61005: उभे अभ्यस्तम् ==================== **Padacheda:** उभे | S | 1 | 2 | अभ्यस्तम् | S | 1 | 1 | Sutrartha --------- **अस्मिन् द्वित्वप्रकरणे ये द्वे विहिते, तयोः द्वयोः मिलित्वा 'अभ्यस्त' इति संज्ञा भवति ।** **एकाचो द्वे प्रथमस्य** (6.1.1) इत्यस्मिन् अधिकारे यत्र द्वित्वम् भवति, तत्र द्वयोः समुदायेन 'अभ्यस्त'संज्ञा भवति । यथा - 1. 'पच्' इत्यस्य द्वित्वे कृते 'पच् पच्' इति प्राप्ते, अस्य समुदायस्य ('पच् पच्' इत्यस्य) अभ्यस्तसंज्ञा भवति । 2. 'जागृ' इत्यस्य द्वित्वे कृते 'जाग् जागृ' इति प्राप्ते, 'जाग् जाग्' समुदायस्य अभ्यस्तसंज्ञा भवति । अत्र ऋकारस्य द्वित्वं न क्रियते अतः तस्य अभ्यस्तसंज्ञायां समावेशः अपि न भवति । 3. 'अटि' इत्यस्य द्वित्वे कृते ' अटि टि' इति प्राप्ते, 'टि टि' इति समुदायस्य अभ्यस्तसंज्ञा भवति । अत्र अकारस्य द्वित्वं न भवति अतः तस्य अभ्यस्तसंज्ञायां समावेशः अपि न भवति । 4. 'अर्चि' इत्यस्य द्वित्वे कृते 'अर्चि चि' इति प्राप्ते, 'चि चि' इति समुदायस्य अभ्यस्तसंज्ञा भवति । अत्र अकार-रेफयोः द्वित्वं न भवति अतः तयोः अभ्यस्तसंज्ञायां समावेशः अपि न भवति । अत्र 'समुदायस्य' इयम् संज्ञा भवतीति ज्ञातव्यम् । अतः द्वयोः विहितयोः पृथक्-रूपेण अभ्यस्त-संज्ञा न भवति । तथा च, केवलं प्रथमस्य / केवलं द्वितीयस्य अपि 'अभ्यस्त'संज्ञा न भवति । अतएव अस्मिन् सूत्रे 'अभ्यस्तम्' इति एकवचनम् कृतमस्ति । 'अभ्यस्त' संज्ञायाः प्रयोगः **अभ्यस्तानामादिः** (6.1.189), **अभ्यस्तस्य च** (6.1.33) एतादृशेषु सूत्रेषु कृतः अस्ति । Sutrartha (English) ------------------- When the doubling happens in this अधिकार, the two copies are collectively referred as 'अभ्यस्त'. Vasu English Summary -------------------- The both are collectively called अभ्यस्त। Vasu English Translation ------------------------ The both are collectively called अभ्यस्त। Though the word द्वे was understood in the *sutra*, the use of the word उभे 'both' indicates that the word *Abhyasta* applies to the two taken together and not to any one of them separately. The word *abhyasta* occurs in *sutras* (3.4.109), (6.1.32) &c. Thus *sutra* (6.1.189) declares "the first vowel of an *Abhyasta* gets the *udatta* accent". The *Abhyasta* being the collective name of the both, the accent will fall on the first and not on the second, as in ददति *dadati*, the accent is on the first अ ॥ So also by (7.1.4) अत् takes the place of झ after an *Abhyasta*, therefore, दद + झि = दद + अति = ददति ॥ So also ददत् (6.4.112). Bhashya ------- उभे अभ्यस्तम् (2442) (अभ्यस्तसंज्ञाधिकरणम्) (5982 उपसंख्यानवार्तिकम् ॥ 1 ॥) - अभ्यस्तसंज्ञायां सहग्रहणम् - उभे अभ्यस्तं सहेति वक्तव्यम् । किं प्रयोजनम् ? (5983 सहपदप्रयोजनवार्तिकम् ॥ 2 ॥) - आद्युदात्तत्वे पृथगप्रसङ्गार्थम् - आद्युदात्तत्वं सहभूतयोर्यथा स्यात्, एकैकस्य मा भूदिति । यस्मिन्नेवाभ्यस्तकार्येऽदोषस्तदेव पठितम् । अनुदात्तं पदमेकवर्जम् (6.1.158) इति नास्ति यौगपद्येन संभवः । पर्यायस्तर्हि प्रसज्येत । पर्यायश्च पूर्वस्य तावत् परेण रूपेण व्यवहितत्वान्न भविष्यति । परस्य तर्हि स्यात् । तत्राचार्यप्रवृत्तिर्ज्ञापयति - न परस्य भवतीति, यदयं बिभेत्यादीनां पिति प्रत्ययात्पूर्वमुदात्तं भवतीत्याह । एवं व्यवधानान्न पूर्वस्य, ज्ञापकान्न परस्य । उच्यते चेदं - अभ्यस्तानामादिरुदात्तो भवतीति । तत्र स एव दोषः - पर्यायः प्रसज्येत । तस्मात्सहग्रहणं कर्तव्यम् ॥ (सहग्रहणप्रत्याख्यानभाष्यम्) न कर्तव्यम् । उभेग्रहणं क्रियते तत्सहार्थं विज्ञास्यते । अस्त्यन्यदुभेग्रहणस्य प्रयोजनम् । किम् ? उभेग्रहणं संज्ञिनिर्देशार्थम् । अन्तरेणाप्युभेग्रहणं प्रकॢप्तः संज्ञिनिर्देशः । कथम् ? द्वे इति वर्तते ॥ इदं तर्हि प्रयोजनम् - यत्रोभे शब्दरूपे श्रूयेते तत्राभ्यस्तसंज्ञा यथा स्यात्, इह मा भूत् - इर्र्त्सन्ति - इर्प्सन्तीति, इर्र्त्सन् - इर्प्सन्, ऐर्त्सन् - ऐप्सन् । किंच स्यात् ? अद्भावो नुम्प्रतिषेधो जुस्भाव इत्येते विधयः प्रसज्येरन् ॥ अद्भावे तावन्न दोषः । सप्तमे योगविभागः करिष्यते - इदमस्ति अदभ्यस्तात् (7.1.4) इति । तत आत्मनेपदेषु । आत्मनेपदेषु चाद्भवति । अनत इत्युभयोः शेषः ॥ यदप्युच्यते - नुम्प्रतिषेध इति । एकादेशे कृते व्यपवर्गाभावान्न भविष्यति । इदमिह संप्रधार्यं - नुम्प्रतिषेधः क्रियतामेकादेश इति, किमत्र कर्तव्यम् ? परत्वान्नुम्प्रतिषेधः । नित्य एकादेशः, कृतेऽपि नुम्प्रतिषेधे प्राप्नोत्यकृतेऽपि । एकादेशोऽप्यनित्यः । अन्यस्य कृते नुम्प्रतिषेधे प्राप्नोति, अन्यस्याकृते; शब्दान्तरस्य च प्राप्नुवन् विधिरनित्यो भवति । अन्तरङ्गस्तर्ह्यकादेशः । काऽन्तरङ्गता ? वर्णावाश्रित्यैकादेशः, विधिविषये नुम्प्रतिषेधः । विधिश्च नुमः सर्वनामस्थाने, प्राक्तु सर्वनामस्थानोत्पत्तेरेकादेशः । तत्र नित्यत्वाच्चान्तरङ्गत्वाच्चैकादेशः, एकादेशे कृते व्यपवर्गाभावान्नुम्प्रतिषेधो न भविष्यति ॥ यदप्युच्यते - जुस्भाव इति । एकादेशे कृते व्यपवर्गाभावान्न भविष्यति । एकादेश इत्युच्यते, केन चात्रैकादेशः ? अन्तिना । नात्रान्तिभावः प्राप्नोति । किं कारणम् ? जुस्भावेन बाध्यते । नात्र जुस्भावः प्राप्नोति । किं कारणम् ? शपा व्यवहितत्वात् । एकादेशे कृते नास्ति व्यवधानम् । एकादेशः पूर्वविधौ स्थानिवद्भवतीति व्यवधानमेव ॥ किं पुनः कारणम् निमित्तवानन्तिरेकादेशं तावत्प्रतीक्षते, न पुनस्तावत्येव निमित्तमस्तीत्यन्तिभावेन भवितव्यम् ? इहापि तर्हि तावत्येव निमित्तमस्तीत्यन्तिभावः स्यात् - अनेनिजुः, पर्यवेविषुः । अस्तु, अन्तिभावे कृते स्थानिवद्भावाज्झिग्रहणेन ग्रहणाज्जुस्भावो भविष्यति ॥ अथवा यद्यपि निमित्तिवानन्तिरयं तस्य जुस्भावोऽपवादः, न चापवादविषये उत्सर्गोऽभिनिमविशते । पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः । प्रकल्प्य चापवादविषयमुत्सर्गः प्रवर्तते । न तावदत्र कदाचिदप्यन्तिभावो भवति । अपवादं जुस्भावं प्रतीक्षते ॥ नखल्वपि क्वचिदभ्यस्तानां ज्ञेश्चानन्तर्यम्, सर्वत्र विकरणैर्व्यवधानम् । तेनावश्यं विकरणनाशः प्रतीक्ष्यः क्वचिल्लुका, क्वचित् श्लुना, क्वचिदेकादेशेन । स यथैव श्लुलुकौ प्रतीक्षते तथैकादेशमपि प्रतीक्षते । एवं तर्हीदमिह व्यपदेश्यं सत् आचार्यो न व्यपदिशति । किम् ? स्थानिवद्भावम् । स्थानिवद्भावाद्व्यवधानम्, व्यवधानान्न भविष्यति । पूर्वविधौ स्थानिवद्भावो न चायं पूर्वस्य विधिः । पूर्वस्मादपि विधिः पूर्वविधिः ॥ तदेतदसति प्रयोजने उभेग्रहणं सहार्थं विज्ञास्यते ॥ (पक्षभेदेन सहपदप्रयोजनभाष्यम्) कथं कृत्वैकैकस्याप्यभ्यस्तसंज्ञा प्राप्नोति ? प्रत्येकं वाक्यपरिसमाप्तिर्दृष्टेति । तद्यथा - प्रत्येकं वृद्धिगुणसंज्ञे भवतः । ननु चायमप्यस्ति दृष्टान्तः - समुदाये वाक्यपरिसमाप्तिरिति । तद्यथा - गर्गाः शतं दण्ड्यन्तामिति । अर्थिनश्च राजानो हिरण्येन भवन्ति न च प्रत्येकं दण्डयन्ति । सत्येतस्मिन् दृष्टान्ते तत्र यदि प्रत्येकमित्युच्यत इहापि सहग्रहणं कर्तव्यम् । अथ तत्रान्तरेण प्रत्येकमिति वचनं प्रत्येकं गुणवृद्धिसंज्ञे भवत इहापि नार्थः सहग्रहणेन ॥ Kashika ------- द्वे इति वर्तमान उभेग्रहणं समुदायसंज्ञाप्रतिपत्त्यर्थम्। ये द्वे विहिते, ते उभे अपि समुदिते अभ्यस्तसंज्ञे भवतः। ददति। ददत्। दधतु। उभेग्रहणं किम्? नेनिजतीत्यत्र **अभ्यस्तानामादिः** (६.१.