61004: पूर्वोऽभ्यासः ==================== **Padacheda:** पूर्वः | S | 1 | 1 | अभ्यासः | S | 1 | 1 | Sutrartha --------- **अस्मिन् द्वित्वप्रकरणे ये द्वे विहिते, द्वयोः यः 'पूर्वः' (प्रथमः), तस्य 'अभ्यास' इति नाम दीयते ।** यदा शब्दस्य (तस्य कस्यचन अवयवस्य वा) द्वित्वम् क्रियते, तर्हि द्वयोः यः प्रथमः, तस्य 'अभ्यास' संज्ञा भवति । यथा, 1. 'पच्' धातोः द्वित्वे कृते 'पच् पच्' इति स्थिते यः प्रथमः 'पच्', तस्य 'अभ्यास' संज्ञा भवति । 2. 'जागृ' धातोः द्वित्वे कृते 'जाग् जागृ' इति स्थिते यः प्रथमः जाग् ', तस्य 'अभ्यास' संज्ञा भवति । 3. 'अर्चि' धातोः द्वित्वे कृते 'अर्चि चि' इति स्थिते यः प्रथमः 'चि' तस्य अभ्याससंज्ञा भवति ।अत्र रेफस्य द्वित्वं न क्रियते अतः रेफस्य अभ्याससंज्ञायाम् समावेशः नैव करणीयः । 4. 'उन्दि' धातोः द्वित्वे कृते 'उन्दि दि' इति स्थिते यः प्रथमः 'दि' तस्य अभ्याससंज्ञा भवति । अत्र नकारस्य द्वित्वं न क्रियते अतः नकारस्य अभ्याससंज्ञायाम् समावेशः नैव करणीयः । 'अभ्यास' संज्ञायाः प्रयोगः **लिटि धातोरनभ्यासस्य** (6.1.8), तुजादीनां दीर्घोऽभ्यासस्य (6.1.7) एतादृशेषु सूत्रेषु कृतः अस्ति । Sutrartha (English) ------------------- When a repetition is done, the first entity out of the two is called अभ्यास. Vasu English Summary -------------------- The first of the two is called अभ्यास or Reduplicate. Vasu English Translation ------------------------ The first of the two is called अभ्यास or Reduplicate. The word द्वे in the nominative case is understood here, but for the purposes of this *sutra* it is taken in the Genitive case i. e. द्वयोर्यः पूर्वः "the first of the two" ordained above. The word *Abhyasa* occurs in *sutras* (3.1.6), (6.1.7) &c. Bhashya ------- पूर्वोऽभ्यासः (2441) ?B(अभ्याससंज्ञाधिकरणम्) (सूत्रार्थसंयोजकभाष्यम्) पूर्वोऽभ्यास इत्युच्यते, कस्य पूर्वोऽभ्याससंज्ञो भवति ? द्वे इति वर्तते । द्वयोरिति वक्तव्यम् ॥ स तर्हि तथानिर्देशः कर्तव्यः । न कर्तव्यः । अर्थाद्विभक्तिविपरिणामो भविष्यति । तद्यथा - -उच्चानि देवदत्तस्य गृहाणि, आमन्त्रयस्वैनम् । देवदत्तमिति गम्यते । देवदत्तस्य गावोऽश्वा हिरण्यम्, आढ्यो वैधवेयः । देवदत्त इति गम्यते । पुरस्तात्षष्ठीनिर्दिष्टं सदर्थात्प्रथमानिर्दिष्टं द्वितीयानिर्दिष्टं च भवति । एवमिहापि पुरस्तात् प्रथमानिर्दिष्टं सदर्थात्षष्ठीनिर्दिष्टं भविष्यति ॥ Kashika ------- द्वे इति प्रथमान्तं यदनुवर्तते, तदर्थादिह षष्ठ्यन्तं जायते। तत्र प्रत्यासत्तेरस्मिन् प्रकरणे ये द्वे विहिते, तयोर्यः पूर्वोऽवयवः सोऽभ्याससंज्ञो भवति। पपाच। पिपक्षति। पापच्यते। जुहोति। अपीपचत्। अभ्यासप्रदेशास्तु — **अत्र लोपोऽभ्यासस्य** (७.४.५८) इत्येवमादयः॥ Siddhanta Kaumudi ----------------- अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात्॥ Balamanorama ------------ **पूर्वोऽभ्यासः** - पूर्वः । अत्रेति ।