54017: संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्

Padacheda: संख्यायाः | S | 5 | 1 |

क्रिया-अभ्यावृत्तिगणने | S | 7 | 1 |

कृत्वसुच् | S | 1 | 1 |

Sutrartha

क्रियायाः पौनःपुन्यस्य गणनार्थम् सङ्ख्यावाचकशब्दात् ‘कृत्वसुच्’ प्रत्ययः भवति ।

‘अभ्यावृत्तिः’ इत्युक्ते पौनःपुन्यम् (repetition) । यत्र काचन क्रिया पुनः पुनः भवति, तत्र तस्याः क्रियायाः आवर्तनस्य गणनार्थम् सङ्ख्यावाचकशब्दात् ‘कृत्वसुच्’ इति प्रत्ययः स्वार्थे विधीयते । ‘कृत्वसुच्’ प्रत्यये चकारः इत्संज्ञकः अस्ति, तस्य लोपः भवति । सकारोत्तरः उकारः उच्चारणार्थः अस्ति । ‘कृत्वस्’ इति अवशिष्यते, तस्य प्रक्रियायाम् प्रयोगः भवति । सकारस्य ससजुषो रुँः (8.2.66) इति रुँत्वे खरवसानयोर्विसर्जनीयः (8.3.15) इत्यनेन विसर्गं कृत्वा ‘कृत्वः’ इति प्रयोगे दृश्यते । यथा - 1. पञ्चवारान् = पञ्चन् + कृत्वसुच् → पञ्चकृत्वः । यदि कश्चन देवदत्तः भोजनक्रियाम् पञ्चवारम् करोति (eats five times), तर्हि तस्य निर्देशः ‘देवदत्तः पञ्चकृत्वः भुङ्क्ते’ इति क्रियते । 2. षड्वारान् = षष् + कृत्वसुच् = षड् + कृत्व [झलां जशोऽन्ते (8.2.39) इति जश्त्वम्] → षट् + कृत्व [खरि च (8.4.55) इति वैकल्पिकं चर्त्वम्] → षट्कृत्वः यथा - खगः षट्कृत्वः डयते । एवमेव - सप्तकृत्वः, दशकृत्वः, विंशतिकृत्वः, त्रिंशत्कृत्वः, पञ्चाशत्कृत्वः, शतकृत्वः - आदयः शब्दाः सिद्ध्यन्ति । अस्य सूत्रस्य विषये केचन बिन्दवः ज्ञेयाः - 1. अस्मिन् सूत्रे ‘सङ्ख्यायाः’ इति निर्देशः कृतः अस्ति । अतः बहुगणवतुडति सङ्ख्या (1.1.23) इत्यत्र निर्दिष्टानां सङ्ख्यावाचकशब्दानां विषये अपि अस्य सूत्रस्य प्रसक्तिः अस्ति । यथा - बहुवारं भुङ्क्ते = बहुकृत्वः भुङ्क्ते । एवमेव - गणकृत्वः भुङ्क्ते, यावत्कृत्वः भुङ्क्ते, तावत्कृत्वः भुङ्क्ते, एतावत्कृत्वः भुङ्क्ते, कतिकृत्वः भुङ्क्ते - एते शब्दाः अपि सिद्ध्यन्ति । 2. ‘अध्यर्ध’ इति अपि कश्चन सङ्ख्यावाची शब्दः बहुगणवतुडति सङ्ख्या (1.1.23) इत्यत्र पाठितः अस्ति । परन्तु अस्मात् शब्दात् कृत्वसुच् प्रत्ययः न विधीयते । अस्मिन् विषये बहुगणवतुडति सङ्ख्या (1.1.23) इत्यत्र विस्तारेण उक्तमस्ति । 3. यदि क्रियायाः पौनःपुन्यम् दर्शयितुम् सङ्ख्यावाचकशब्दस्य प्रयोगः न क्रियते, तर्हि तत्र ‘कृत्वसुच्’ प्रत्ययः न भवति । यथा - ‘अनेकवारम् भुङ्क्ते, वारं वारं भुङ्क्ते, भूरिवारान् भुङ्क्ते - एतेषु उदाहरणेषु कृत्वसुच् प्रत्ययः न भवति । 4. वस्तुतः ‘पौनःपुन्यम्’ (repetition) केवलम् क्रियायाः विषये एव सम्भवति । गुणस्य द्रव्यस्य विषये वा पौनःपुन्यम् नैव सम्भवति । (Only an action can be repeated. Even when we say that a certain quality is repeated, it is actually the ‘existence’ of quality being repeated, so the repetition is actually associated with action only.) । अतः अस्मिन् सूत्रे ‘अभ्यावृत्ति’ इत्येव उच्यते चेदपि अलम्, ‘क्रिया’ इत्यस्य निर्देशः नैव आवश्यकः । अयम् निर्देशः अग्रिमसूत्रार्थम् क्रियते । एकस्य सकृच्च (5.4.19) इत्यस्मिन् सूत्रे ‘अभ्यावृत्ति’ इति न अनुवर्तते, परन्तु अनेन सूत्रेण निर्दिष्टम् कार्यमपि क्रियायाः विषये एव भवति । तदर्थम् तत्र ‘क्रिया’ ग्रहणमावश्यकम् । वर्तमानसूत्रे तु ‘क्रिया’ शब्दस्य न किञ्चन प्रयोजनम् । 