54113: बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् ============================================= **Padacheda:** बहुव्रीहौ | S | 7 | 1 | सक्थ्यक्ष्णोः | S | 6 | 2 | स्वाङ्गात् | S | 5 | 1 | षच् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix षच् comes after the words 1. सक्थि and 2. अक्षि , final in a बहुव्रीहि समास and denoting a portion of one's body. Vasu English Translation ------------------------ The affix षच् comes after the words 1. सक्थि and 2. अक्षि , final in a बहुव्रीहि समास and denoting a portion of one's body. Thus दीर्घे सक्थि यस्य = दीर्घसक्थः, so also कल्याणाक्षः, लोहिताक्षः, विशालाक्षः ॥ The word सक्ष्टपक्ष्णोः is genitive dual, while it ought to be ablative. Why do we say "in a *Bahuvrihi* compound"? Observe परमसक्थिः, परमाक्षिः ॥ Why do we say "after *sakthi* and *akshi*?" Observe दीर्घजानुः, सुबाहुः ॥ Why do we say "when denoting a part of the body?" Observe दीर्घसक्थि शकटं, स्थूलक्षिरिक्षुः ॥ The new affix षच् is employed instead of टच् for the sake of the accent Thus चक्रसक्थी स्त्री, दीर्घसक्थी स्त्री ॥ By *sutra* (4.1.41) the feminine of words ending in an affix having an indicatory ष् is formed by ङीष् and not ङीप् ॥ Had the affix here been टच्, then the feminine would have been formed by ङीप् (4.1.15), which is *anudatta* (3.1.4). Now by rule (6.2.198) the second term '*saktha*' has optionally *udatta* accent, on this final in a *Bahuvrihi*. When therefore, it is not oxytone, then by adding ङीप् the final of दीर्घसक्थी would have been *anudatta*, so that the feminine in one case would be oxytone, in the other not, which would be anomalous. But when ङीष् is added, it is always *udatta*, which is desired: and removes the anomaly. The *anuvritti* of *Bahuvrihi* extends up to the end of the chapter. Bhashya ------- बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् (2390) (षचाक्षेपभाष्यम्) किमर्थं षच् प्रत्ययान्तरं विधीयते, न टच्प्रकृतः सोऽनुवर्तिष्यते॥ अत उत्तरं पठति - (5937 षच्करणस्य सार्थक्यबोधकवार्तिकम्॥ 1 ॥) - षचि प्रत्ययान्तरकरणमनन्तोदात्तार्थम् - (भाष्यम्) षचि प्रत्ययान्तरं क्रियते। किं प्रयोजनम्? अनन्तोदात्तार्थम्। अनन्तोदात्ताः प्रयोजयन्ति - चक्रसक्थम्, चक्रसक्थी॥ Kashika ------- स्वाङ्गवाची यः सक्थिशब्दोऽक्षिशब्दश्च तदन्ताद् बहुव्रीहेः षच् प्रत्ययो भवति समासान्तः। अयमर्थोऽभिप्रेतः। सूत्रे तु दुःश्लिष्टविभक्तीनि पदानि। दीर्घं सक्थि यस्य दीर्घसक्थः। कल्याणाक्षः। लोहिताक्षः। विशालाक्षः। बहुव्रीहाविति किम् ? परमसक्थि। परमाक्षि। सक्थ्यक्ष्णोरिति किम् ? दीर्घजानुः। सुबाहुः। स्वाङ्गादिति किम् ? दीर्घसक्थि शकटम्। स्थूलाक्षिः इक्षुः। टचि प्रकृते षज्ग्रहणं स्वरार्थम्। दीर्घसक्थी स्त्री। **सक्थं चाक्रान्तात्** (६.