54027: देवात्तल् ================ **Padacheda:** देवात् | S | 5 | 1 | तल् | S | 1 | 1 | Sutrartha --------- **'देव' शब्दात् स्वार्थे 'तल्' प्रत्ययः भवति ।** 'देव' शब्दात् स्वार्थे 'तल्' प्रत्ययः भवति । **तलन्तः** इति लिङ्गानुशासनस्य सूत्रेण तलन्तशब्दाः नित्यस्त्रीलिङ्गाः भवन्ति, अतः तल्-प्रत्ययात् परः टाप्-प्रत्ययः अपि भवति । देवः इत्येव = देव + तल् + टाप् → देवता [**अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः । **समर्थानां प्रथमाद्वा** (4.1.82) अनया महाविभाषया प्रत्ययविधानम् विकल्पेन भवति, अतः 'देव' तथा 'देवता' द्वयोः अपि शब्दयोः प्रयोगः साधु एव । Vasu English Summary -------------------- The affix तल् comes after देव without change of sense. Vasu English Translation ------------------------ The affix तल् comes after देव without change of sense. The *anuvritti* of तादर्थ्य does not apply here and ceases. Thus देवता = देवः ॥ This word is always in the feminine, another example of the rule that a word derived by a *svarthika* affix does not always follow the gender of its primitive. Bhashya ------- देवात्तल् (2304) (तलोऽधिकरणम्) (5906 एकदेशिन उपसंख्यानवार्तिकम् ॥ 1 ॥) - तलि स्त्रीलिङ्गवचनम् - (भाष्यम्) तलि स्त्रीलिङ्गं वक्तव्यम्। देवता। किं पुनः कारणं न सिद्ध्यति? देवशब्दोऽयं पुंल्लिङ्गः स्वार्थिकश्चायम्, स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते॥ (5907 सिद्धान्तवार्तिकम्॥ 2 ॥) - उक्तं वा - (भाष्यम्) किमुक्तम्? स्वार्थिका अतिवर्तन्तेऽपि लिङ्गावचनानीति॥ Kashika ------- तादर्थ्य इति निवृत्तम्। देवशब्दात् स्वार्थे तल् प्रत्ययो भवति। देव एव देवता॥ Siddhanta Kaumudi ----------------- देव एव देवता ॥ Tattvabodhini ------------- **देवात्तल्** - देवतेति ।तलन्तं स्त्रियाम॑ । Prakriyasarvasvam ----------------- अस्मात्स्वार्थे तल् । तलः स्त्रीत्वाद् देवता ॥