5. अस्मिन् सूत्रे ‘अभ्यावृत्तिः’ इति शब्दः प्रयुक्तः अस्ति । यत्र केवलम् क्रिया विद्यते, अभ्यावृत्तिः (repetition) न विद्यते, तत्र यद्यपि क्रिया बहुवारम् क्रियते, तत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा - ‘पञ्च जनाः पञ्च भिन्नान् पदार्थान् पचन्ते’ - इत्यत्र पचनक्रिया वस्तुतः पञ्चवारम् भवति । परन्तु अत्र ‘पौनःपुन्यम्’ नास्ति (Five different people are cooking five different things. There is no ‘repetition’ of a particular cooking task), अतः अत्र वर्तमानसूत्रस्य प्रयोगः न भवति । 6. यद्यपि सङ्ख्यावाची शब्दः वाक्ये भिन्नरूपेण प्रयुज्यते, तथापि यदि तेन क्रियायाः अभ्यावृत्तिः निर्दिश्यते, तर्हि वर्तमानसूत्रेण प्रत्ययविधानम् भवितुमर्हत्येव । यथा - ‘पञ्च वारान् भुङ्क्ते’ इत्यत्र वस्तुतः ‘वारान्’ इत्यनेन शब्देन अभ्यावृत्तिः दर्श्यते, न हि ‘पञ्च’ शब्देन । तथापि ‘पञ्च’ शब्दः ‘वारान्’ इत्यस्यैव विशेषणरूपेण प्रयुक्तः अस्ति, अतः अस्य अपि सम्बन्धः अभ्यावृत्त्या सह भवति । इत्युक्ते, अत्रापि वर्तमानसूत्रस्य प्रयोगं कृत्वा ‘पञ्चकृत्वः भुङ्क्ते’ इति प्रयोगः भवति । परन्तु ‘दश जनाः भूरीन् वारान् भुङ्क्ते’ इत्यत्र ‘दश’ शब्दस्य सम्बन्धः ‘वारान्’ इत्यनेन सह नास्ति, अतः अत्र ‘दश’ शब्दात् कृत्वसुच् प्रत्ययः न भवति । 7. कृत्वसुच्-प्रत्ययान्तशब्दाः तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अव्ययसंज्ञकाः भवन्ति । अतः सर्वेषु लिङ्गेषु वचनेषु एतेषां रूपाणि समानानि एव भवन्ति । यथा - ‘देवदत्तः पञ्चकृत्वः भुङ्क्ते । सीता पञ्चकृत्वः भुङ्क्ते । बालाः पञ्चकृत्वः भुञ्जते । वयम् पञ्चकृत्वः भुञ्ज्महे । 8. यद्यपि इदम् सूत्रम् समर्थानाम् प्रथमात् वा (4.1.82) इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथाप्यत्र विकल्पः न विधीयते । भाष्ये अस्मिन् सन्दर्भे उच्यते - ‘आमादयः प्राङ्मयटः नित्याः’ । इत्युक्ते, किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे (5.4.11) इत्यस्मात् आरभ्य एकस्य सकृच्च (5.4.19) इतिपर्यन्तम् विहिताः सर्वे प्रत्ययाः नित्याः एव भवन्ति । अतः वर्तमानसूत्रस्य सन्दर्भे अपि पौनःपुन्यम् दर्शयितुम् कृत्वसुच्-प्रत्ययः नित्यमेव प्रयोक्तव्यः । इत्युक्ते, ‘पञ्च वारान् भुङ्क्ते’ इति विग्रहवाक्यम् प्रयोक्तव्यम्, नो चेत् ‘पञ्चकृत्वः भुङ्क्ते’ इति तद्धितान्तशब्दः प्रयोक्तव्यः । परन्तु ‘पञ्च वारान् भुङ्क्ते’ इति निर्देशयितुम् केवलम् ‘पञ्च भुङ्क्ते’ इति प्रयोगः न साधु । 9. द्वि, त्रि, चतुर् - एतेभ्यः शब्देभ्यः कृत्वसुच्-प्रत्ययस्य अपवादरूपेण द्वित्रिचतुर्भ्यः सुच् (5.4.18) इत्यनेन सुच्-प्रत्ययः भवति । 10. ‘एक’ इत्यस्य विषये पौनःपुन्यम् नैव सम्भवति (An action that is done once cannot be called a ‘repetition’) अतः अस्मात् शब्दात् ‘कृत्वसुच्’ प्रत्ययः नैव भवितुमर्हति । 11. ‘कृत्वसुच्’ प्रत्यये चकारस्य इत्संज्ञा स्वरनिर्देशार्थमस्ति । तद्धितस्य (6.1.164) इत्यनेन चित्-प्रत्यये परे तद्धितान्तस्य अन्तिमः स्वरः उदात्तः भवति । यथा, ‘पञ्चकृत्वः’ इत्यत्र वकारोत्तः अकारः अनेन उदात्तत्वं प्राप्नोति ।

