54139: कुम्भपदीषु च =================== **Padacheda:** कुम्भपदीषु | S | 7 | 3 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The words कुम्भपदी etc. have been formed by the similar elision of the अ of पाद। Vasu English Translation ------------------------ The words कुम्भपदी etc. have been formed by the similar elision of the अ of पाद। The forms कुंभपदी &c, are formed by eliding the final अ of पाद, and then substituting पद् for पात् before the feminine affix ई by (4.4.130). This substitution takes place only before the feminine affix ङीप्, and no where else, as कुम्भपदी, शतपदी ॥ Those words in the list, the first members of which denote an object of comparison or a numeral, would have elided अ by (5.4.138) or (5.4.140). In their case, this *sutra* teaches the invariable affixing of ङीप् to such words; so that the optional rule (4.1.8) does not apply to them. 1 कुम्भपदी, 2 एकपदी, 3 जालपदी, 4 शूलपदी, 5 मुनिपदि, 6 गुणपदी, 7 शतपदी, 8 सूत्रपदी, 9 गोधापदी, 10 कलशीपदी, 11 विपदी, 12 तृणपदी, 13 द्विपदी, 14 त्रिपदी, 15 षट्पदी, 16 दासीपदी 17 शितिपदी 18 विष्णुपदी , 19 सुपदी, 20 निष्पदी, 21 आर्द्रपदी, 22 कुणिपदी, (कृणपदी), 23 कृष्णपदी, 24 शुचिपदी, 25 द्रोणपदी, (द्रोणीपदी), 26 द्रुपदी, 27 सूकरपदी, 28 शकृत्पदी, 29 अष्टापदी, 30 स्थूणापदी, (स्थूलपदी), 31 अपदी, 32 सूचीपदी, 33 मालापदी, 34 गोपदी, 35 घृतपदी, 36 सूपपदी, 37 पञ्चपदी, 38 अर्वपदी, 39 स्तनपदी, 40 कलहंसपदी, 41 विषपदी ॥ Kashika ------- कुम्भपदीप्रभृतयः कृतपादलोपाः समुदाया एव पठ्यन्ते। तत्रैवं सूत्रं ज्ञेयम्। पादस्य लोपो भवति कुम्भपद्यादिविषये, यथा कुम्भपद्यादयः सिध्यन्ति। समुदायपाठस्य च प्रयोजनं विषयनियमः — स्त्रियामेव, तत्र ङीप्प्रत्यय एव, नान्यदा। कुम्भपदी। शतपदी। यच्चेहोपमानपूर्वं संख्यापूर्वं च पठ्यते, तस्य सिद्धे लोपे नित्यङीबर्थं वचनम्। **पादोऽन्यतरस्याम्** (४.१.८) इति विकल्पो न भवति॥ कुम्भपदी। शतपदी। अष्टापदी। जालपदी। एकपदी। मालापदी। मुनिपदी। गोधापदी। गोपदी। कलशीपदी। घृतपदी। दासीपदी। निष्पदी। आर्द्रपदी। कुणपदी। कृष्णपदी। द्रोणपदी। द्रुपदी। शकृत्पदी। सूपपदी। पञ्चपदी। अर्वपदी। स्तनपदी। कुम्भपद्यादिः॥ Siddhanta Kaumudi ----------------- कुम्भपद्यादिषु पादस्य लोपो ङीप् च निपात्यते स्त्रियाम् ॥ पादः पत् (SK414) ॥ कुम्भपदी । स्त्रियाम् किम् । कुम्भपादः ॥ Balamanorama ------------ **कुम्भपदीषु च** - कुम्भपदीषु च । कुम्भपदीष्विति बहुवचननिर्देशाद्गणपाठाच्च कुम्भपद्यादिग्रहणमिति भावः । ङीप् चेति ।पादोऽन्यतरस्या॑मिति विकल्पापवाद इति । भावः । स्त्रियामिति । कुम्भपद्यादीनां स्त्रीलिङ्गानामेव गणे पाठादिति भावः । कुम्भपदीति । कुम्भस्येव पादावस्येति विग्रहः ।