54048: षष्ठ्या व्याश्रये ======================== **Padacheda:** षष्ठ्याः | S | 5 | 1 | व्याश्रये | S | 7 | 1 | Sutrartha --------- **व्याश्रये गम्यमाने षष्ठ्यन्तात् तसि-प्रत्ययः भवति ।** 'व्याश्रय' इत्युक्ते 'सङ्घे / पक्षे समावेशः' (Take the side of / join the league of - इति) । व्याश्रये गम्यमाने षष्ठ्यन्तात् 'तसि' इति प्रत्ययः विधीयते । यथा - 1. 'देवाः अर्जुस्य पक्षे अभवन् (= अर्जुनस्य साहाय्यमकुर्वन् इत्याशयः) इत्यत्र 'अर्जुनस्य' इत्यस्मात् तसि-प्रत्ययं योजयित्वा 'अर्जुनतः' इति शब्दः सिद्ध्यति । प्रक्रिया इयम् - अर्जुनस्य + तसि → अर्जुनस्य + तस् [इकारः उच्चारणार्थः, त्यस्य लोपः] → अर्जुन + ङस् + तस् [अलौकिकविग्रहः] → अर्जुन + तस् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति ङस्-प्रत्ययस्य लोपः] → अर्जुनतः [सकारस्य **ससजुषो रुँः** (8.2.66) इति रुँत्वम् । **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] यथा - देवाः अर्जुनतः अभवन् ।'देवाः अर्जुनस्य पक्षे समाविष्टाः अभवन्' इत्येव अस्य अर्थः । एवमेव - 2. कर्णः दुर्योधनतः अभवन् । 3. कृष्णः पाण्डवतः अभवन् । तस्-प्रत्ययेन प्रयुक्तस्य शब्दस्य प्रयोगे 'पक्ष' इति नैव प्रयुज्यते - इति स्मर्तव्यम् । ज्ञेयाः - 1. 'तसि'प्रत्ययान्तशब्दाः **तद्धितश्चासर्वविभक्तिः** (1.1.38) इत्यनेन अव्ययसंज्ञकाः भवन्ति । 2. एतत् सूत्रम् **समर्थानां प्रथमात् वा** (4.1.82) अस्मिन् अधिकारे उक्तायाम् महाविभाषायां पाठितमस्ति । अतः अनेन सूत्रेण उक्तः 'तसि' प्रत्ययः विकल्पेनैव भवति । इत्युक्ते, पक्षे 'देवाः अर्जुनम् व्याश्रयन्' एतादृशाः प्रयोगाः अपि विधीयन्ते । 3. अत्र सूत्रे 'षष्ठ्या' इति उच्यते, अतः विग्रहवाक्ये 'अस्य पक्षे अभवन्' इत्येव निर्देशः क्रियते । 'व्याश्रय' इति शब्दः विग्रहवाक्ये नैव प्रयुज्यते । 4. 'तसि'-प्रत्यये सकारोत्तरः इकारः उच्चारणार्थः अस्ति, सकारस्य इत्संज्ञानिषेधार्थम् च स्थापितः अस्ति । प्रक्रियायाः प्रारम्भे एव तस्य लोपः भवति । Vasu English Summary -------------------- The affix तसि comes optionally after a word ending in the Genitive 6th-Case when the sense is that of a party-name or function. Vasu English Translation ------------------------ The affix तसि comes optionally after a word ending in the Genitive 6th-Case when the sense is that of a party-name or function. Taking sides with one faction or another is called व्याश्रयः ॥ Thus देवा अर्जुनस्य पक्षेऽभवन् = देवा अर्जुनतोऽभवन् ॥ 'The *Devas* became *Arjunites*'. So also आदित्याः कर्णतोऽभवन्. "The *Adityas* became *Karnaites*". Why do we say "when it denotes a Party-name"? Observe, वृक्षस्य शाखा "the branch of the tree". Kashika ------- नानापक्षसमाश्रयो व्याश्रयः। व्याश्रये गम्यमाने षष्ठ्यन्ताद् वा तसिः प्रत्ययो भवति। देवा अर्जुनतोऽभवन्। आदित्याः कर्णतोऽभवन्। षष्ठी चात्र पक्षापेक्षैव। अर्जुनस्य पक्षे, कर्णस्य पक्ष इत्यर्थः। व्याश्रय इति किम् ? वृक्षस्य शाखा॥ Siddhanta Kaumudi ----------------- षष्ठ्यान्ताद्वा तसिः स्यान्नानापक्षसमाश्रये । देवा अर्जुनतोऽभवन् । आदित्याः कर्णतोऽभवन् । अर्जुनस्य पक्षे इत्यर्थः । व्याश्रये किम् । वृक्षस्य शाखा ॥ Padamanjari ----------- नानापक्षसमाश्रयो व्याश्रय इति। तथा च'हेतुमति च' इत्यत्र भाष्ये प्रयोगः - व्याश्रिताश्च भवन्ति, केचित्कंसभक्ता, केचिद्वासुदेवभक्ता इति। देवा इत्यादि। अर्जुन इन्द्रपुत्रः, कर्णः सूर्यपुत्रः। षष्ठी चात्रेति । पक्षशब्दस्तु तसौ सति न प्रयुज्यतेः गतार्थत्वात्, नानापक्षसमाश्रयण एवास्य विधानात् ॥ Prakriyasarvasvam ----------------- भिन्नपक्षाश्रयणे द्योत्ये षष्ठयास्तसिः । कृष्णः पाण्डवतोऽभूत् । अन्ये कौरवतोऽभूवन् । तेषां पक्षेऽभूदित्यर्थः ॥