54113: बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्

Padacheda: बहुव्रीहौ | S | 7 | 1 |

सक्थ्यक्ष्णोः | S | 6 | 2 |

स्वाङ्गात् | S | 5 | 1 |

षच् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix षच् comes after the words 1. सक्थि and 2. अक्षि , final in a बहुव्रीहि समास and denoting a portion of one’s body.

Vasu English Translation

The affix षच् comes after the words 1. सक्थि and 2. अक्षि , final in a बहुव्रीहि समास and denoting a portion of one’s body. Thus दीर्घे सक्थि यस्य = दीर्घसक्थः, so also कल्याणाक्षः, लोहिताक्षः, विशालाक्षः ॥ The word सक्ष्टपक्ष्णोः is genitive dual, while it ought to be ablative. Why do we say “in a Bahuvrihi compound”? Observe परमसक्थिः, परमाक्षिः ॥ Why do we say “after sakthi and akshi?” Observe दीर्घजानुः, सुबाहुः ॥ Why do we say “when denoting a part of the body?” Observe दीर्घसक्थि शकटं, स्थूलक्षिरिक्षुः ॥

The new affix षच् is employed instead of टच् for the sake of the accent Thus चक्रसक्थी स्त्री, दीर्घसक्थी स्त्री ॥ By sutra (4.1.41) the feminine of words ending in an affix having an indicatory ष् is formed by ङीष् and not ङीप् ॥ Had the affix here been टच्, then the feminine would have been formed by ङीप् (4.1.15), which is anudatta (3.1.4). Now by rule (6.2.198) the second term ‘saktha’ has optionally udatta accent, on this final in a Bahuvrihi. When therefore, it is not oxytone, then by adding ङीप् the final of दीर्घसक्थी would have been anudatta, so that the feminine in one case would be oxytone, in the other not, which would be anomalous. But when ङीष् is added, it is always udatta, which is desired: and removes the anomaly. The anuvritti of Bahuvrihi extends up to the end of the chapter.

Bhashya

बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् (2390) (षचाक्षेपभाष्यम्) किमर्थं षच् प्रत्ययान्तरं विधीयते, न टच्प्रकृतः सोऽनुवर्तिष्यते॥ अत उत्तरं पठति - (5937 षच्करणस्य सार्थक्यबोधकवार्तिकम्॥ 1 ॥) - षचि प्रत्ययान्तरकरणमनन्तोदात्तार्थम् - (भाष्यम्) षचि प्रत्ययान्तरं क्रियते। किं प्रयोजनम्? अनन्तोदात्तार्थम्। अनन्तोदात्ताः प्रयोजयन्ति - चक्रसक्थम्, चक्रसक्थी॥

Kashika

स्वाङ्गवाची यः सक्थिशब्दोऽक्षिशब्दश्च तदन्ताद् बहुव्रीहेः षच् प्रत्ययो भवति समासान्तः। अयमर्थोऽभिप्रेतः। सूत्रे तु दुःश्लिष्टविभक्तीनि पदानि। दीर्घं सक्थि यस्य दीर्घसक्थः। कल्याणाक्षः। लोहिताक्षः। विशालाक्षः। बहुव्रीहाविति किम् ? परमसक्थि। परमाक्षि। सक्थ्यक्ष्णोरिति किम् ? दीर्घजानुः। सुबाहुः। स्वाङ्गादिति किम् ? दीर्घसक्थि शकटम्। स्थूलाक्षिः इक्षुः। टचि प्रकृते षज्ग्रहणं स्वरार्थम्। दीर्घसक्थी स्त्री। सक्थं चाक्रान्तात् (६.२.१९८) इति विभाषयोत्तरपदस्यान्तोदात्तता विधीयते। तत्र यस्मिन् पक्षे नास्त्युदात्तत्वं तत्र ङीपि सत्युदात्तनिवृत्तिस्वरस्याभावादनुदात्तः श्रूयेत। ङीषि तु सर्वत्रोदात्तः सिद्धो भवति। बहुव्रीहिग्रहणम् आ पादपरिसामाप्तेरनुवर्तते॥