२.१९८) इति विभाषयोत्तरपदस्यान्तोदात्तता विधीयते। तत्र यस्मिन् पक्षे नास्त्युदात्तत्वं तत्र ङीपि सत्युदात्तनिवृत्तिस्वरस्याभावादनुदात्तः श्रूयेत। ङीषि तु सर्वत्रोदात्तः सिद्धो भवति। बहुव्रीहिग्रहणम् आ पादपरिसामाप्तेरनुवर्तते॥ Siddhanta Kaumudi ----------------- व्यत्ययेन षष्ठी । स्वाङ्गवाचि सक्थ्यक्ष्यन्ताद्बहुव्रीहेः षच् स्यात् । दीर्घे सक्थिनी यस्य स दीर्घसक्थः । जलजाक्षी । स्वाङ्गात् किम् । दीर्घसक्थि शकटम् । स्थूलाक्षा वेणुयष्टिः । अक्ष्णोऽदर्शनात् (SK644) इत्यच् ॥ Laghu Siddhanta Kaumudi ----------------------- स्वाङ्गवाचिसक्थ्यक्ष्यन्ताद्बहुव्रीहेः षच् स्यात् । दीर्घसक्थः । जलजाक्षी । स्वाङ्गात्किम् ? दीर्घसक्थि शकटम् । स्थूलाक्षा वेणुयष्टिः । अक्ष्णोऽदर्शनादिति वक्ष्यमाणोऽच् ॥ Balamanorama ------------ **बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्** - बहुव्रीहौ । व्यत्ययेनेति ।सक्थ्यक्ष्णो॑रिति षष्ठी पञ्चम्यर्थे,व्यत्ययो बहुल॑मिति छन्दसिवचनादित्यर्थः ।छन्दोवत्सूत्राणि भवन्ती॑ति भाष्यम् ।बहुव्रीहा॑विति सप्तमी व्यत्ययेन पञ्चम्यर्थे । तदाह — स्वाङ्गवाचीति । सक्थ्यक्ष्यन्तादिति । बहुव्रीहिविशेषणत्वात्तदन्तविधिरिति भावः । षच्स्यादिति । समासान्तस्तद्धितश्चेति ज्ञेयम् । दीर्घसक्थ इति ।षच् । यस्येति चे॑ति लोपः । जलजाक्षीति । जलजे इव अक्षिणी यस्या इति विग्रहः । समासे षचि 'नस्तद्धिते' इति टिलोपः । षित्त्वान्ङीप् । षित्त्वं ङीषर्थमिति भावः । दीर्घसक्थि शकटमिति । दीर्घे सक्थिनी=सक्थिसदृशावोषादण्डौ यस्येति विग्रहः । अत्र सक्थिशब्दार्थयोरीषादण्डयोःअद्रवं मूर्तिमत्स्वाङ्ग॑मित्यादिस्वाङ्गलक्षणाऽभावान्न षजिति भावः । अत्रस्वाङ्गा॑दित्यस्य प्रत्युदाहरणान्तरमाह — स्थूलाक्षेति । स्थूलानि अक्षाणि=पर्वग्रन्थयो यस्या इति बहुव्रीहिः । अस्वाङ्गत्वादिह न षजिति भावः । ननु षजभावेऽपि नान्तलक्षणङीपि स्थूलाक्षिणीति स्यादित्यत आह — अक्ष्णोऽदर्शनादित्यजिति । षचि तु षित्त्वलक्षणङीष्स्यादिति भावः । Tattvabodhini ------------- **बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्** - व्यत्ययेन षष्ठीति । एतच्चोपलक्षणं, सप्तम्यपि व्यत्ययेनैव । तदाह -स्वाङ्गवाचीत्यादि ।अद्रवं मूर्तिम॑दित्यादिलक्षणलक्षितं स्वाङ्गं गृह्रते । तेनशोभनाक्षी प्रतिमे॑त्यादिप्रयोगो निर्बाध एवेत्याहुः । षच्स्यादिति । षो ङीषर्थः । चस्तुचितः॑ इत्यन्तोदात्तार्थः । तेनात्र पूर्वपजप्रकृतिस्वरो न भवति । स्थूलाक्षेति । स्थूलानि अक्षीण्=पर्वाङ्कुराणि यस्याः सा । प्राचा तु स्थूलाक्षिरिक्षुरिति प्रत्युदाहृतम् । तन्न ।