एकाचो द्वे प्रथमस्ये॑ति षाष्ठद्वित्वप्रकरम इत्यर्थः । तेन 'सर्वस्य द्वे' इत्यादिविहितस्य द्वित्वस्य न सङ्ग्रहः । कस्य पूर्व इत्याकाङ्क्षायां 'द्वे' इत्यनुवृत्तं षष्ठआ विपरिणतं संबध्यते । तदाह — ये द्वे विहिते तयोरिति । Tattvabodhini ------------- **पूर्वोऽभ्यासः** - ॒एकाचो द्वे॑ इति प्रकरणे । Padamanjari ----------- अर्थादिति। सामर्थ्यात्पूर्वशब्दोऽयमवयववचनः, अवयवश्चावयविनो भवति, स चेह कश्चिन्न निर्द्दिष्टः, अतोऽवश्यम्'द्वे' इति अत्रानुवर्तनीयम्। न वानुवृतमपि प्रथमान्तमेवावस्थिमवयव्यपेक्षां पूरयितुमलमित्येतत्सामर्थ्यम्। अस्मिन्प्रकरण इति। अनेन'सर्वस्य द्वे' इत्यत्र प्रकरणे इयं संज्ञा न भवति, तेन तत्र हलादिशेषाद्यभावः। यद्येवम्,'द्यौतिगमिजुहोत्यादीनां द्वे' इत्यत्र न प्राप्नोति? कर्तव्योऽत्र यत्नः। तयोः पूर्वोऽवयव इति। अवयववाचिभिर्दिक्शब्दैर्योगे पञ्चमी न भवति;'तस्य प्रमाम्रेडितम्' इति लिङ्गात्। पपाचेत्यादौ'हलादिः शेषः' ,'सन्यतः' ,'दीर्घो' कितःऽ,'कुहोश्चुः' , ठभ्यासे चर्चऽ,'सन्वल्लघुनि' ,'दीर्घो लघोः' इत्यादीनि यथायोगमब्यासकार्याणि ॥ Nyaas ----- अभ्यासशब्दोऽयमावृत्तिवचनो लोके प्रसिद्ध एव। सा चावृततिः प्रथमस्य नास्तीत्यभ्यासप्रदेशेषु परस्य ग्रहणे प्राप्ते पूर्वस्य ग्रहणं यथा स्यावित्येवमर्थं तस्याभ्याससंज्ञा विधीयते। पूर्वशब्दोऽवयववचनः, यथा -पूर्वं कायस्य पशोरिति। अवयवाश्चावयविनो भवन्ति, स चेह यद्यपि न निर्दिश्यते, तथापि `द्वे` (6.1.1) इत्युनुवृत्तेस्तद्वाच्यस्यैवार्थस्य पूर्वो विज्ञायत इत्याह -`द्वे इति प्रथमन्तं यदनुवर्तते` इत्यादि। ननु च `द्वे` इति प्रथमन्तमनुवर्तते, षष्ठन्तेन चेहार्थः, न ह्रटन्यथा पूर्वशब्देन सम्भन्धः शक्यते दर्शयितुमित्यत आह -`तदर्थात्` इत्यादि। अर्थाद्विभक्तिविपरिणामो भवतीति। तदिह षष्ठन्तं जयत इत्यर्थः। अथ पुनरत्रावयवावयविलक्षणा षष्ठी भवति, यथा वृक्षस्य शाखेति? एवमपि यदि `द्वे` इत्यनुवृत्तेद्र्वयोर्यः पूर्वस्तस्याभ्याससंज्ञा विधीयते तदा **सर्वस्य द्वे** (8.1.1) इत्यत्रापि प्रकारणे ये द्वे विहिते तयोर्यः पूर्वस्तस्याप्यभ्याससंज्ञा प्राप्नोतीत्यत आह -`तत्र` इत्यादि`। `पूर्वोऽवयवः` इति। पूर्वशब्दो व्यवस्थावचनोऽप्यस्ति, अतस्तद्व्यवच्छेदार्थमवयवग्रहणम्, पपाचेत्यत्राभ्याससंज्ञायां सत्यां `ह्रस्वः (7.4.59) इत्यभ्यासस्य ह्रस्वत्वम्, हलादिशेषः (7.4.60) , प्रकृतिचरां प्रकृतिचरो भवन्तीति चर्त्वम्। `पिपक्षति` इति। `जुहोति` इति पूर्ववद्धकारस्य चुत्वम्, तस्य **अभ्यासे चर्च** (8.4.54) चकारः। `अपिपचत्` इति। पचेण्र्यन्ताच्च्लेश्चङ्, णिलोपः, `णौ चङ्युपधाया ह्रस्वः` (7.4.1) द्विर्वचनम्, `सन्वल्लघुनि` (7.4.93) इतीत्त्वम्, **दीर्घो लघोः** (7.4.94) इति दीर्घः। सर्वाण्यभ्याससंज्ञायाः प्रयोजनान्येतानि॥ Prakriyasarvasvam ----------------- द्विरुक्तयोः पूर्वोऽभ्याससंज्ञः । चरतीति चराचरः । चलाचलः । पतापतः । वदावदः । अभ्यासस्यागचीत्युक्तेरभ्यासस्योक्तमन्यत् कार्यमत्राचि न । 'द्वित्वं वेति वाच्यम् (वा० ६-१-१२) हनेरचि द्वित्वमभ्यासहस्य घश्च स्यात् । घनाहन,