Vasu English Summary

The affix कृत्वसुच् is added to a numeral when the repetition of such an action is to be counted.

Vasu English Translation

The affix कृत्वसुच् is added to a numeral when the repetition of such an action is to be counted. This is also a svartha affix. The word अभ्यावृत्तिः means “again and again or repetition”. The counting of actions belonging to the same class and having the same agent, which occur again and again is called क्रियाभ्यावृत्तिगणनम् ॥ Thus पंचवारान् भुङ्क्ते = पंचकृत्वोभुक्तं “he eats five times”. So also सप्तकृत्वः &c.

Why do we say “after a Numeral”? Observe भूरीन् वारान् भुंक्ते “he eats many times”.

Objection:- Why do we say “action” when we know that an ‘action’ alone can be repeated, and not a substance or an attribute? Reply: The word क्रिया is employed in this sutra for the sake of the next sutras, into which its anuvritti flows. Thus in sutra (5.4.19), एकस्य सकृच्च when the affix does not apply to count repetition, because it is impossible for a unit to express repetition; but merely to count the “action” only.

Why do we use the word “repetition”? The affix will not apply when merely “actions” are counted. Thus पंचपाकाः “five cookings”, दशपाकाः &c.

Why do we use the word “counting”, when we know that a Numeral is nothing but counting ? Had the sutra been merely संख्यायाः क्रियाभ्यावृत्तौ कृत्वसुच्, there would arise this anomaly. The numerals upto ten denote only the thing numbered (संख्येय), but the numerals above those denote both the counting (संख्यान) and the thing counted (संख्येय) ॥ If गणन were not used, the affix would come only after the numeral denoting sankhyeya and not sankhyana. Thus it will apply to शतवारान् भुङ्क्ते = शतकृत्वः, but not here शतं वाराणां भुङ्क्ते; because here the word शत does not denote repetition, but merely a counting. By using the word गणन it applies to both.

