54115: द्वित्रिभ्यां ष मूर्ध्नः =============================== **Padacheda:** द्वित्रिभ्याम् | S | 5 | 2 | ष | S | | | 1 मूर्ध्नः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix ष comes after a बहुव्रीहि समास ending in मूर्ध्न् and preceded by 1. द्वि and 2. त्रि। Vasu English Translation ------------------------ The affix ष comes after a बहुव्रीहि समास ending in मूर्ध्न् and preceded by 1. द्वि and 2. त्रि। Thus द्विमूर्धः, त्रिमूर्धः ॥ The feminine is formed by ङीष् and the accent is regulated by (6.2.197). Why do we say "preceded by *dvi* and *tri*?" Observe उच्चैर्मूर्धा ॥ Bhashya ------- द्वित्रिभ्यां ष मूर्ध्नः (2392) (षप्रत्ययाक्षेपभाष्यम्) किमर्थं मूर्ध्नः षः प्रत्ययान्तरं क्रियते न षच्प्रकृतः सोऽनुवर्तिष्यते॥ (5938 षप्रत्ययस्य फलबोधकं वार्तिकम्॥ 1 ॥) - मूर्ध्नश्च षवचनम् - (भाष्यम्) किम्? अनन्तोदात्तार्थमित्येव। द्विमूर्धः, त्रिमूर्धः॥ Kashika ------- द्वित्रिभ्यां परो यो मूर्धन्शब्दस्तदन्ताद् बहुव्रीहेः षः प्रत्ययो भवति समासान्तः। द्विमूर्धः। त्रिमूर्धः। द्वित्रिभ्यामिति किम् ? उच्चैर्मूर्धा॥ Siddhanta Kaumudi ----------------- आभ्यां मूर्ध्नः षः स्याद्बहुव्रीहौ । द्विमूर्धः । त्रिमूर्धः । (वार्तिकम्) ॥ मृगो नेता यासां रात्रीणां ताः मृगनेत्रा रात्रयः । पुष्यनेत्राः ॥ Laghu Siddhanta Kaumudi ----------------------- आभ्यां मूर्ध्नः षः स्याद्बहुव्रीहौ। द्विमूर्धः। त्रिमूर्धः॥ Prakriyasarvasvam ----------------- द्विमूर्धः । त्रिमूर्धः । षित्त्वाद् द्विमूर्धी । 'अप्पूर्णीप्रमाण्योः' (५–४–११६) इत्यप् । स्त्री प्रमाणी यस्य स स्त्रीप्रमाणः । (वा० ५–४–११६) । पुष्या नेताधिपतिरस्या इति पुष्यनेत्रा रात्रिः । 'सुमन्तनेत्रेण रथेने'ति भट्टिः । (वा० ५–४–११६) पञ्च भृतिमान् मासोऽस्येति पञ्चकमासिको भृत्यः । 'संख्याया अतिशत्—' (५–१–२२) इति कन् ॥ Sutra Prayogas -------------- * **द्वि-मूर्धांश्च** (भट्टिकाव्यम्): `द्वि-त्रि-भ्यां प मूर्तः` इति समासान्तः षः ।