54116: अप् पूरणीप्रमाण्योः

Padacheda: अप् | S | 1 | 1 |

पूरणीप्रमाण्योः | S | 6 | 2 |

Sutrartha


Vasu English Summary

The affix अप् comes after a बहुव्रीहि समास ending in a feminine ordinal numeral or in the word प्रमाणी।

Vasu English Translation

The affix अप् comes after a बहुव्रीहि समास ending in a feminine ordinal numeral or in the word प्रमाणी। The word पूरणी means words in the feminine gender ending in an ordinal affix (5.2.48) &c). प्रमाणा means ‘a witness, a principal’. Thus कल्याणां पंचमी आसां रात्रीणां = कल्याणीपंचमा रात्रयः “the nights, the fifth of which is auspicious”. कल्याणीदशमा रात्रयः ॥ So also स्त्री प्रमाणी एषां = स्त्रीप्रमाणाः कुटुम्बिनः meaning आर्याप्रधानाः “having a woman for authority”.

Vart:- The affix अप् applies when the Ordinal Numeral is the principal (pradhana) member in a compound. When the Ordinal enters fully into another object, and is not merely wrapped up as it were in another object in a secondary way, there the Ordinal is the principal. The prohibition of punvad-bhava–the change of feminine into masculine ordained by (6.3.24) – applies also to the Ordinal when it is pradhana. Therefore, the affix is not added here. कल्याणपंचमीकः पक्षः = कल्याणी पंचमी अस्मिन् पक्षे ॥

Vart:- The affix अप् comes after नेतृ when preceded by a word denoting asterism. As मृगनेत्रा रात्रयः = मृगो नेता आसां रात्रीणां “the night whose Ieader is the asterism mriga” so also पुष्यनेत्राः ॥ Why do we say “an asterism”? Observe देवदत्तनेर्तृकाः ॥

Vart:- The affix अप् comes after नेतृ in the Chhandas. As बृहस्पतिनेत्रा देवाः, सोमनेत्राः ॥

Vart:- The affix ठच् comes after the word मास when preceded by an ordinal having an affix denoting wages of service. Thus पंचको मासोऽस्य = पंचक मासिकः कर्मकरः मासिका कर्मकर so also दशकमासिकः कर्मकरः ॥ Sutra (5.1.56) gives the rule for forming words denoting ‘wages’ by adding कन् (5.1.22). Therefore दशकमासिकः means “an artist whose monthly wages are ten coins”.

Bhashya

अप्पूरणीप्रमाण्योः (2393) (5939 उपसंख्यानवार्तिकम्॥ 1 ॥) - अपि प्रधानपूरणीग्रहणम् - (भाष्यम्) अपि प्रधानपूरणीग्रहणं कर्तव्यम्। प्रधानं या पूरणीति वक्तव्यम्। इह मा भूत् - कल्याणी पञ्ञ्चमी अस्य पक्षस्य कल्याणपञ्ञ्चमीकः पक्षः॥ अथेह कथं भवितव्यम् - कल्याणी पञ्ञ्चमी यासां रात्रीणामिति? कल्याणीपञ्ञ्चमा रात्रय इति भवितव्यम्। रात्रयोऽत्र प्रधानम्॥ (5940 उपसंख्यानवार्तिकम्॥ 2 ॥) - नेतुर्नक्षत्रे उपसंख्यानम् - (भाष्यम्) नेतुर्नक्षत्रे उपसंख्यानं कर्तव्यम्। पुष्यनेत्राः, मृगनेत्राः॥ (4941 उपंसख्यानवार्तिकम्॥ 3 ॥) - छन्दसि च - (भाष्यम्) छन्दसि च नेतुरुपसंख्यानं कर्तव्यम्। बृहस्पतिनेत्राः, सोमनेत्राः॥ (5942 उपसंख्यानवार्तिकम्॥ 4 ॥) - मासात् भृतिप्रत्ययपूर्वपदाट्ठज्विधिः - (भाष्यम्) मासात् भृतिप्रत्ययपूर्वपदात् ठच् विधेयः, पञ्ञ्चकमासिकः, षट्कमासिकः, दशकमासिकः॥