पदास्य लोपोऽहस्त्यादिभ्यः॑ इति लोपे सिद्धे तदनुवादेन नित्यं ङीबर्थं वचनम् । Tattvabodhini ------------- **कुम्भपदीषु च** - कुम्भपदीषु च । बहुवचननिर्देशाद्गणपाठसामर्थ्याच्चाद्य्र्थावगतिरित्यभिप्रेत्याह — कुम्भपद्यादिष्विति । इह गणे — कुम्भपदी एकपदी जानपदीत्येवं समुदाया एव पठन्ते, तस्य च प्रयोजनं विषयविशेषपरिग्रह इत्याशयेनाह -स्त्रियामिति । यच्चेहोपमानपूर्वं संख्यापूर्वं च पठते तस्य सिद्धे लोपे नित्यङीबर्थं वचनं तेनपादोऽन्यतरस्या॑मिति विकल्पा न भवति । Padamanjari ----------- बहुवचननिर्द्देशात्प्रभृत्यर्थोऽवगम्यत इत्याह - कुम्भपदीप्रमृतय इति। समुदाया एव निपात्यन्त इति। कथं तर्हि सूत्रे भूतविभक्तया सप्तम्या निर्द्देशः? इत्यत आह - तत्रेति। विषयग्रहणेन सूत्रे विषयसप्तमीति दर्शयति - यथा कुम्भपद्यादयः सिद्ध्यन्तीति। यतदोर्नित्यसम्बन्धात्पूर्वत्र तथा लोपो भवतीत्यर्थो ग्राह्यः। किमर्थं पुनः समुदाया एव निपात्यन्ते, न कुम्भादीनेव गणे पठित्वा तेभ्यः परस्य पादशब्दस्य लोपो विधीयेत ? तत्राह - समुदायपाठस्य चेति। विषयनियममेव दर्शयति - स्त्रियामेवेति। अत्र च स्त्रियामपि ङीप्प्रत्यय एव।'पादो' न्तरस्याम्ऽ इति यदा ङीब्विषयभूतस्तदैवेत्यर्थः। यच्चेत्यादि। उपमानपूर्वपदम्-कुम्भपदी, जालपदीत्यादि; संख्यापूर्वपदमेकपदी, शतपदीति। अष्टापदीति पठ।ल्ते, तत्र निपातनाद्दीर्घत्वम्, ठष्टनः संज्ञायाम्ऽ इति वाऽऽकारः ॥ Nyaas ----- `कुम्भपदीप्रभृतयः कृतपादलोपाः समुदाया एव पठन्ते` इति। यद्येवम्, कथमिदं नेतव्यम्? इत्याह - `तत्रैवम्` इत्यादि। तत्र तेषु कुम्भपदीप्रभृतिषु कृतपादलोपेषु पठितेष्वेवं व्याख्येयमित्यर्थः। कुम्भपद्यादिविषयेय यथा कुम्भपद्यादयः सम्भवन्तीति। किमर्थं पुनः समुदाया एव पठन्ते, न कुम्भपदादीन्? शब्दान्? प्रातिपदिकेषु पठित्वा तेभ्यः परस्य पादशब्दस्य लोपो विधीयेत? इत्याह - `समुदायपाठस्य च` इत्यादि। यदि कुम्भादिभ्यः परस्य पादस्य स लोप उच्येत, `कृतपादलोपाः समुदाया एव न पठएरन्` इति नियमो न लभ्येत। ततस्त्रिष्वपि लिङ्गेषु स्युः, स्त्रियामेव चेष्यन्ते। समुदायपाठे सति स्त्रियां ङीप्प्रत्यय एव विषयभूते भवति। `नान्यदा` इति। `कुम्भपदी` इति। **पादोऽन्यतरस्याम्** (4.1.8) इति ङीपि विषयभूते पादस्य लोपः ततो ङीप्, तस्मिन्? **पादः पत्** (6.4.130) इति पद्भावः। `यच्चेहोपमानपूर्वम्` इति - कुम्भपदी, जालपदीत्येवमादि। `संख्यापूर्वपदञ्च` इति - एकपदी शतपदीत्येवमादि। `तस्य सिद्धे` इति। उपमानपूर्वस्य पूर्वेणैव सिद्धे संख्यापूर्वस्य तूत्तरेण। `अष्टापदी` इत्यस्मिन्? पठते। तत्र निपातनं दीर्घत्वार्थम्। **अष्टनः संज्ञायाम्** (6.3.125) इति वा॥ Prakriyasarvasvam ----------------- कुम्भपद्यादिषु स्त्रियां पादस्यान्तलोपो नित्यं ङीप् च निपात्यते । ङीपि भत्वात् पद्भावः । 'कुम्भजालैकशतसूत्रस्थणामुनिशित्यार्द्रगोधाकलशीदासीभ्यः (स० ५-४-१६५) । 'विष्णुकृष्णगुणद्रोणीशकृत्सूकरशुचिसूचिविनञ्निदृष्टाभ्यश्च' (स० ५-४-१६६) । कुम्भवत् पादोऽस्याः कुम्भपदी । विष्णोः पादोस्याः कारणत्वेनास्तीति विष्णुपदी । कृष्णपादोऽस्याः प्राप्यत्वेनास्तीति कृष्णपदी व्याख्या । विपदी । अपदी । निष्पदी । अष्टापदी । 'अष्टाभ्य' (७-१-२१) इति निर्देशात् दीर्घः ॥