54018: द्वित्रिचतुर्भ्यः सुच्

Padacheda: द्वि-त्रि-चतुर्भ्यः | S | 5 | 3 |

सुच् | S | 1 | 1 |

Sutrartha

क्रियायाः पौनःपुन्यस्य गणनार्थम् ‘द्वि’, ‘त्रि’ तथा ‘चतुर्’ एतेभ्यः शब्देभ्यः ‘सुच्’ प्रत्ययः भवति ।

‘अभ्यावृत्तिः’ इत्युक्ते पौनःपुन्यम् (repetition) । यत्र काचन क्रिया पुनः पुनः भवति, तत्र तस्याः क्रियायाः आवर्तनस्य गणनार्थम् सङ्ख्यावाचकशब्दात् संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् (5.4.17) इत्यनेन औत्सर्गिकरूपेण ‘कृत्वसुच्’ इति प्रत्ययः स्वार्थे विधीयते । परन्तु ‘द्वि’, ‘त्रि’, तथा ‘चतुर्’ एतेभ्यः शब्देभ्यः ‘कृत्वसुच्’ प्रत्ययस्य अपवादस्वरूपेण ‘सुच्’ इति प्रत्ययः भवति । यथा - 1. द्विवारं भुङ्क्ते इत्येव = द्वि + सुच् [वर्तमानसूत्रेण सुच्-प्रत्ययः] → द्वि + स् [चकारस्य हलन्त्यम् (1.3.3) इति इत्संज्ञा । तस्य लोपः (1.3.9) इति लोपः । उकारः उच्चारणार्थः, तस्यापि लोपः भवति । ] → द्विः [ससजुषो रुँः (8.2.66) इति रुत्वम् । खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] यथा - द्विः भुङ्क्ते । 2. त्रिवारं भुङ्क्ते इत्येव = त्रि + सुच् [वर्तमानसूत्रेण सुच्-प्रत्ययः] → त्रि + स् [चकारस्य हलन्त्यम् (1.3.3) इति इत्संज्ञा । तस्य लोपः (1.3.9) इति लोपः] → त्रिः [ससजुषो रुँः (8.2.66) इति रुत्वम् । खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] यथा - त्रिः भुङ्क्ते । 3. चतुर्वारं भुङ्क्ते इत्येव = चतुर् + सुच् [वर्तमानसूत्रेण सुच्-प्रत्ययः] → चतुर् + स् [चकारस्य हलन्त्यम् (1.3.3) इति इत्संज्ञा । तस्य लोपः (1.3.9) इति लोपः] → चतुर् [रात्सस्य (8.2.24) इति सकारलोपः] → चतुः [खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] यथा - चतुः भुङ्क्ते । स्मर्तव्यम् - 1. अनेन सूत्रेण सिद्धाः ‘द्विः’, ‘त्रिः’, ‘चतुः’ एते शब्दाः तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अव्ययसंज्ञकाः भवन्ति । 2. ‘सुच्’ प्रत्यये चकारस्य इत्संज्ञा स्वरनिर्देशार्थमस्ति । तद्धितस्य (6.1.164) इत्यनेन चित्-प्रत्यये परे तद्धितान्तस्य अन्तिमः स्वरः उदात्तः भवति । यथा, ‘द्विः’ इत्यत्र वकारोत्तरः इकारः अनेन उदात्तत्वं प्राप्नोति । 3. यद्यपि इदम् सूत्रम् समर्थानाम् प्रथमात् वा (4.1.82) इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथाप्यत्र विकल्पः न विधीयते । भाष्ये अस्मिन् सन्दर्भे उच्यते - ‘आमादयः प्राङ्मयटः नित्याः’ । इत्युक्ते, किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे (5.4.11) इत्यस्मात् आरभ्य एकस्य सकृच्च (5.4.19) इतिपर्यन्तम् विहिताः सर्वे प्रत्ययाः नित्याः एव भवन्ति । अतः वर्तमानसूत्रस्य सन्दर्भे अपि सुच्-प्रत्ययान्तरूपाणि एव प्रयोक्तव्यानि ।इत्युक्ते, ‘द्वौ वारौ भुङ्क्ते’ इति विग्रहवाक्यम् प्रयोक्तव्यम्, नो चेत् ‘द्विः भुङ्क्ते’ इति तद्धितान्तशब्दः प्रयोक्तव्यः । परन्तु ‘द्वौ वारौ भुङ्क्ते’ इति निर्देशयितुम् केवलम् ‘द्वौ भुङ्क्ते’ इति प्रयोगः न साधु ।

Vasu English Summary

The affix सुच् (स्) is added to the numerals 1. द्वि 2. त्रि and 3. चतुर् in the sense of counting the repetition of an action.