Kashika

पूरणप्रत्ययान्ताः स्त्रीलिङ्गाः शब्दाः पूरणीग्रहणेन गृह्यन्ते। प्रमाणीति स्वरूपग्रहणम्। पूरण्यन्तात् प्रमाण्यन्तात् च बहुव्रीहेरप् प्रत्ययो भवति समासान्तः। कल्याणी पञ्चमी आसां रात्रीणां ताः कल्याणीपञ्चमा रात्रयः। कल्याणीदशमा रात्रयः। स्त्री प्रमाणी एषां स्त्रीप्रमाणाः कुटुम्बिनः। भार्याप्रधाना इत्यर्थः॥ अपि प्रधानपूरणीग्रहणं कर्तव्यम्॥ यत्रान्यपदार्थे पूरण्यनुप्रविशति न केवलं वर्तिपदार्थ एव, तत्र पूरण्याः प्राधान्यम्। पुंवद्भावप्रतिषेधेऽपि प्रधानपूरण्येव गृह्यते। इह न भवति — कल्याणी पञ्चमी अस्मिन् पक्षे कल्याणपञ्चमीकः पक्ष इति॥ नेतुर्नक्षत्र उपसंख्यानम्॥ मृगो नेता आसां रात्रीणां मृगनेत्रा रात्रयः। पुष्यनेत्राः। नक्षत्र इति किम्? देवदत्तनेतृकाः॥ छन्दसि च नेतुरुपसंख्यानम्॥ बृह॒स्पति॑नेत्रा दे॒वाः (तै०सं० १.८.७.१)। सो॑म॒नेत्राः (मै०सं० २.६.३)॥ मासाद् भृतिप्रत्ययपूर्वपदाट् ठज्विधिः॥ पञ्चको मासोऽस्य पञ्चकमासिकः कर्मकरः। दशकमासिकः। सोऽस्यांशवस्नभृतयः (५.१.५६) इति संख्याया अतिशदन्तायाः कन् (५.१.२२)॥

Siddhanta Kaumudi

पूरणार्थप्रत्ययान्तं यस्त्रीलिङ्गं तदन्तात्प्रमाण्यन्ताच्च बहुव्रीहेरप् स्यात् । कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणीपञ्चमा रात्रयः । स्त्री प्रमाणी यस्य स स्त्रीप्रमाणः ॥<!पुंवद्भावप्रतिषेधोऽप्प्रत्ययश्च प्रधानपूरण्यामेव !> (वार्तिकम्) ॥ रात्रिः पूरणी वाच्या चेत्युक्तोदाहरणे मुख्या । अन्यत्र तु ॥

Laghu Siddhanta Kaumudi

पूरणार्थप्रत्ययान्तं यत्स्त्रीलिङ्गं तदन्तात्प्रमाण्यन्ताच्च बहुव्रीहेरप्स्यात्। कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणीपञ्चमा रात्रयः। स्त्री प्रमाणी यस्य स स्त्रीप्रमाणः। अप्रियादिषु किम्? कल्याणीप्रिय इत्यादि॥

