54112: गिरेश्च सेनकस्य

Padacheda: गिरेः | S | 5 | 1 |

च | S | 0 | 0 |

सेनकस्य | S | 6 | 1 |

Sutrartha

सेनकस्य मतेन ‘गिरि’शब्दान्तात् अव्ययीभावसमासात् ‘टच्’ इति समासान्तप्रत्ययः विकल्पेन भवति ।

यस्य अव्ययीभावसमासस्य अन्ते ‘गिरि’ इति शब्दः विद्यते, तस्मात् ‘टच्’ इति समासान्तप्रत्ययः विकल्पेन भवति । यथा - गिरेः समीपम् = उप + गिरि + टच् [वर्तमानसूत्रेण वैकल्पिकः टच्-प्रत्ययः] → उपगिर् + अ [यस्येति च (6.4.148) इति इकारलोपः] → उपगिर पक्षे टच्-प्रत्ययं विना ‘उपगिरि’ इति शब्दः अपि सिद्ध्यति । गिरेः समीपम् तत् उपगिरमुपगिरि वा । (अदन्त-अव्ययीभाव-समासात् विहितस्य विभक्तिप्रत्ययस्य नाव्ययीभावादतोऽम्त्वपञ्चम्याः (2.4.83) इत्यनेन अम्-आदेशः भवति, अतः ‘उपगिरम्’ इति अम्-प्रत्ययान्तशब्दः एव प्रयुज्यते इति स्मर्तव्यम्) । विशेषः - अस्मिन् सूत्रे ‘सेनकस्य’ इति शब्दः ‘सेनक’ नाम्नः वैयाकरणस्य निर्देशार्थम् प्रयुक्तः अस्ति । अयम् निर्देशः केवलमादरार्थम् / पूजार्थमस्ति, विकल्पार्थम् न, यतः विकल्पः तु ‘अन्यतरस्याम्’ इत्यस्य अनुवृत्या एव लभ्यते ।

Vasu English Summary

The affix टच् comes after an अव्ययीभाव समास ending in गिरि according to the opinion of the Grammarian सेनक।

Vasu English Translation

The affix टच् comes after an अव्ययीभाव समास ending in गिरि according to the opinion of the Grammarian सेनक। Thus अन्तर्गिरम् or अन्तर्गिरि, उपगिरम् or उपगिरि ॥ The name of Senaka is mentioned for the sake of respect (pujartha), for the anuvritti of the word अन्यतरस्याम् “optionally” was understood here already.

Kashika

गिरिशब्दान्तादव्ययीभावात् टच् प्रत्ययो भवति सेनकस्याचार्यस्य मतेन। अन्तर्गिरम्, अन्तर्गिरि। उपगिरम्, उपगिरि। सेनकग्रहणं पूजार्थम्। विकल्पोऽनुवर्तत एव॥

Siddhanta Kaumudi

गिर्यन्तादव्ययीभावाट्टच् वा स्यात् । सेनकग्रहणं पूजार्थम् । उपगिरम् । उपगिरि ॥

Balamanorama

गिरेश्च सेनकस्य - गिरेश्च सेनकस्य । सेनको नामाचार्यः । पूजार्थमिति । अन्यतरस्याङ्ग्रहणानुवृत्त्यैव विकल्पसिद्धेरिति भावः । उपगिरमिति । गिरेः समीपमित्यर्थः । टचियस्येति चे॑तीकारलोपः । अम्भावः । इह सेनकग्रहणान्नदीपौर्णमासीत्यत्र ‘झयः’ इत्यत्र चाऽन्यतरस्याङ्र्गरहणं नानुवर्तत इति केचित् । इति बालमनोरमायामव्ययीभावः । — — — — — — — — — — — **अथ बहुव्रीहिसमासप्रकरणम् ***

Tattvabodhini

गिरेश्च सेनकस्य - पूजार्थमिति । अन्यतरस्यामित्यनुवृत्त्या विकल्पसिद्धेरिति भावः । इतितत्त्वबोधिन्यामव्ययीभावः॥

Padamanjari

अन्तर्गिरमिति। विभक्तयर्तेऽव्ययीभावः। विकल्पोऽनुवर्तत एवेति। अन्यथा केषाञाचिज्झयन्तानां शरत्प्रभृतिषु पाठोऽनर्थकः स्यात्;’झयः’ इत्यनेनैव सिद्धत्वात्। एतेनैतन्न चोदनीयम् -‘द्वयोर्विभाषयोर्मध्ये नित्या विधयः’ इति पूर्वस्य विधेर्नित्यत्वार्थमिदं सेनकग्रहणं स्यादिति ॥

Nyaas

अन्तगिरम् इति। गिरेरन्तरित विभक्त्यर्थेऽव्ययीभावः। अन्तः शब्दो हि सप्तम्यर्थवृत्तित्वाद्विभक्त्यर्थे वर्तते। विकल्पार्थमेव सेनकग्रहणं कस्मान्न भवति? इत्याह - विकल्पोऽनुवर्तत एव इति। विकल्पार्थत्वात्। विकल्प्यते वानेन सः। अन्यतरस्यांग्रहणं विकल्प इत्युक्तम्, तदिह नपुंसकादन्यतरस्याम् (5.4.109) इत्यतोऽनुवर्तते। तस्मात्? तेनैव विकल्पस्य सिद्धत्वात्? पूजार्थमेव सेनकग्रहणमुक्तम्, न विकल्पार्थम्। ननु च विभाषयोद्र्वयोर्मध्ये नित्या विधयो भवन्ति (का। प। वृ। 11) इति पूर्वस्य विधेनित्यतां सम्पादयितुं विकल्पार्थमेव सेनकग्रहणं स्यात् ? नैतदस्ति; यदि हि पूर्वो विधिनित्यः स्यात्, झयन्तानां शरत्प्रभृतिषु पाठोऽनर्थकः स्यात्, झयः (5.4.111) इत्यनेनैव सिद्धत्वात्। तस्मान्न विकल्पार्थं सेनकग्रहणम्; पूजार्थमेव॥

Praudhamanorama

पूजार्थमिति। अन्यतरस्याङ्ग्रहणस्य प्रकृतत्वादिति भावः॥ इति श्रीमद्भट्टोजिदीक्षितविरचितायां प्रौढमनोरमायामव्ययीभावसमासप्रकरणम्॥

Prakriyasarvasvam

गिर्यन्तादव्ययीभावाट्टज् वा । सेनकोक्तिः पूजार्था । उपगिरम्, उपगिरि ॥

Sutra Prayogas

  • अनुगिरम् (शिशुपालवधम्): गिरेश्च सेनकस्य इति समासान्तः।

  • अन्तर्-गिरं (भट्टिकाव्यम्): गिरेश्च सेनकस्य इति टच्।