Kashika

संख्याशब्देभ्यः क्रियाभ्यावृत्तिगणने वर्तमानेभ्यः स्वार्थे कृत्वसुच् प्रत्ययो भवति। पौनःपुन्यम् अभ्यावृत्तिः। एककर्तृकाणां तुल्यजातीयानां क्रियाणां जन्मसंख्यानं क्रियाभ्यावृत्तिगणनम्, तत्र प्रत्ययः। पञ्च वारान् भुङ्क्ते पञ्चकृत्वः। सप्तकृत्वः। संख्याया इति किम् ? भूरीन् वारान् भुङ्क्ते। क्रियाग्रहणं किमर्थम्, यावताभ्यावृत्तिः क्रियाया एव संभवति, न द्रव्यगुणयोः? उत्तरार्थं क्रियाग्रहणम्। एकस्य सकृच्च (५.४.१९) इत्यत्र क्रियैव गण्यते, नाभ्यावृत्तिः, असंभवात्। अभ्यावृत्तिग्रहणं किम् ? क्रियामात्रगणने मा भूत्। पञ्च पाकाः। दश पाकाः। गणनग्रहणं किमर्थम्, यावता गणनात्मिकैव संख्या? अक्रियमाणे गणनग्रहणे क्रियाभ्यावृत्तौ वर्तमानेभ्यः संख्येयवचनेभ्य एव प्रत्ययः स्यात् — शतं वारान् भुङ्क्ते शतकृत्व इति। इह न स्यात् — शतं वाराणां भुङ्क्त इति। न ह्यत्राभ्यावृत्तौ शतशब्दः, संख्यानमात्रवृत्तित्वात्। गणनग्रहणात् तु सर्वत्र सिद्धं भवति॥

Siddhanta Kaumudi

अभ्यावृत्तिर्जन्म । क्रियाजन्मगणनवृत्तेः संख्याशब्दात्स्वार्थे कृत्वसुच् स्यात् । पञ्चकृत्वो भुङ्क्ते । संख्यायाः किम् । भूरिवारान्भुङ्क्ते ॥

Balamanorama

संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच् - संङ्ख्यायाः । अभ्यावृत्तिशब्देन यदि द्वितीयादिप्रवृत्तिर्गृह्रेत, तदा चतुर्वारं पाकप्रवृत्तौ त्रिः पचतीति स्यादित्यत आह — अभ्यावृत्तिर्जन्मेति । उपसर्गवशात् ‘वृतु वर्तने’ इति धातोरुत्पत्तौ वृत्तिरिति भावः । कुत्वसुचि चकार इत् । उकार उच्चारणार्थः ।तद्धितश्चाऽसर्वविभक्ति॑रित्यत्र तसिलादिषु परिगणनात्कृत्वोऽर्थानामव्ययत्वम् । पञ्चकृत् वो भुङ्क्त इति । पञ्चत्त्वसङ्ख्याकोत्पत्तिविशिष्टा भोजनक्रियेत्यर्थः । सङ्ख्यायाः किमिति । गणने वृत्तिः सङ्ख्याशब्दानामेवेति प्रश्नः । भूरिवारान्भुङ्क्ते इति । भूरिशब्दो बहुशब्दपर्यायः । वारशब्दस्तु समभिव्याह्मतक्रियापर्याप्ते काले वर्तते ।कालाध्वनोरत्यन्तसंयोगे॑ इति द्वितीया । बहुकालेषु कात्स्न्येन व्याप्ता भोजनक्रियेत्यर्थः । भोजनबहुत्वं त्वर्थाद्गम्यते । तथा च वारशब्दोऽयं न गणनवाची । भूरिशब्दोऽपि न सङ्ख्याशब्देन गृह्रते,बहुगणवतुडति सङ्ख्ये॑त्यत्र बहुग्रहणेन तत्पर्यायस्य असङ्ख्यात्वबोधनात्, अतोऽत्र न कृत्वसुच् ।

