54028: अवेः कः¶
Padacheda: अवेः | S | 5 | 1 |
कः | S | 1 | 1 |
Sutrartha¶
‘अवि’ शब्दात् स्वार्थे ‘क’ प्रत्ययः भवति ।
‘अवि’ (रत्नम्, diamond) शब्दात् स्वार्थे ‘क’ प्रत्ययः भवति । अविः इत्येव अविकः । diamond इत्यर्थः । समर्थानां प्रथमाद्वा (4.1.82) अनया महाविभाषया प्रत्ययविधानम् विकल्पेन भवति, अतः ‘अवि’ तथा ‘अविक’ द्वयोः अपि शब्दयोः प्रयोगः साधु एव ।
Vasu English Summary¶
The affix क comes after अवि without change of sense.
Vasu English Translation¶
The affix क comes after अवि without change of sense. Thus अविकः = अविः ॥
Kashika¶
अविशब्दात् स्वार्थे कः प्रत्ययो भवति। अविरेव अविकः॥
Siddhanta Kaumudi¶
अविरेवाविकः ॥
Balamanorama¶
अवेः कः - अवेः कः । अयमपि केवलस्वार्थिकः ।अवयः शैलमेषाऽर्काः॑ इत्यमरः ।
Prakriyasarvasvam¶
अविरेवाविकः ॥