54111: झयः¶
Padacheda: झयः | S | 5 | 1 |
Sutrartha¶
यस्य अव्ययीभावसमासस्य अन्तिमवर्णः झय्-प्रत्याहारस्य वर्णः अस्ति तस्मात् विकल्पेन ‘टच्’ इति समासान्तप्रत्ययः भवति ।
यस्मिन् अव्ययीभावसमासे अन्तिमवर्णः ‘झय्’ प्रत्याहारस्य (= वर्गचतुर्थः / वर्गतृतीयः / वर्गद्वितीयः / वर्गप्रथमः) वर्णः अस्ति, तस्मात् विकल्पेन टच् इति समासान्तप्रत्ययः भवति । यथा - 1. समिधः समीपम् = उप + समिध् + टच् → उपसमिध । पक्षे (टच्-प्रत्ययं विना) - उपसमिद् । समिधः समीपम् तत् उपसमिधमुपसमिद् वा । 2. दृषदः समीपम् = उप + दृषद् + टच् → उपदृषद । पक्षे - उपदृषद् । दृषदः समीपम् तत् उपदृषदमुपदृषद् वा । 3. वाचः समीपम् = उप + वाच् + टच् → उपवाच । पक्षे - उपवाच् । वाचः समीपम् तत् उपवाचमुपवाक् वा । 4. मरुतः समीपम् = उप + मरुत् + टच् → उपमरुत । पक्षे - उपमरुत् । मरुतः समीपम् तत उपमरुतमुपमरुत् वा । स्मर्तव्यम् - 1. यद्यप्यत्र ‘झय्’ इति प्रत्याहारः निर्दिश्यते, तथापि झय्-प्रत्याहारस्य सर्वे वर्णाः अव्ययीभावसमासस्य अन्ते नैव दृश्यन्ते । अतः सर्वाणि उदाहरणानि अत्र न उपलभ्यन्ते । 2. केभ्यश्चन झयन्तशब्देभ्यः नित्यम् टच्-प्रत्ययः विधीयते । एतेषाम् सङ्कलनम् अव्ययीभावे शरत्प्रभृतिभ्यः (5.4.107) इत्यत्र कृतमस्ति । 3. अदन्त-अव्ययीभाव-समासात् विहितस्य विभक्तिप्रत्ययस्य नाव्ययीभावादतोऽम्त्वपञ्चम्याः (2.4.83) इत्यनेन अम्-आदेशः भवति ।
Vasu English Summary¶
The affix टच् comes optionally after an अव्ययीभाव समास ending in a letter of झय् class (a mute letter).
Vasu English Translation¶
The affix टच् comes optionally after an अव्ययीभाव समास ending in a letter of झय् class (a mute letter). The झय् here means the pratyahara झय् i.e. all the Mute consonants. Thus उपसमिधम्, or उपसमित्, उपदृषदम् or उपदृषत् ॥
Kashika¶
झय इति प्रत्याहारग्रहणम्। झयन्तादव्ययीभावादन्यतरस्यां टच् प्रत्ययो भवति। उपसमिधम्। उपसमित्। उपदृषदम्। उपदृषत्॥
Siddhanta Kaumudi¶
झयन्तादव्ययीभावाट्टज्वा । उपसमिधम् । उपसमित् ॥
Laghu Siddhanta Kaumudi¶
झयन्तादव्ययीभावाट्टज्वा स्यात् । उपसमिधम् । उपसमित् ॥ इत्यव्ययीभावः ॥ २ ॥
Balamanorama¶
झयः - झयः । झया अव्ययीभावे इत्यनुवृत्तं पञ्चम्या विपरिणतं विशेष्यते । तदन्तविधिः । अन्यतरस्यामिति टजिति चानुवर्तते । तदाह — झयन्तादिति ।
Padamanjari¶
झय इति प्रतयाहारग्रहणमिति। झकारयकारयोस्तु ग्रहणं न भवति; तदन्तस्याव्ययीभावस्यासम्भवात्। योगविबागश्चिन्त्यप्रयोजनः ॥
Prakriyasarvasvam¶
झयन्तादव्ययीभावट्टज् वा । प्रतिसमिधं, प्रतिसमित् । अधिमरुतम्, अधिमरुत् ॥