Tattvabodhini

संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच् - भूरिवारानिति । भूरिशब्दस्य लौकिकसङ्ख्यावाचित्वेऽपि नेह ग्रहणम्,बहुगणे॑ति सूत्रे बहुग्रहणमस्य नियमार्थत्वात् ।अनियतसङ्ख्यावाचिनां चेद्भवति बहोरेवे॑ति नियमशरीरमिति मनोरमा ।बहुगणयोरेवे॑ति नियमशरीरिमित्यन्ये । वारशब्दस्य क्रियोत्पत्त्याधारकालवाचित्वात्कालाध्वनो॑रिति द्वितीयेति हरदत्तः । ननु वारशब्दस्य कालवाचित्वे भूरिशब्दोऽपि तत्समानाधिकरणात्वात्काल एव वर्तत इति कथमत्र प्रसङ्ग इति चेत् । अत्राहुः — -कालवाचित्वेऽपि क्रियाभ्यावृत्तेरपि गम्यमानत्वात्प्रसङ्गैति । अभ्यावृत्तिगणने किम् । पञ्चपाकाः, दश पाकाः -इत्यत्र क्रियामात्रगणने माभूत् । क्रियाग्रहणं किमर्थम् । यावताऽभ्यावृत्तिः क्रियाया एव भवति, साध्यार्थविषयत्वात्तस्याः,न द्रव्यगुणयोः, तयोस्तु सिद्धस्वभावतया शब्दाभिधानात् ।पुनःपुनर्दण्डः॑,पुनः — पुनः स्थूलः॑ -इत्यत्रापि दम्यामानाया भवतिक्रियाया एवाभ्यावृत्तिर्न तु द्रव्यगुणयोरिति चेत् । मैवम् । उत्तरार्थं क्रियाग्रहणस्यावश्यकत्वात् ।

