्) । दाधार यः पृथिवीम् (दा॒धार॒ यः पृ॑थि॒वीम्) । स तूताव (स तू॑ताव) ॥ Padamanjari ----------- अयं योगः शक्योऽवक्तुम्, कथम्? छान्दसमेतद्दीर्घत्वं च्छन्दसि च दीर्घत्वं न शक्यं परिगणयितुम्, अन्येषामपि दर्शनात् पूरुषः, नारक इति। अनेकाजङ्गत्वाच्च येषां चारभ्यचते तेषामेव तस्मिन्प्रयोगे न दृश्यते -मामहानः, ममहान इति वा ॥ Nyaas ----- आदिशब्दोऽयमस्त्येव व्यवस्थायाम्, अस्ति च प्रकारे, तत्र यदि व्यवस्थायां वर्तमानो गृह्रेत, तदा `तुज पिज हिंसायाम्` (धातुपाठः-1566,1567) इत्यत आरभ्य ये पठितास्तेषामेव ग्रहणं स्यात्; एवञ्च सौत्राणां गणान्तरपठितानाञ्च दीर्घो न स्यादित्येतदालोच्याह -`तुजादीनाम्` इत्यादि। `प्रकार आदिशब्दः` इति। स च प्रकारोऽनिर्दिष्टत्वान्न ज्ञायत इति पृच्छति -`कश्च प्रकारः` इति। तुजो दीर्घत्वमित्यादिना प्रकारार्थत्वं दर्शयति। `ये तथाभूताः` इति। अनन्तरोक्तप्रकारमापन्ना इत्यर्थः। `दीर्घः साधुर्भवति` इति। एतेन सत एव दीर्घस्य साधुत्वमात्रमनेन क्रियते। न त्वपूर्वो दीर्घ इति दर्शयति। `तूतुजानः` इति। लिट्। एतच्च प्रकारवाचिन आदिशब्दस्य परिग्रहाल्लभ्यते, तस्य कनाच्। `मामहानः` इति। `मह पूजायाम्` (धा।प।730) शेषं पूर्ववत्। `दधान` [उदाहरणमिदं नास्ति -काशिका] इति। `डुधाञ्? धारणपोषणयोः` (धातुपाठः-1092)। `मीमाय` इति। `डुमिञ्? प्रक्षेपणे`, (धातुपाठः-1250) लिट्? णल्। `दधार` इति। `धृञ्? धारणे` (धातुपाठः-900) `तूनाव` इति। `तु` इति सौत्रो धातुः; `तुरुस्तुशम्यम` (7.3.95) इत्यादिसूत्रे पठितत्वात्। `दीर्घश्चैषाम्` इत्यादिना यस्य सत एव साधुत्वमनेन क्रियते, स च दीर्घश्छन्दस्येव दृश्यते, न भाषायाम्। तत्रापि च्छन्दसि विषये प्रत्ययविषये कानजादौ, न प्रत्ययमात्रे। `ततोऽन्यत्र न भवति` इति। यथोक्ताद्विषयादन्यत्र न भवतीत्यर्थः। तुजेश्छन्दसि कानचि दृष्टः, ततोऽन्यत्र भाषायां छन्दस्यपि कानजादौ प्रत्ययान्तरे न भवति। यच्चैवं तेनास्यान्यत्राव्यापारः। सत एव दीर्घस्य साधुत्वमात्रमनेन विधीयते। न चान्यत्र दीर्घोऽस्ति यस्यानेन विधीयेत साधुत्वम्। एतच्च प्रकारवाचिन आदिशब्दाल्लभ्यत इति। `तुतोज` इति। भाषायां प्रयोगः। यदि तर्हि च्छन्दसि सत एव दीर्घस्य साधुत्वमनेन विधीयते, **व्यत्ययो बहुलम्** (3.1.85) इत्यनेन सुब्ब्यत्ययस्य विहितत्वादपार्थकमेतत्? नापार्थकम्; तस्यैव प्रपञ्चार्थत्वात्॥ Prakriyasarvasvam ----------------- तुजादयो यथादर्शनं ग्राह्याः । लिटः कानचि द्वित्वम् । तूतुजानो महेमते । वृत्ये मामहानं दाधानः१ । लिटि णलि मीमाय । स दाधार पृथिवीम् । तु सौत्रा धातुः वृद्धौ बले चेति दण्डनाथः स तूताव नैनं दिवे —क्वसौ — घृताहवन दीदिवः । 'मत्वसोः' (८-३-१) इति रुः । छन्दस्युभयथा - (३-४-११७) इति लिटः सार्वधातुकत्वात् इनौ कृते 'लिटि धातोः'- (६-१-८) इत्युक्त्या विकरणान्त- स्याधा२तुत्वात् द्वित्वं न । इममिन्दाय स्विन्विरे । 'द्विर्वचनं छन्दसि वेति वक्तव्यम्' । (वा. ६-१-८) लिटि — यो जागार । श्लौ—दाति प्रियाणि । जजागार ददातीत्यत्र ।