54018: द्वित्रिचतुर्भ्यः सुच् ============================= **Padacheda:** द्वि-त्रि-चतुर्भ्यः | S | 5 | 3 | सुच् | S | 1 | 1 | Sutrartha --------- **क्रियायाः पौनःपुन्यस्य गणनार्थम् 'द्वि', 'त्रि' तथा 'चतुर्' एतेभ्यः शब्देभ्यः 'सुच्' प्रत्ययः भवति ।** 'अभ्यावृत्तिः' इत्युक्ते पौनःपुन्यम् (repetition) । यत्र काचन क्रिया पुनः पुनः भवति, तत्र तस्याः क्रियायाः आवर्तनस्य गणनार्थम् सङ्ख्यावाचकशब्दात् **संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्** (5.4.17) इत्यनेन औत्सर्गिकरूपेण 'कृत्वसुच्' इति प्रत्ययः स्वार्थे विधीयते । परन्तु 'द्वि', 'त्रि', तथा 'चतुर्' एतेभ्यः शब्देभ्यः 'कृत्वसुच्' प्रत्ययस्य अपवादस्वरूपेण 'सुच्' इति प्रत्ययः भवति । यथा - 1. द्विवारं भुङ्क्ते इत्येव = द्वि + सुच् [वर्तमानसूत्रेण सुच्-प्रत्ययः] → द्वि + स् [चकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः । उकारः उच्चारणार्थः, तस्यापि लोपः भवति । ] → द्विः [**ससजुषो रुँः** (8.2.66) इति रुत्वम् । **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] यथा - द्विः भुङ्क्ते । 2. त्रिवारं भुङ्क्ते इत्येव = त्रि + सुच् [वर्तमानसूत्रेण सुच्-प्रत्ययः] → त्रि + स् [चकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः] → त्रिः [**ससजुषो रुँः** (8.2.66) इति रुत्वम् । **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] यथा - त्रिः भुङ्क्ते । 3. चतुर्वारं भुङ्क्ते इत्येव = चतुर् + सुच् [वर्तमानसूत्रेण सुच्-प्रत्ययः] → चतुर् + स् [चकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः] → चतुर् [**रात्सस्य** (8.2.24) इति सकारलोपः] → चतुः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] यथा - चतुः भुङ्क्ते । स्मर्तव्यम् - 1. अनेन सूत्रेण सिद्धाः 'द्विः', 'त्रिः', 'चतुः' एते शब्दाः **तद्धितश्चासर्वविभक्तिः** (1.1.38) इत्यनेन अव्ययसंज्ञकाः भवन्ति । 2. 'सुच्' प्रत्यये चकारस्य इत्संज्ञा स्वरनिर्देशार्थमस्ति । **तद्धितस्य** (6.1.164) इत्यनेन चित्-प्रत्यये परे तद्धितान्तस्य अन्तिमः स्वरः उदात्तः भवति । यथा, 'द्विः' इत्यत्र वकारोत्तरः इकारः अनेन उदात्तत्वं प्राप्नोति । 3. यद्यपि इदम् सूत्रम् **समर्थानाम् प्रथमात् वा** (4.1.82) इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथाप्यत्र विकल्पः न विधीयते । भाष्ये अस्मिन् सन्दर्भे उच्यते - 'आमादयः प्राङ्मयटः नित्याः' । इत्युक्ते, **किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे** (5.4.11) इत्यस्मात् आरभ्य **एकस्य सकृच्च** (5.4.19) इतिपर्यन्तम् विहिताः सर्वे प्रत्ययाः नित्याः एव भवन्ति । अतः वर्तमानसूत्रस्य सन्दर्भे अपि सुच्-प्रत्ययान्तरूपाणि एव प्रयोक्तव्यानि ।