अक्षाणोऽदर्शना॑दित्यचो दुर्वारत्वात् । यदपि समासान्तविधेरनित्यत्वात्स न कृत इति कैश्चिव्द्याख्यातं, तदसारम् । एवंहि षजपि तथैव न भविष्यतीति प्रत्युदाहरणस्याऽसङ्गतिप्रसङ्गात् । Padamanjari ----------- स्वाङ्गमद्रवादिलक्षणं पारिभाषिकं गृह्यते। दुःश्लिष्टविभक्तीनीति। दुरुनिन्दायाम्। निन्दितं यथा तथा श्लिष्टाः सम्बद्धाः विभक्यो येषु तानि तथोक्तानि, तथा हि - बहुव्रीहिशब्दात्पञ्चम्या भवितव्यम्, समासान्तसम्बनधे षष्ठ।ल वा, यथा -'तत्पुरुषस्याह्गुलेः' इति; इह तु सप्तम्येकवचनं श्रुतम्।'सक्थ्यक्षणेः' इति षष्ठीद्विवचनम्, सप्तमीद्ववचनं वा। न चैवम्भूतेनानेन बहुव्रीहिः शक्यो विशेषयुतुम्; भिन्नविभक्तिवचनत्वात्। स्वाङ्गादिति पञ्चम्येकवचनम्, तच्च न सक्थ्यक्षणोः समानाधिकरणं विशेषणमवकल्पते, तत्चाभिप्रेतम्। तस्माद्विभक्तिव्यत्ययमाश्रित्य विभक्तयः सम्बन्धयितव्या इति'दुःश्लष्टविभक्तीनि' इत्युक्तम्। स्थूलाक्षिरिक्षुरिति। ठक्ष्णोऽदर्शनात्ऽ इत्यचात्र भवितव्यम्। यदि तु नेष्यते, समासान्तविधिरनित्य इति वक्तव्यम्; तत एव तर्हि षजपि न भविष्यति। तस्मात्स्थूलाक्षा, सूक्षमाक्षा वेणुयष्टिरिति अजेव टापि प्रत्युदाहर्तव्य इत्याहुः। दीर्घसक्थीति। दीघ सक्थ्यस्याः सा दीर्घसक्थी, अत्र षचि सतिक ङीषुदातो भवति, टचि तु सति ङीबनुदातः स्यात्। ननु टचश्चित्करणमन्तोदातार्थम्, ततश्च ङीबप्युदातनिवृत्तिस्वरेणोदात एव भविष्यति ? तत्राह - सक्यं चाक्रान्तादित्यादि। विभायेति।'विभाषोत्पुच्छ' इत्यतोऽनुवृतेः षचश्चित्करणमक्ष्यर्थम्। सक्थ्यपि यदाक्रान्तात्परं तदा नित्यमन्तोदातं भवति - चक्रसक्थः, वक्रसक्थ इति। गौरसक्थादौ तु नार्थश्चित्करणेन ॥ Prakriyasarvasvam ----------------- स्वाङ्गार्थयोरनयोः बहुव्रीहौ समासान्तः षच् स्यात् । दीर्घसक्थः । आयताक्षः । षित्त्वादायताक्षी । स्वाङ्गादित्युक्तेः स्थूलाक्षा वेणुयष्टिरित्यत्र 'अक्ष्णोऽदर्शनात्' (५-४-७६) इति वक्ष्यमाणोऽजेव । ङीष् नेति भेदः । वेण्वादेः पर्वस्वङ्कुरस्थानमक्षि ॥ Sutra Prayogas -------------- * **तदध्यासितकातराक्ष्या** (रघुवंशम्): `बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्` इति षच्। * **मुकुलिताक्षीं** (कुमारसम्भवम्): `बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्` इति षच्प्रत्ययः। * **निरञ्जनाक्षीः** (किरातार्जुनीयम्): `बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्` इति षच् प्रत्ययः। * **सलीलनिमीलिताक्षं** (शिशुपालवधम्): `बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्` इति षच्प्रत्ययः। * **मुकुलिताक्षम्** (शिशुपालवधम्): `बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्पच्` इति पच् प्रत्ययः। * **पिङ्गलाऽक्षैः** (भट्टिकाव्यम्): `बहुव्रीहौ सक्थ्यक्ष्णोः` इति पच्। * **काक्षेणा** (भट्टिकाव्यम्): `बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्` इति षच्-प्रत्ययः। * **धौताऽक्षः** (भट्टिकाव्यम्): `बहुव्रीहौ सक्थ्यक्ष्णोः` इति समासान्तष्टच्।