१८९) इति समुदाय उदात्तत्वं यथा स्यात् प्रत्येकं पर्यायेण वा मा भूदिति। अभ्यस्तप्रदेशाः — **अभ्यस्तानामादिः** (६.१.१८९) इत्येवमादयः॥ Siddhanta Kaumudi ----------------- षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्तः ॥ Laghu Siddhanta Kaumudi ----------------------- षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्तः॥ Balamanorama ------------ **उभे अभ्यस्तम्** - ॒उगिदचा॑मिति नुमि प्राप्तेनाब्यस्ता॑दिति तन्निषेधं वक्ष्यन्नभ्यस्तसंज्ञामाह — उभे अभ्यस्तम् ।एकाचो द्वे प्रथमस्ये॑त्यतो 'द्वे' इत्यनुवर्तते ।उबे॑ग्रहणं समुदायप्रतिपत्त्यर्थम् । 'द्वे' इत्यनेन च षष्ठाध्यायविहितमेव द्वित्वं विवक्षितम्,अनन्तरस्य विधिर्वा प्रतिषेधो वा॑ इति न्यायात् । तदाह — षाष्ठेत्यादिना । समुदिते किम् । नेनिजतीत्यत्र प्रत्येकमभ्यस्तसंज्ञायाम् 'अभ्यस्तानामादिः' इत्युदात्तः प्रत्येकं स्यात् । Tattvabodhini ------------- **उभे अभ्यस्तम्** - ॒द्वे॑इत्येनुवृत्त्यैव सिद्धेउभे॑ग्रहणं समुदजायप्रतिपत्त्यर्थमिति व्याचष्टे — उभे समुदिते इति । अन्यथानेनिजतीत्यत्रअभ्यस्तानामादि॑रित्याद्युदात्तत्वं प्रत्येकं पर्यायेण स्यात् । Padamanjari ----------- द्वे इति वर्तमान इत्यादि। द्विरुक्तसमुदायस्यैकाऽभ्यस्तसंज्ञा यथा स्याद्, द्वयोर्द्वेअ संज्ञे मा भूतामित्येवमर्थमुभेग्रहणम्, न तु संज्ञिनिर्देशार्थम्। द्वे इत्यस्यानुवृत्यैव संज्ञिनिर्देशस्य सिद्धत्वादित्यर्थः। ददतीत्यादौ ठदभ्यस्तात्ऽ इत्यद्भावः,'श्नाभ्यस्तयोरातः' इत्याकारलोपः। नेनिजतीत्यत्रेत्यादि। असत्युभे ग्रहणे'वृद्धिरादैच्' इत्यादौ प्रत्येकं वाक्यपरिसमाप्तिदर्शनादिहापि प्रत्येकं स्यात्, ततश्च नेनिजतीत्यत्र पृथगाद्यौदातत्वं स्यात्। न च ठनुदातं पदमेकवर्जम्ऽ इत्येकस्यानुदातत्वम्; वर्जनीयविशेषावगमहेतोः सतिशिष्टत्वादेरसम्भवात्। अथापि स्यात्, एवमपि पर्यायः स्यात्। ननु च'भीह्नीभृहुमद' इति ज्ञापकात्परस्य न भविष्यति? पूर्वस्यापि तर्हि न स्यात्, परेण व्यवधानात्। उच्यते च स्वरः, ततश्च स एव पर्यायप्रसङ्गः। यदि तु संयोगसमासादिसंज्ञावदन्वर्थत्वप्रतिपच्यर्थं महासंज्ञाकरणम्, तेनान्वर्थताविज्ञाने समुदायस्यैव संज्ञेत्युच्यते, तदोभेग्रहणं शक्यमकर्तुम्। ननु यत्रोभे श्रूयेते तत्र यथा स्यात्, अन्यतराभावे मा भूद्-इत्येवमर्थमुभेग्रहणं कर्तव्यम्; अन्यथा ऋधेरापश्च'सनीवन्त' इति इडभावपक्षे परत्वात् प्रतिपदविहितत्वाच्च ठाप्ज्ञप्यृधामीत्ऽ इतीत्वे'न न्द्राः' इति प्रतिषेधाद्रेफवर्जं द्वितीयस्यैकाचो द्विर्वचने