54114: अङ्गुलेर्दारुणि¶
Padacheda: अङ्गुलेः | S | 5 | 1 |
दारुणि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix षच् comes after a बहुव्रीहि समास ending in the word अङ्गुलि when the compound means ‘a piece of wood’.
Vasu English Translation¶
The affix षच् comes after a बहुव्रीहि समास ending in the word अङ्गुलि when the compound means ‘a piece of wood’. Thus द्व्यंगुलंदारु, त्र्यंगुलंदारु, so also पंचांगुलं ॥ This is the name of a wooden spoon or fork of the figure of a finger by which barley &c are scattered.
Why do we say “in a Bahuvrihi”? Observe द्व्यंगुलयष्टिः = द्वे अंगुली प्रमाणमस्या ॥ It is a Tatpurusha compound formed by (5.4.86), by adding अच् as samasanta affix, the anguli meaning here size and not figure. Why do we say “when meaning a wood” ? Observe पंचांगुलिर्हस्तः ॥
Kashika¶
अङ्गुलिशब्दान्ताद् बहुव्रीहेः षच् प्रत्ययो भवति समासान्तो दारुणि समासार्थे। द्व्यङ्गुलं दारु। त्र्यङ्गुलं दारु। पञ्चाङ्गुलं दारु। अङ्गुलिसदृशावयवं धान्यादीनां विक्षेपणकाष्ठमुच्यते। यस्य तु द्वे अङ्गुली प्रमाणं दारुणस्तत्र तद्धितार्थो० (२.१.५१) इति समासे कृते तत्पुरुषस्याङ्गुलेः० (५.४.८६) इत्यचा भवितव्यम्। दारुणीति किम्? पञ्चाङ्गुलिर्हस्तः॥
Siddhanta Kaumudi¶
अङ्गुल्यन्ताद्बहुव्रीहेः षच् स्याद्दारुण्यर्थे । पञ्चाङ्गुलयो यस्य तत्पञ्चाङ्गुलं दारु । अङ्गुलिसदृशावयवं धान्यादिविक्षेपणकाष्टमुच्यते । बहुव्रीहेः किम् । द्वे अङ्गुली प्रमाणमस्या द्व्यङ्गुला यष्टिः । तद्धितार्थे तत्पुरुषे तत्पुरुषस्याङ्गुलेः - (SK789) इत्यच् । दारुणि किम् । पञ्चाङ्गुलिर्हस्तः ॥
Balamanorama¶
अङ्गुलेर्दारुणि - अङ्गुलेर्दारुणि । बहुव्रीहावित्यनुवृत्तस्य पञ्चम्यर्थे सप्तम्यन्तस्य अङ्गुल्या विशेषणात्तदन्तविधिरित्यभिप्रेत्याह — अङ्गुल्यन्तादिति । पञ्चाङ्गुलं दार्विति । षचियस्येति चे॑तीकारलोपः । ननु दारुणः कथमङ्गुलय इत्यत आह — अङ्गुलिसदृशावयवमिति । अङ्गुलिसदृशा अवयवा यस्येति विग्रहः । धान्येति कुसूलादिस्थितधान्याद्याकर्षकमिति यावत् । उच्यत इति ।लक्षणये॑ति शेषः । द्व्यङ्गुलेति ।प्रमाणे द्वयस॑जिति विहितस्य मात्रचोद्विगोर्नित्य॑मिति लुक् । अबहुव्रीहित्वादत्र न षजिति भावः । तर्हिद्व्यङ्गुलि॑रिति स्यादित्यत आह — तद्धितार्थे इति । षचि तु ङीष् स्यादिति भावः ।
Tattvabodhini¶
अङ्गुलेर्दारुणि - अङ्गुलेति । मात्रचोद्विगोर्नित्यम् इति लुक् ।नेतुर्नक्षत्रेऽब्वक्तव्यः । नेतुरिति । नेता — नायकः । नक्षत्रे यो नेतृशब्दस्तदन्ताब्दहुव्रीहेरित्यर्थः । मृगनेत्रा इति । मृगः — मृगशीर्षनक्षत्रम् । चन्द्रो नेता यस्य मृगनक्षत्रस्यचन्द्रनेता मृग॑इत्यत्र तु न भवति, इह हि नेतृशब्दान्तो बहुव्रीहिर्नक्षत्रे वर्तते न तु नेतृशब्द इति ।खुरखराभ्यां वा नस् । खुराखराभ्यामिति ।नासिकायाः॑इति वर्तते । केवलादेशवचनं प्रत्ययनिवृत्त्यर्थम् । खुरणा इति ।अत्वसन्तस्ये॑ति दीर्घः ।
Padamanjari¶
अङ्गलिसदृशावयवमित्यादि। दारुणि समासार्थे मुख्याभिरङ्गुलीभिः सम्बन्धो नोपर्पद्यत इति भावः। ननु च द्वे अङ्गुली प्रमाणमस्य दारुण इत्यत्र सम्भवति? तत्राह - यस्य त्वलित्यादि। इह च बहुव्रीहेरयं प्रत्ययो विधीयते, त्वदुक्ते चोदाहरणे तद्धितार्थे तत्पुरुषः कर्तव्यः, तत्र च’तत्पुरुषस्याङ्गुलेः’ इत्यचा भवितव्यम्। तस्माद्बहुव्रीहौ दारुणि वाच्ये गौण एवाङ्गुलिशब्द इति सुष्ठूअक्तमित्यर्थः ॥
Prakriyasarvasvam¶
अङ्गुल्यन्ताद् बहुव्रीहेः वृक्षे वाच्ये षच् स्यात् । पञ्च अङ्गुलयोऽस्येति पञ्चाङ्गुल एरण्डः । अङ्गुलितुल्या दलांशास्तस्याङ्गुलयः । अदारुणि—पञ्चाङ्गुलि- र्हस्तः ॥