54112: गिरेश्च सेनकस्य ====================== **Padacheda:** गिरेः | S | 5 | 1 | च | S | 0 | 0 | सेनकस्य | S | 6 | 1 | Sutrartha --------- **सेनकस्य मतेन 'गिरि'शब्दान्तात् अव्ययीभावसमासात् 'टच्' इति समासान्तप्रत्ययः विकल्पेन भवति ।** यस्य अव्ययीभावसमासस्य अन्ते 'गिरि' इति शब्दः विद्यते, तस्मात् 'टच्' इति समासान्तप्रत्ययः विकल्पेन भवति । यथा - गिरेः समीपम् = उप + गिरि + टच् [वर्तमानसूत्रेण वैकल्पिकः टच्-प्रत्ययः] → उपगिर् + अ [**यस्येति च** (6.4.148) इति इकारलोपः] → उपगिर पक्षे टच्-प्रत्ययं विना 'उपगिरि' इति शब्दः अपि सिद्ध्यति । गिरेः समीपम् तत् उपगिरमुपगिरि वा । (अदन्त-अव्ययीभाव-समासात् विहितस्य विभक्तिप्रत्ययस्य **नाव्ययीभावादतोऽम्त्वपञ्चम्याः** (2.4.83) इत्यनेन अम्-आदेशः भवति, अतः 'उपगिरम्' इति अम्-प्रत्ययान्तशब्दः एव प्रयुज्यते इति स्मर्तव्यम्) । विशेषः - अस्मिन् सूत्रे 'सेनकस्य' इति शब्दः 'सेनक' नाम्नः वैयाकरणस्य निर्देशार्थम् प्रयुक्तः अस्ति । अयम् निर्देशः केवलमादरार्थम् / पूजार्थमस्ति, विकल्पार्थम् न, यतः विकल्पः तु 'अन्यतरस्याम्' इत्यस्य अनुवृत्या एव लभ्यते । Vasu English Summary -------------------- The affix टच् comes after an अव्ययीभाव समास ending in गिरि according to the opinion of the Grammarian सेनक। Vasu English Translation ------------------------ The affix टच् comes after an अव्ययीभाव समास ending in गिरि according to the opinion of the Grammarian सेनक। Thus अन्तर्गिरम् or अन्तर्गिरि, उपगिरम् or उपगिरि ॥ The name of *Senaka* is mentioned for the sake of respect (*pujartha*), for the *anuvritti* of the word अन्यतरस्याम् "optionally" was understood here already. Kashika ------- गिरिशब्दान्तादव्ययीभावात् टच् प्रत्ययो भवति सेनकस्याचार्यस्य मतेन। अन्तर्गिरम्, अन्तर्गिरि। उपगिरम्, उपगिरि। सेनकग्रहणं पूजार्थम्। विकल्पोऽनुवर्तत एव॥ Siddhanta Kaumudi ----------------- गिर्यन्तादव्ययीभावाट्टच् वा स्यात् । सेनकग्रहणं पूजार्थम् । उपगिरम् । उपगिरि ॥ Balamanorama ------------ **गिरेश्च सेनकस्य** - गिरेश्च सेनकस्य । सेनको नामाचार्यः । पूजार्थमिति । अन्यतरस्याङ्ग्रहणानुवृत्त्यैव विकल्पसिद्धेरिति भावः । उपगिरमिति । गिरेः समीपमित्यर्थः । टचियस्येति चे॑तीकारलोपः । अम्भावः । इह सेनकग्रहणान्नदीपौर्णमासीत्यत्र 'झयः' इत्यत्र चाऽन्यतरस्याङ्र्गरहणं नानुवर्तत इति केचित् । इति बालमनोरमायामव्ययीभावः । — — — — — — — — — — — ****अथ बहुव्रीहिसमासप्रकरणम् ***** Tattvabodhini ------------- **गिरेश्च सेनकस्य** - पूजार्थमिति । अन्यतरस्यामित्यनुवृत्त्या विकल्पसिद्धेरिति भावः । इतितत्त्वबोधिन्यामव्ययीभावः॥ Padamanjari ----------- अन्तर्गिरमिति। विभक्तयर्तेऽव्ययीभावः। विकल्पोऽनुवर्तत एवेति। अन्यथा केषाञाचिज्झयन्तानां शरत्प्रभृतिषु पाठोऽनर्थकः स्यात्;'झयः' इत्यनेनैव सिद्धत्वात्। एतेनैतन्न चोदनीयम् -'द्वयोर्विभाषयोर्मध्ये नित्या विधयः' इति पूर्वस्य विधेर्नित्यत्वार्थमिदं सेनकग्रहणं स्यादिति ॥ Nyaas ----- `अन्तगिरम्` इति। गिरेरन्तरित विभक्त्यर्थेऽव्ययीभावः। अन्तः शब्दो हि सप्तम्यर्थवृत्तित्वाद्विभक्त्यर्थे वर्तते। विकल्पार्थमेव सेनकग्रहणं कस्मान्न भवति? इत्याह - `विकल्पोऽनुवर्तत एव` इति। विकल्पार्थत्वात्। विकल्प्यते वानेन सः। अन्यतरस्यांग्रहणं विकल्प इत्युक्तम्, तदिह **नपुंसकादन्यतरस्याम्** (5.4.109) इत्यतोऽनुवर्तते। तस्मात्? तेनैव विकल्पस्य सिद्धत्वात्? पूजार्थमेव सेनकग्रहणमुक्तम्, न विकल्पार्थम्। ननु च `विभाषयोद्र्वयोर्मध्ये नित्या विधयो भवन्ति` (का। प। वृ। 11) इति पूर्वस्य विधेनित्यतां सम्पादयितुं विकल्पार्थमेव सेनकग्रहणं स्यात् ? नैतदस्ति; यदि हि पूर्वो विधिनित्यः स्यात्, झयन्तानां शरत्प्रभृतिषु पाठोऽनर्थकः स्यात्, `झयः` (5.4.111) इत्यनेनैव सिद्धत्वात्। तस्मान्न विकल्पार्थं सेनकग्रहणम्; पूजार्थमेव॥ Praudhamanorama --------------- **पूजार्थमिति।** अन्यतरस्याङ्ग्रहणस्य प्रकृतत्वादिति भावः॥ इति श्रीमद्भट्टोजिदीक्षितविरचितायां प्रौढमनोरमायामव्ययीभावसमासप्रकरणम्॥ Prakriyasarvasvam ----------------- गिर्यन्तादव्ययीभावाट्टज् वा । सेनकोक्तिः पूजार्था । उपगिरम्, उपगिरि ॥ Sutra Prayogas -------------- * **अनुगिरम्** (शिशुपालवधम्): `गिरेश्च सेनकस्य` इति समासान्तः। * **अन्तर्-गिरं** (भट्टिकाव्यम्): `गिरेश्च सेनकस्य` इति टच्।