कृतेठत्र लोपोऽभ्यासस्यऽ इत्यतः प्रागन्तरङ्गत्वादभ्यस्तसंज्ञा स्यात्। सा च प्रत्येकम्, समुदायस्य वा? तत्र प्रत्येकपक्षेऽभ्यासलोपेऽपि परस्य न निवर्तेत। समुदायपक्षेऽपि पूर्व संज्ञा समुदाये प्रवृता; पश्चादेकदेशनिवृतावप्यवशिष्टेऽवतिष्ठेत। यथेयसुन ईकारे लुप्तेऽपि तद्वितसंज्ञा - भूयानित्यत्र। सत्यां च संज्ञायाम् - ईप्सन्ति, ऐप्सन्, ईर्त्सन्ति, ऐर्त्सन्, इत्यत्राद्भावजुसभावनुम्प्रतिपेधाः स्युः, अतः श्रूयमाणप्रतिपत्यर्थमुभेग्रहणं कर्तव्यम्? तन्न; प्रतीषिषतीत्यादिवत्सिद्धेः। तथा हि-ठजादेर्द्वितीयस्यऽ इति सनि द्विरुक्ते श्रूयमाणयोरुभ्योः सत्यामप्यभ्यस्तसंज्ञायामद्भावादयो न भवन्ति। यथा च पुत्रीयषिषन्तीत्यादौ'यथेष्ट्ंअ नामधातूनाम्' इति सनि द्विरुक्ते, तद्वदत्रापि न भविष्यति। अत्र हि ईप्साझि, ईर्त्साझीति स्थितेऽद्बावात्प्राग्नित्यत्वाच्छप्, अद्भावो हि शपि कृते तेन व्यवधानान्न प्राप्नोतीत्यनित्यः ततः'ज्ञो' न्तःऽ प्राप्नोति, पूर्वेण सहैकादेशश्च, परत्वादन्तादेशः। नित्य एकादेशः-कृतेऽप्यन्तादेशे प्राप्नोति, अकृतेपि। अन्तादेशस्त्वनित्यः, कृते एकादेशे तस्यान्तवद्भावादभ्यस्तग्रहणेन ग्रहणादद्भावेन बाध्यते। यस्य च निमितं लक्षणान्तरेण विहन्यते तदनित्यम्। अन्तरङ्गस्तर्ह्ये कादेशः; वर्णाश्रयत्वात्। अन्तादेशस्त्वाङ्गत्वाद्बहिरङ्गः, समानाश्रये च'वार्णादाङ्गं बलीयः' ; अन्तादेशोऽप्यन्तरङ्गः, वक्ष्यति हि-आयन्नादिषूपदेशिवद्वचनमिति। तदेवमुभयोरप्यन्तरङ्गयोर्नित्ययोश्च परत्वादन्तादेशः, ततो झकाराभावादलाश्रयत्वेन स्थानिवद्भावाभावाच्चादादेशो न भवति। अस्तु वा पूर्वमेकादेशः एवमपि ठात्मनेपदेष्वनतःऽ इत्यत्र ठनतःऽ इत्यस्य ठदभ्यस्तात्ऽ इति पूर्वेणापि सम्बन्धात्पूर्वस्मादपि विधावेकादेशस्य स्थानिवत्वाद्वाऽद्भावो न भविष्यति। एवमैप्सन्नित्यत्रापि, ईप्सौझि इति स्थिते शप् च प्राप्नोति, जुस्भावश्च, नित्यत्वाच्छपि कृते तेन व्यवधानान्न जुस्भावः। न च पूर्वेण सहैकादेशे कृते तस्यान्तद्भावात्पुनर्जुस्प्रसङ्गः, पूर्वस्मादपि विधौ स्थानिवत्वात्। ईप्सन्नित्यत्रापि लटः शत्रादेशः, ईप्साशतृ इति स्थिते सार्वधातुकमात्रापेक्षत्वादन्तरङ्गत्वाच्छपि कृते तत्र सनोऽकारेणातो गुणे पररूपे पश्चात्सर्वनामस्थाने चोत्पन्ने नुमः प्रसक्तस्य तस्यां दशायां शत्रभ्यस्तयोर्व्यपवर्गाभावादुभयवर्णाश्रयत्वेनान्तादिवद्भावाभावच्च निषेधाभावः। एवं प्रतीषिषन्तीत्यादावपि। चिकीर्षन्तीत्यादौ तु यत्र सनोऽकारो न द्विरुच्यते, तत्र तेनैव व्यवधानादद्भावाद्यभावः ॥ Nyaas ----- इह उभेग्रहणं संज्ञिनिर्देशार्थं क्रियते। स च संज्ञिनिर्देशः `द्वे` (6.1.1) इत्यनुवृत्तेरन्तरेणाप्युभेग्रहणं प्रकल्प्यत एव, तत्? किमर्थं द्वे इत्यनुवर्तमान उभेग्रहणं क्रियते? इत्यत आह - `द्वे इत्यनुवर्तमाने` इत्यादि। यद्युभेग्रहणं न क्रियेत, तदा प्रत्येकमभ्यस्तसंज्ञा प्रवर्तते। प्रत्येकमपि हि तयोः प्रवर्तमानासौ प्रवृत्तैव भवति। तथा हि द्वावानीयेयातामित्युक्ते प्रत्येकमप्यानयनेन तावानीतौ भवतः। तस्मात्? समुदाये संज्ञायाः प्रवृत्तिर्यथा स्यादेकैकस्य मा भूदित्येवमर्थमुभेग्रहणम्। `समुदिते` इति। सहिते समुदाभूते इत्यर्थः। ननु च यत्राभ्यासः श्रूयते तत्रैव यथा स्यात्, यत्र तु न श्रूयते तत्र मा भूत। ईप्सन्ति, ईप्सन्, ऐप्सन्नित्यादौ विषये मा भूदित्येवमर्थमुभेग्रहणं स्यात्? नैतदस्ति; अभ्यासग्रहणं ह्रनुवर्तते, तत्रैवमभिसम्बन्धः क्रियते - द्वे अभ्यस्तसंज्ञे भवतः, अभ्यासश्चेदस्तीति। एवच्च सति विनाप्यभेग्रहणं यत्राभ्यासः श्रूयते, तत्रैव भविष्यति, नान्यत्र। तस्माद्वृत्तिकारोपदर्शितमेवोभेग्रहणस्य प्रयोजनं युक्तम्। `ददति` इति। ददातेर्लट्, झि, शप्, **जुहोत्यादिभ्यः श्लुः** (2.4.75) `श्लौ` (6.1.10) इति द्विर्वचनम्। अत्राब्यस्तसंज्ञायां सत्यां `श्नाभ्यस्तयोरातः` (6.4.112) इत्याकारलोपः, `अदभ्यस्तात्` (7.1.4) इति झेरदादेशः। `दधातु` [`दधतु` - काशिका] इति। लोट्, `एरुः` (3.4.86) `समुदाय उदात्तत्वं यथा स्यात्` इति। उभेग्रहणे ह्रसति प्रत्यकमभ्यस्तसंज्ञा स्यात्। तस्मात्? **अभ्यस्तानामादिः** (6.1.189) इत्याद्युदात्तमपि प्रत्येकं स्यात्। अथपि **अनुदात्तं पदमेकवर्जम्** (6.1.158) इति नास्ति यौगपद्यसम्भवः, एवमपि पर्यायेण स्यात्? तस्मात्? `अम्यस्तानामादिः` (6.1.189) इत्येतत्? कार्यं समुदाये यथा स्यात्, प्रत्येकं पर्यायेण वा मा भूदित्येवमर्थमुभेग्रहणम्॥ Praudhamanorama --------------- द्वे इत्यनुवृत्त्यैव सिद्धे उभेग्रहणं समुदायप्रतिपत्त्यर्थमिति व्याचष्टे— **उभे समुदिते इति।** अन्यथा हि नेनिजतीत्यत्र 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वं प्रत्येकं पर्यायेण स्यात्॥ Prakriyasarvasvam ----------------- द्विरुक्तयोरुभयोः सहाभ्यस्तमिति संज्ञा । Sudha ----- उमेऽभ्यस्तमिति । **एकाचो द्वे प्रथमस्य**(6.1.1) इत्यतो द्वे इत्यनुवर्तते । तेनैव सिद्धे उभे ग्रहणं समुदायप्रतिपत्यर्थम् । 'द्वे' इत्यनेन च षष्ठाध्यायविहितमेव द्वित्वं विवक्षितम् तदाह – षाष्ठद्वित्वेत्यादिना ।