54027: देवात्तल्¶
Padacheda: देवात् | S | 5 | 1 |
तल् | S | 1 | 1 |
Sutrartha¶
‘देव’ शब्दात् स्वार्थे ‘तल्’ प्रत्ययः भवति ।
‘देव’ शब्दात् स्वार्थे ‘तल्’ प्रत्ययः भवति । तलन्तः इति लिङ्गानुशासनस्य सूत्रेण तलन्तशब्दाः नित्यस्त्रीलिङ्गाः भवन्ति, अतः तल्-प्रत्ययात् परः टाप्-प्रत्ययः अपि भवति । देवः इत्येव = देव + तल् + टाप् → देवता [अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः । समर्थानां प्रथमाद्वा (4.1.82) अनया महाविभाषया प्रत्ययविधानम् विकल्पेन भवति, अतः ‘देव’ तथा ‘देवता’ द्वयोः अपि शब्दयोः प्रयोगः साधु एव ।
Vasu English Summary¶
The affix तल् comes after देव without change of sense.
Vasu English Translation¶
The affix तल् comes after देव without change of sense. The anuvritti of तादर्थ्य does not apply here and ceases. Thus देवता = देवः ॥ This word is always in the feminine, another example of the rule that a word derived by a svarthika affix does not always follow the gender of its primitive.
Bhashya¶
देवात्तल् (2304) (तलोऽधिकरणम्) (5906 एकदेशिन उपसंख्यानवार्तिकम् ॥ 1 ॥) - तलि स्त्रीलिङ्गवचनम् - (भाष्यम्) तलि स्त्रीलिङ्गं वक्तव्यम्। देवता। किं पुनः कारणं न सिद्ध्यति? देवशब्दोऽयं पुंल्लिङ्गः स्वार्थिकश्चायम्, स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते॥ (5907 सिद्धान्तवार्तिकम्॥ 2 ॥) - उक्तं वा - (भाष्यम्) किमुक्तम्? स्वार्थिका अतिवर्तन्तेऽपि लिङ्गावचनानीति॥
Kashika¶
तादर्थ्य इति निवृत्तम्। देवशब्दात् स्वार्थे तल् प्रत्ययो भवति। देव एव देवता॥
Siddhanta Kaumudi¶
देव एव देवता ॥
Tattvabodhini¶
देवात्तल् - देवतेति ।तलन्तं स्त्रियाम॑ ।
Prakriyasarvasvam¶
अस्मात्स्वार्थे तल् । तलः स्त्रीत्वाद् देवता ॥