Siddhanta Kaumudi

व्यत्ययेन षष्ठी । स्वाङ्गवाचि सक्थ्यक्ष्यन्ताद्बहुव्रीहेः षच् स्यात् । दीर्घे सक्थिनी यस्य स दीर्घसक्थः । जलजाक्षी । स्वाङ्गात् किम् । दीर्घसक्थि शकटम् । स्थूलाक्षा वेणुयष्टिः । अक्ष्णोऽदर्शनात् (SK644) इत्यच् ॥

Laghu Siddhanta Kaumudi

स्वाङ्गवाचिसक्थ्यक्ष्यन्ताद्बहुव्रीहेः षच् स्यात् । दीर्घसक्थः । जलजाक्षी । स्वाङ्गात्किम् ? दीर्घसक्थि शकटम् । स्थूलाक्षा वेणुयष्टिः । अक्ष्णोऽदर्शनादिति वक्ष्यमाणोऽच् ॥

Balamanorama

बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् - बहुव्रीहौ । व्यत्ययेनेति ।सक्थ्यक्ष्णो॑रिति षष्ठी पञ्चम्यर्थे,व्यत्ययो बहुल॑मिति छन्दसिवचनादित्यर्थः ।छन्दोवत्सूत्राणि भवन्ती॑ति भाष्यम् ।बहुव्रीहा॑विति सप्तमी व्यत्ययेन पञ्चम्यर्थे । तदाह — स्वाङ्गवाचीति । सक्थ्यक्ष्यन्तादिति । बहुव्रीहिविशेषणत्वात्तदन्तविधिरिति भावः । षच्स्यादिति । समासान्तस्तद्धितश्चेति ज्ञेयम् । दीर्घसक्थ इति ।षच् । यस्येति चे॑ति लोपः । जलजाक्षीति । जलजे इव अक्षिणी यस्या इति विग्रहः । समासे षचि ‘नस्तद्धिते’ इति टिलोपः । षित्त्वान्ङीप् । षित्त्वं ङीषर्थमिति भावः । दीर्घसक्थि शकटमिति । दीर्घे सक्थिनी=सक्थिसदृशावोषादण्डौ यस्येति विग्रहः । अत्र सक्थिशब्दार्थयोरीषादण्डयोःअद्रवं मूर्तिमत्स्वाङ्ग॑मित्यादिस्वाङ्गलक्षणाऽभावान्न षजिति भावः । अत्रस्वाङ्गा॑दित्यस्य प्रत्युदाहरणान्तरमाह — स्थूलाक्षेति । स्थूलानि अक्षाणि=पर्वग्रन्थयो यस्या इति बहुव्रीहिः । अस्वाङ्गत्वादिह न षजिति भावः । ननु षजभावेऽपि नान्तलक्षणङीपि स्थूलाक्षिणीति स्यादित्यत आह — अक्ष्णोऽदर्शनादित्यजिति । षचि तु षित्त्वलक्षणङीष्स्यादिति भावः ।

Tattvabodhini

बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् - व्यत्ययेन षष्ठीति । एतच्चोपलक्षणं, सप्तम्यपि व्यत्ययेनैव । तदाह -स्वाङ्गवाचीत्यादि ।अद्रवं मूर्तिम॑दित्यादिलक्षणलक्षितं स्वाङ्गं गृह्रते । तेनशोभनाक्षी प्रतिमे॑त्यादिप्रयोगो निर्बाध एवेत्याहुः । षच्स्यादिति । षो ङीषर्थः । चस्तुचितः॑ इत्यन्तोदात्तार्थः । तेनात्र पूर्वपजप्रकृतिस्वरो न भवति । स्थूलाक्षेति । स्थूलानि अक्षीण्=पर्वाङ्कुराणि यस्याः सा । प्राचा तु स्थूलाक्षिरिक्षुरिति प्रत्युदाहृतम् । तन्न ।अक्षाणोऽदर्शना॑दित्यचो दुर्वारत्वात् । यदपि समासान्तविधेरनित्यत्वात्स न कृत इति कैश्चिव्द्याख्यातं, तदसारम् । एवंहि षजपि तथैव न भविष्यतीति प्रत्युदाहरणस्याऽसङ्गतिप्रसङ्गात् ।

