54026: अतिथेर्ञ्यः¶
Padacheda: अतिथेः | S | 5 | 1 |
ञ्यः | S | 1 | 1 |
Sutrartha¶
चतुर्थीसमर्थात् ‘अतिथि’शब्दात् प्रथमार्थे ञ्य प्रत्ययः भवति ।
‘अतिथये इदम्’ अस्मिन् अर्थे चतुर्थीसमर्थात् ‘अतिथि’ शब्दात् ञ्य-प्रत्ययः भवति । अतिथ्यर्थम् / अतिथये इदम् = अतिथि + ञ्य → आतिथि + य [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → आतिथ् + य [यस्येति च (6.4.148) इति इकारलोपः] → आतिथ्य । अतिथे इदमातिथ्यम् । A warm welcome extended to a guest is called आतिथ्य । स्मर्तव्यम् - यद्यपि इदम् सूत्रम् स्वार्थिकप्रकरणे विद्यते, तथाप्यत्र प्रत्ययः स्वार्थे न विधीयते, अपितु चतुर्थीसमर्थात् ‘इदम्’ अस्मिन् अर्थे विधीयते ।
Vasu English Summary¶
The affix ञ्य comes after अतिथि in the Dative -4th Case in construction, in the sense of ‘for the purpose of that’.
Vasu English Translation¶
The affix ञ्य comes after अतिथि in the Dative -4th Case in construction, in the sense of ‘for the purpose of that’. The word तादर्थ्य is understood here also. Thus अतिथये इदम् = आतिथ्यम् ॥
Kashika¶
तादर्थ्य इत्येव। अतिथिशब्दात् चतुर्थीसमर्थात् तादर्थ्येऽभिधेये ञ्यः प्रत्ययो भवति। अतिथय इदम् आतिथ्यम्॥
Siddhanta Kaumudi¶
तादर्थ्ये इत्येव । अतिथय इदमातिथ्यम् ॥
Balamanorama¶
अतिथेर्ञ्यः - अतिथेर्ञ्यः । तादर्थ्ये इत्येवेति । अतिथये इदमित्यर्थे अतिथिशब्दाच्चतुथ्र्यन्ताण्ण्यः लिङ्गातिक्रमात्स्त्रीत्वम् ।
Prakriyasarvasvam¶
अस्मात् तादर्थ्ये ञ्यः । आतिथ्यम् ॥
Sutra Prayogas¶
रातिथ्य (भट्टिकाव्यम्): अतिथेर्ण्यः इति ण्यः।
आतिथ्यमेभ्यः (भट्टिकाव्यम्): अतिथेः एभ्यो भरतादिजनेभ्यः इति संप्रदाने चतुर्थी।