इत्युक्ते, 'द्वौ वारौ भुङ्क्ते' इति विग्रहवाक्यम् प्रयोक्तव्यम्, नो चेत् 'द्विः भुङ्क्ते' इति तद्धितान्तशब्दः प्रयोक्तव्यः । परन्तु 'द्वौ वारौ भुङ्क्ते' इति निर्देशयितुम् केवलम् 'द्वौ भुङ्क्ते' इति प्रयोगः न साधु । Vasu English Summary -------------------- The affix सुच् (स्) is added to the numerals 1. द्वि 2. त्रि and 3. चतुर् in the sense of counting the repetition of an action. Vasu English Translation ------------------------ The affix सुच् (स्) is added to the numerals 1. द्वि 2. त्रि and 3. चतुर् in the sense of counting the repetition of an action. This debars कृत्वसुच् ॥ Thus द्वि-द्विस्, त्रि-त्रिस्, चतुर्-चतुर् in द्विर्भुङ्क्ते, त्रिर्भुङ्क्ते, चतुर्भुङ्क्ते ॥ The स् in the last example is elided by (8.2.24): but चतुर् meaning "four", and चतुर् meaning "four-times", are differently accented : the च् of सुच् indicating that the accent *udatta* falls on the last syllable. Thus चतुर् (चतेरुरन् *Un* V. 58, being formed with the affix '*uran*' added to चत्), and चतुर् (with सुच्). Kashika ------- द्वि त्रि चतुर् इत्येतेभ्यः संख्याशब्देभ्यः क्रियाभ्यावृत्तिगणने वर्तमानेभ्यः सुच् प्रत्ययो भवति। कृत्वसुचोऽपवादः। द्विर्भुङ्क्ते। त्रिर्भुङ्क्ते। चतुर्भुक्तम्। चकारः स्वरार्थः॥ Siddhanta Kaumudi ----------------- कृत्वसुचोऽपवादः । द्विर्भुङ्क्ते । त्रिः । रात्सस्य (SK280) । चतुः ॥ Balamanorama ------------ **द्वित्रिचतुर्भ्यः सुच्** - द्वित्रिचतुभ्र्यः । क्रियाभ्यावृत्तिगणने इत्येव । सुचि चकार इत्, उकार उच्चारणार्थः । पूर्ववदव्ययत्वम् । त्रिरिति । भुङ्क्ते॑ इत्यनुषज्यते । रादिति । चतुर्शब्दात्सुचि चतुर्स् इति स्थितेरात्सस्ये॑ति सकारस्य लोपे चतुरिति रूपमित्यर्थः । अत्र 'भुङ्क्ते' इत्यनुषज्यते । Padamanjari ----------- सकृदिति। रात्सस्यऽ इति सुचो लोपः। सुचश्चकारः स्वरार्त इति।'चितः सप्रकृतेर्बह्वकजर्थम्' इति वचनाच्चतुरित्यस्यान्तोदातो भवति; अन्यथाठ्चतेरुरन्ऽ इत्युरन्प्रत्ययान्तत्वादाद्यौदातः स्यात् ॥ Nyaas ----- `चतुर्भुक्तम्` इति। `रात्? सस्य` (8.2.24) इति सकारलोपः। `चकारः स्वरार्थः` इति। प्रकृतेरन्तोदात्तत्वं यता स्यादिति। प्रत्ययस्य तु चकारः स्वरार्थं नोपपद्यते; तस्यानच्कत्वात्। चतुःशब्दमेव प्रकृतं प्रति चकारस्य स्वरार्थत्वम्, नोत्तरयोः; तयोरुदात्तत्वात्। चतुःशब्दस्तु `चतेरुरन्` (द।उ।8।78) इत्युरन्प्रत्ययान्तत्वान्नित्स्वरेणाद्युदात्तः॥ Prakriyasarvasvam ----------------- एभ्य उक्तेऽर्थे सुच् स्यात् । द्विः । त्रिः । चतुर स् । संयोगान्तलोपः । रस्य विसर्गः । चतुः ॥ Sutra Prayogas -------------- * **द्विरिव** (कुमारसम्भवम्): `द्वित्रिचतुर्भ्यः सुच्` इति सुच्प्रत्ययः। * **त्रिः** (कुमारसम्भवम्): `द्वित्रिचतुर्भ्यः सुच्` इति सुच्। * **त्रिः** (किरातार्जुनीयम्): `द्वित्रिचतुर्भ्यः सुच्` इति सुच्प्रत्ययः। * **त्रिःसप्तकृत्वो** (शिशुपालवधम्): `द्वित्रिचतुर्भ्यः सुच्` इति सुच्प्रत्ययः।