Padamanjari

स्वाङ्गमद्रवादिलक्षणं पारिभाषिकं गृह्यते। दुःश्लिष्टविभक्तीनीति। दुरुनिन्दायाम्। निन्दितं यथा तथा श्लिष्टाः सम्बद्धाः विभक्यो येषु तानि तथोक्तानि, तथा हि - बहुव्रीहिशब्दात्पञ्चम्या भवितव्यम्, समासान्तसम्बनधे षष्ठ।ल वा, यथा -‘तत्पुरुषस्याह्गुलेः’ इति; इह तु सप्तम्येकवचनं श्रुतम्।’सक्थ्यक्षणेः’ इति षष्ठीद्विवचनम्, सप्तमीद्ववचनं वा। न चैवम्भूतेनानेन बहुव्रीहिः शक्यो विशेषयुतुम्; भिन्नविभक्तिवचनत्वात्। स्वाङ्गादिति पञ्चम्येकवचनम्, तच्च न सक्थ्यक्षणोः समानाधिकरणं विशेषणमवकल्पते, तत्चाभिप्रेतम्। तस्माद्विभक्तिव्यत्ययमाश्रित्य विभक्तयः सम्बन्धयितव्या इति’दुःश्लष्टविभक्तीनि’ इत्युक्तम्। स्थूलाक्षिरिक्षुरिति। ठक्ष्णोऽदर्शनात्ऽ इत्यचात्र भवितव्यम्। यदि तु नेष्यते, समासान्तविधिरनित्य इति वक्तव्यम्; तत एव तर्हि षजपि न भविष्यति। तस्मात्स्थूलाक्षा, सूक्षमाक्षा वेणुयष्टिरिति अजेव टापि प्रत्युदाहर्तव्य इत्याहुः। दीर्घसक्थीति। दीघ सक्थ्यस्याः सा दीर्घसक्थी, अत्र षचि सतिक ङीषुदातो भवति, टचि तु सति ङीबनुदातः स्यात्। ननु टचश्चित्करणमन्तोदातार्थम्, ततश्च ङीबप्युदातनिवृत्तिस्वरेणोदात एव भविष्यति ? तत्राह - सक्यं चाक्रान्तादित्यादि। विभायेति।’विभाषोत्पुच्छ’ इत्यतोऽनुवृतेः षचश्चित्करणमक्ष्यर्थम्। सक्थ्यपि यदाक्रान्तात्परं तदा नित्यमन्तोदातं भवति - चक्रसक्थः, वक्रसक्थ इति। गौरसक्थादौ तु नार्थश्चित्करणेन ॥

Prakriyasarvasvam

स्वाङ्गार्थयोरनयोः बहुव्रीहौ समासान्तः षच् स्यात् । दीर्घसक्थः । आयताक्षः । षित्त्वादायताक्षी । स्वाङ्गादित्युक्तेः स्थूलाक्षा वेणुयष्टिरित्यत्र ‘अक्ष्णोऽदर्शनात्’ (५-४-७६) इति वक्ष्यमाणोऽजेव । ङीष् नेति भेदः । वेण्वादेः पर्वस्वङ्कुरस्थानमक्षि ॥

Sutra Prayogas

  • तदध्यासितकातराक्ष्या (रघुवंशम्): बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् इति षच्।

  • मुकुलिताक्षीं (कुमारसम्भवम्): बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् इति षच्प्रत्ययः।

  • निरञ्जनाक्षीः (किरातार्जुनीयम्): बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् इति षच् प्रत्ययः।

  • सलीलनिमीलिताक्षं (शिशुपालवधम्): बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् इति षच्प्रत्ययः।

  • मुकुलिताक्षम् (शिशुपालवधम्): बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्पच् इति पच् प्रत्ययः।

  • पिङ्गलाऽक्षैः (भट्टिकाव्यम्): बहुव्रीहौ सक्थ्यक्ष्णोः इति पच्।

  • काक्षेणा (भट्टिकाव्यम्): बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् इति षच्-प्रत्ययः।

  • धौताऽक्षः (भट्टिकाव्यम्): बहुव्रीहौ सक्थ्यक्ष्णोः इति समासान्तष्टच्।