Vasu English Translation

The affix सुच् (स्) is added to the numerals 1. द्वि 2. त्रि and 3. चतुर् in the sense of counting the repetition of an action. This debars कृत्वसुच् ॥ Thus द्वि-द्विस्, त्रि-त्रिस्, चतुर्-चतुर् in द्विर्भुङ्क्ते, त्रिर्भुङ्क्ते, चतुर्भुङ्क्ते ॥ The स् in the last example is elided by (8.2.24): but चतुर् meaning “four”, and चतुर् meaning “four-times”, are differently accented : the च् of सुच् indicating that the accent udatta falls on the last syllable. Thus चतुर् (चतेरुरन् Un V. 58, being formed with the affix ‘uran’ added to चत्), and चतुर् (with सुच्).

Kashika

द्वि त्रि चतुर् इत्येतेभ्यः संख्याशब्देभ्यः क्रियाभ्यावृत्तिगणने वर्तमानेभ्यः सुच् प्रत्ययो भवति। कृत्वसुचोऽपवादः। द्विर्भुङ्क्ते। त्रिर्भुङ्क्ते। चतुर्भुक्तम्। चकारः स्वरार्थः॥

Siddhanta Kaumudi

कृत्वसुचोऽपवादः । द्विर्भुङ्क्ते । त्रिः । रात्सस्य (SK280) । चतुः ॥

Balamanorama

द्वित्रिचतुर्भ्यः सुच् - द्वित्रिचतुभ्र्यः । क्रियाभ्यावृत्तिगणने इत्येव । सुचि चकार इत्, उकार उच्चारणार्थः । पूर्ववदव्ययत्वम् । त्रिरिति । भुङ्क्ते॑ इत्यनुषज्यते । रादिति । चतुर्शब्दात्सुचि चतुर्स् इति स्थितेरात्सस्ये॑ति सकारस्य लोपे चतुरिति रूपमित्यर्थः । अत्र ‘भुङ्क्ते’ इत्यनुषज्यते ।

Padamanjari

सकृदिति। रात्सस्यऽ इति सुचो लोपः। सुचश्चकारः स्वरार्त इति।’चितः सप्रकृतेर्बह्वकजर्थम्’ इति वचनाच्चतुरित्यस्यान्तोदातो भवति; अन्यथाठ्चतेरुरन्ऽ इत्युरन्प्रत्ययान्तत्वादाद्यौदातः स्यात् ॥

Nyaas

चतुर्भुक्तम् इति। रात्? सस्य (8.2.24) इति सकारलोपः। चकारः स्वरार्थः इति। प्रकृतेरन्तोदात्तत्वं यता स्यादिति। प्रत्ययस्य तु चकारः स्वरार्थं नोपपद्यते; तस्यानच्कत्वात्। चतुःशब्दमेव प्रकृतं प्रति चकारस्य स्वरार्थत्वम्, नोत्तरयोः; तयोरुदात्तत्वात्। चतुःशब्दस्तु चतेरुरन् (द।उ।8।78) इत्युरन्प्रत्ययान्तत्वान्नित्स्वरेणाद्युदात्तः॥

Prakriyasarvasvam

एभ्य उक्तेऽर्थे सुच् स्यात् । द्विः । त्रिः । चतुर स् । संयोगान्तलोपः । रस्य विसर्गः । चतुः ॥

Sutra Prayogas

  • द्विरिव (कुमारसम्भवम्): द्वित्रिचतुर्भ्यः सुच् इति सुच्प्रत्ययः।

  • त्रिः (कुमारसम्भवम्): द्वित्रिचतुर्भ्यः सुच् इति सुच्।

  • त्रिः (किरातार्जुनीयम्): द्वित्रिचतुर्भ्यः सुच् इति सुच्प्रत्ययः।

  • त्रिःसप्तकृत्वो (शिशुपालवधम्): द्वित्रिचतुर्भ्यः सुच् इति सुच्प्रत्ययः।