Balamanorama

अप् पूरणीप्रमाण्योः - अप्पूरणी । अविति छेदः ।बहुव्रीहौ सक्थ्यक्ष्णो॑रित्यतो बहुव्रीहावित्यनुवृत्तं पूरणीप्रमाणीभ्यां विशेष्यते, तदन्तविधिः, स्त्रीलिङ्गनिर्देशात्पूरणप्रत्ययान्तं स्त्रीलिङ्गमिह गृह्रते । तदाह — पूर्वणार्थेत्यादिना । अप् स्यादिति । समासान्तस्तद्धित इत्यपि बोध्यम् । पञ्चमीति । पञ्चानां पूरणीत्यर्थः । ‘तस्य पूरणे डट्’नान्तादसंख्यादे॑रिति तस्य मडागमः । टित्त्वान्ङीप् । कल्याणीपञ्चमा रात्रय इति । इह बहुव्रीहौ कृते पञ्चमीशब्दे पूर्वणार्थप्रत्ययान्ते परे कल्याणीशब्दस्य पुंवत्त्वनिषेधः । अप् । समासान्तस्तद्धितः । टाप्यस्येति चे॑तीकारलोपः । ननु पञ्चमी रात्रिरन्यपदार्थप्रविष्या वा, न वा । नाद्यः । तस्याः समस्यमानपदार्थत्वेन तदन्यत्वानुपपत्तेः । नान्त्यः । पञ्चम्या रात्रेरन्यपदार्थप्रवेशाऽभावे ‘कल्याणीपञ्चमा’ इति समासात्पञ्चमीं रातिंर विना चतुर्णामेव बोधनापत्तौ पञ्चपदस्याऽसङ्गत्यापादनादिति चेत्, सत्यम्-पञ्चानां रात्रीणामुद्भूतावयवभेदः समुदाय एवान्यपदार्थः । तत्र पञ्चम्या रात्रेः प्रवेशेऽपि तद्धटितसमुदायस्यान्यपदार्थत्वं न विरुध्यते, समुदायस्यावयवापेक्षया अन्यत्वात् । ‘रात्रय’ इति बहुवचनं त्ववयवबहुत्वापेक्षम् । यथा चैतत्तथा सर्वनामसंज्ञासूत्रे प्रपञ्चितम् । अथ प्रमाण्यन्तादब्विधेरुदाहरणमाह — स्त्रीप्रमाण इति । प्रमाणशब्दोऽत्र करणल्युडन्तो विशेष्यनिघ्नः । टित्त्वान्ङीप् । बहुव्रीहौ सति अप्प्रत्ययेयस्येति चे॑ति ईकारलोपे ‘स्त्रीप्रमाण’ इति रूपम् । पूर्वपदस्य तु नित्यस्त्रीलिङ्गत्वादभाषितपुंस्कत्वान्न पुंवत्त्वप्रसक्तिः । प्रधानपूरण्यामेवेति ।स्त्रियाः पुंव॑दिति सूत्रे,अप्पूरणी॑ति सूत्रे च प्रधानपूरणीग्रहणं कर्तव्यमिति भावः । ननुकल्याणीपञ्चमा रात्रय॑ इत्यत्र पञ्चम्या रात्रे समस्यमानपदार्थत्वात्कथं प्राधान्यं, बहुव्रीहेरन्यपदार्थप्रधानत्वादित्यत आह — रात्रिः पूरणी वाच्या चेत्युक्तोदाहरणे मुख्येति ।कल्याणीपञ्चमा रात्रय॑ इत्युक्तोदाहरणे पञ्चानां पूरणी रात्रिः समस्यमानपञ्चमीपदार्थत्वेऽपि अन्यपदार्थसमुदाय वटकतया बहुव्रीहिसमासवाच्यापि भवतीति कृत्वा मुख्या भवतीत्यर्थः । उद्भूतावयवस्य रात्रिसमुदायस्य प्रधानत्वेऽपि तद्धटकतया यता प्रथमाद्याश्चतरुआओ रात्रयः समासाभिधेयाः, एवं पञ्चम्यपि रात्रिः समासाभिधेया भवतीति समस्यमानपञ्चमीपदार्थस्य अन्यपदार्थानुप्रवेसात्प्राधान्यमिति भावः । अन्यत्र त्विति ।कल्याणपञ्चमीकः पक्ष॑ इत्यत्र पूरण्या रात्रेरन्यपदार्थप्रवेशाऽभावादप्राधान्यादप्प्रत्ययाऽभावे सति विशेषो वक्ष्यत इत्यर्थः ।

Tattvabodhini

अप् पूरणीप्रमाण्योः - प्रमाणीति । करणे ल्युट् । तदन्तस्य विशेष्यनिन्घत्वात्स्त्रियां ङीप् । कथं तर्हिप्रमाणायां स्मृतौ॑ इति शाबरभाष्यमिति चेत् । अत्र भट्टाः — -॒प्रमाणमयते याति मूलभूतां श्रुति यतः । क्वीबन्तादयतेस्तस्मात्प्रमाण स्मृतिरुच्यते॥॑ इत्याहुः । तत्राऽयतेः क्विपिह्रस्वस्य पिति कृती॑ति तुकि टाब्दुर्लभः, तथाप्यागमशास्त्रस्याऽनित्यत्वात्तुङ्नेति बोध्यम् । क्विबिववाचरति क्विब्, विजित्यर्थ इति वा व्याख्येयम् । अन्ये तु प्रमाणं वेदस्तद्वदाचरतीत्याचारक्वीबन्तात्प्रमाणशब्दात्पचाद्यचि टाबित्याहुः । प्रधानपूरण्या मेवेति । प्रधाने कार्यसंप्रत्ययान्न्यायसिद्धमिदम् । नद्यृतः । तपरत्वं स्पष्टार्थम् ।

