54115: द्वित्रिभ्यां ष मूर्ध्नः¶
Padacheda: द्वित्रिभ्याम् | S | 5 | 2 |
ष | S | | | 1
मूर्ध्नः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix ष comes after a बहुव्रीहि समास ending in मूर्ध्न् and preceded by 1. द्वि and 2. त्रि।
Vasu English Translation¶
The affix ष comes after a बहुव्रीहि समास ending in मूर्ध्न् and preceded by 1. द्वि and 2. त्रि। Thus द्विमूर्धः, त्रिमूर्धः ॥ The feminine is formed by ङीष् and the accent is regulated by (6.2.197).
Why do we say “preceded by dvi and tri?” Observe उच्चैर्मूर्धा ॥
Bhashya¶
द्वित्रिभ्यां ष मूर्ध्नः (2392) (षप्रत्ययाक्षेपभाष्यम्) किमर्थं मूर्ध्नः षः प्रत्ययान्तरं क्रियते न षच्प्रकृतः सोऽनुवर्तिष्यते॥ (5938 षप्रत्ययस्य फलबोधकं वार्तिकम्॥ 1 ॥) - मूर्ध्नश्च षवचनम् - (भाष्यम्) किम्? अनन्तोदात्तार्थमित्येव। द्विमूर्धः, त्रिमूर्धः॥
Kashika¶
द्वित्रिभ्यां परो यो मूर्धन्शब्दस्तदन्ताद् बहुव्रीहेः षः प्रत्ययो भवति समासान्तः। द्विमूर्धः। त्रिमूर्धः। द्वित्रिभ्यामिति किम् ? उच्चैर्मूर्धा॥
Siddhanta Kaumudi¶
आभ्यां मूर्ध्नः षः स्याद्बहुव्रीहौ । द्विमूर्धः । त्रिमूर्धः ।<!नेतुर्नक्षत्रे अब्वक्तव्यः !> (वार्तिकम्) ॥ मृगो नेता यासां रात्रीणां ताः मृगनेत्रा रात्रयः । पुष्यनेत्राः ॥
Laghu Siddhanta Kaumudi¶
आभ्यां मूर्ध्नः षः स्याद्बहुव्रीहौ। द्विमूर्धः। त्रिमूर्धः॥
Prakriyasarvasvam¶
द्विमूर्धः । त्रिमूर्धः । षित्त्वाद् द्विमूर्धी । ‘अप्पूर्णीप्रमाण्योः’ (५–४–११६) इत्यप् । स्त्री प्रमाणी यस्य स स्त्रीप्रमाणः ।<!नक्षत्रात् परस्य नेतुरब् वाच्यः!> (वा० ५–४–११६) । पुष्या नेताधिपतिरस्या इति पुष्यनेत्रा रात्रिः । ‘सुमन्तनेत्रेण रथेने’ति भट्टिः ।<!मासाद् भृतिप्रत्ययपूर्वात् ठज् वाच्यः!> (वा० ५–४–११६) पञ्च भृतिमान् मासोऽस्येति पञ्चकमासिको भृत्यः । ‘संख्याया अतिशत्—’ (५–१–२२) इति कन् ॥
Sutra Prayogas¶
द्वि-मूर्धांश्च (भट्टिकाव्यम्): द्वि-त्रि-भ्यां प मूर्तः इति समासान्तः षः ।