Padamanjari

पूरणप्रत्ययान्त इति।’तस्य पूरणे डट्’ इत्येवमादयः पूरणार्थे ये प्रत्यया विहितास्तदन्ता इत्यर्थः। स्त्रीलिङ्गा इति।’पूरणी’ इति ङीपा निर्द्देशात्। पूरणीग्रहणेन गृह्यन्ते इति। पूरणार्थसाहचर्यात्। अपि प्रधानपूरणीग्रहणमिति। अपि विधीयमाने प्रधानं या पूरणी सा गृह्यत इति वक्तव्यमित्यर्थः। क्वच पुनः पूरण्याः प्रादान्यम्? इत्यत आह - यत्रेति। न केवलं वर्तिपदार्थ एवेति। समासावयवभूतं पदं वर्तिपदम्, तस्यार्थो वर्तिपदार्थः। प्रथमान्तं चैतत्, न सप्तम्यन्तम्। पूरणीत्येतदनुषज्यते, न पुनरनुप्रविशतीति। तत्रोदाहरणे उद्भूतावयवबेदस्य समुदायस्य कृतैकशेषेण रात्रिशब्देनाभिधानाद्रात्रिषु पञ्चम्या अन्तर्भावः। कल्याणपञ्चमीकः पक्ष इति।’नद्यःतश्च’ इति अप्। अत्र वर्तिपदार्थ एव पूरणी, न त्वन्यपदार्थः; तिरोहितावयवलभेदस्य पक्षस्यान्यपदार्थत्वात्। यथा-वृक्षशब्दस्यावयव्यभिदेयः, न तु शाखादयोऽवयवाः; अनुमीयमानस्याशब्दार्थत्वादित्यप्राधान्यं पूरण्याः। नेतुर्नक्षत्र इति। यो नेतृशब्दस्तदन्ताद्बहुव्रीहेरित्यर्थः। च्छन्दसि चेति। अनक्षत्रार्थमिदम्। पञ्चकमासिक इति। पञ्चभृतिरस्य मासस्य पञ्चको मासः, सोऽस्यांखवस्नभृतयःऽ इति संख्याया कन्, पञ्चको मासोऽस्येति बहुव्रीहौ कृतेटच्। अपः पित्कस्णं यत्र बहुव्रीहावन्तोदातत्वमारम्यते तद्बाधनार्थम् - अपञ्चमाः, सुपञ्चमाः,’नञ्सुभ्याम्’ इत्यन्तोदातत्वं न भवति ॥

Prakriyasarvasvam

पूरण्यन्तात् प्रमाणीशब्दान्ताच्च बहुव्रीहेरप् स्यात् । सुन्दरी पञ्चमी यासां स्त्रीणां ताः सुन्दरीपञ्चमाः स्त्रियः । अन्यपदार्थस्य पूरणार्थसजातीयस्य एवं पुंवत्वनिषेधोऽप्प्रत्ययश्च । उक्ते हि पञ्चमी स्त्री । अन्यपदार्थाश्च स्त्रिय एव । अन्यत्र न । सुन्दरपञ्चमीकं गृहम् । प्रियादिषु तु—रम्याप्रियः । दृढाभक्तिः । रम्याकान्तः । <karika>प्रिया मनोज्ञा कल्याणी सुभगा दुर्भगा समा । सचिवा चपला बाला तनया दुहिता तथा ॥ ३९४ ॥ क्षान्ता कान्ता वामना स्वा वामा भक्तिः प्रियादयः । भक्तिशब्दः प्रसिद्धोऽत्र ग्राह्यो नो सेव्यवाचकः ॥ ३९५ ॥</karika> विदितभक्ति मामित्यादौ भजनक्रियाविशेषणतया निर्वाह इति रामः ॥

Vartika

नेतुर्नक्षत्रेऽन्वक्तव्यः ।