Padamanjari

अत्र ठुपाय एवाभ्युपायःऽ इतिवद् आवृत्तिरेवाभ्यावृत्तिरित्याश्रीयमाणे आद्याऽऽवृत्तिर्न भवतीति षट्कृत्वः प्रवृतौ पञ्चकृत्व इति स्यात्, अभिग्रहणं चानर्थकम्, क्रियावृत्तिगणन इत्येव वाच्यं स्यात्, अतोऽत्र विवक्षितं वक्तव्यम्? तदाह - पौनः पुन्यमभ्यावृत्तिरिति। पुनः पुनर्भवितरि वर्तमानात् पुनःपुनःशब्दात्प्रवृत्तिनिमितस्य भवनस्य निष्कृष्याभिधानाय बावप्रत्यय। पौनःपुन्यमुपुनः पुर्भवनमित्यर्थः, असकृत्प्रवृत्तिरिति यावत्। तत्र चाद्या प्रवृत्तिरन्तर्भवति, तद्यथा - पौनःपुन्यं भृसार्थो वा क्रियासमभिहार इत्यत्र योऽपि द्विः पचति तत्रापि पापच्यते इति भवति। उक्तमेवार्थं स्पष्टयतिएककर्तृकाणामिति। बहुवचनमतन्त्रम्। द्वयोरपि जननसंख्यानमावृत्तिर्भवत्येव जननसंख्यानमूत्पतिगणनम्। भिन्नकर्तृकासु भिन्नजातीयासु च क्रियासु निरन्तरमनुष्ठीयमानास्वपि क्रियाब्यावृत्तिप्रत्ययाभावादुभयमुपातम्। एवम्भूतानां क्रियाणां जन्मन उत्पतेर्यत्संख्यानं गणनं तत्क्रियाभ्यावृत्तिगणनम्। एतच्चाभ्यावृत्तिशब्दस्य तत्रैव प्रसिद्धेर्लभ्यते, अत एव अभिग्रहणं कृतम्। पञ्चकृत्वो भुङ्क्ते इति। एकैवात्र भुजिक्रिया निवृतभेदाख्यातेनअभिधीयते, आवृत्याजनियेन फलेनैकीकृतत्वात् तस्या उत्पतयः पञ्चसंख्यानेन गणयन्ते। आवृत्तिकृतं फलमिच्छन्भुजिक्रियायाः पञ्चोत्पत्यावृत्तीः करोतीत्यर्थः। अवान्तरफलापेक्षं पञ्चत्वम्, उत्पत्तिभेदश्च। भूरिवारानिति। वारशब्दस्य क्रियोत्पत्याधारजालवाचित्वात्’कालाध्वनोः’ इति द्वितीया। तथा च पुनःपुनःशब्दादुत्पत्याधारकालाभिधायित्वात्’कालाट्ठञ्’ भवति - पौनःपुनिक इति। यदि कालशब्दः, वारशब्दः, भूरिशब्दोऽपि तत्समानाधिकरणः काल एव वर्तते, न क्रियाभ्यावृताविति कथमत्र प्रसङ्गः? अत्राहुः - कालृवाचित्वेऽपि क्रियावृतेरपि गम्यमानत्वात्प्रसङ्ग इति। अपर आह - वारशब्दः क्रियागतामावृत्ति द्योतयन् क्रियाविशेषणत्वात्कर्म। नपुंसकत्वं तु न भवति, लोकाश्रयत्वाल्लिङ्गस्य; वारशब्दस्य नित्यपुंल्लिङ्गत्वात् - भूरिवारान् भुङ्क्ते। कोऽर्थः? आवृतानि बहूनिभोजनानि करोतीत्यर्थः। अत्र’बहुगणवतुडतिसंख्या’ इत्यत्र बहुगणग्रहणं नियमार्थम् - अनियतप्रचयवाचिनां मध्ये एतयोरेवेति, तेन भूरिशब्दस्य लौकिकसंक्यावाचित्वेऽप्यत्र ग्रहणाभावः। अम्भावृत्तिः क्रियाया एव सम्भवतीती। साध्यार्थविषयत्वातस्याः। न द्रव्यगुणयोरिति। तयोः सिद्धस्वभावतया शब्देनाभिधानात्। पुनः पुनर्दण्डी, पुनः पुनः स्थूल इत्यत्रापि गम्यमानाया भवतिक्रियाया एवाभ्यावृत्तिः, न तु द्रव्यगुणयोः। एकस्य सकृच्चेत्यत्रापीत्यादि। एकशब्देन ह्यएकैव क्रियाव्यक्तिराख्यायते। न च तस्यामावृतेः सम्भवः; तत्रासति क्रियाग्रहणे ठेको भुङ्क्तेऽ इत्यत्रापि स्यात्। तस्मादुतरार्थं क्रियाग्रहणम्। एवं च - क्रिया चाभ्यावृत्तिश्च क्रियाभ्यावृती, तयोगर्णनं क्रियाभ्यावृत्तिगणनमिति द्वन्द्वगर्भः षष्ठीसमास इति केचित। अन्ये तु - इहार्थमपि सुखप्रतिपतये क्रियाग्रहणं मन्यमानाः षष्ठीतत्पुरुषगर्भ तत्पुरुषं वर्णयन्ति। तत्र गुणभूतस्यापि क्रियाग्रहणस्य निष्कृष्य सम्बन्धः तद्ग्रहणसामर्थ्याद्वेदितव्यः। पञ्चपाका इति। अत्र कर्तृभेदेन वा भिन्नकालाः क्रिया एव गणयन्ते, नाभ्या वृत्तिः। सा हि भिन्नकालानामेककर्तृकाणामेककर्मकाणां च नैरन्तर्थे सति भवति। यद्यप्यत्र धात्वर्थस्य सिद्धताख्ये धर्मे घञो विधानम्, तथापि धातुनाऽत्रापि साध्यस्वभावा क्रियैवाभिधीयत इति तदाश्रयः प्रत्ययः स्यादेव। तता च - कारकस्य गतिः, कारकस्य व्रज्येत्यत्र’तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्’ इति ण्वुल् भवति। अक्रियमाण इत्यादि। आ दशभ्यः संख्याः संख्येय एव वर्तन्ते, अतः परं संख्याने संख्येये च । तत्रासति गणनग्रहणे क्रियाभ्यावृतौ संख्येयायां वर्तमानेभ्यः संख्येयवचनेभ्य एव प्रत्ययः स्यात्, संख्याने तु वर्तमानेभ्यो न स्यात्, तदाह - इह न स्यादिति। शतं वाराणामिति। इयमप्यत्यन्तसंयोगे द्वितीया। किं कारणं न स्यात्? इत्यत आह - न ह्यत्रेति। कारणमाह - संख्यानमात्रवृत्तित्वादिति। गणनग्रहणात्विति।’क्रियाभ्यावृत्तिगणने’ इति विषयनिर्देशः, तत्र ये संख्येयवचनाः, ये च संख्यानमात्रवचनाः - द्वयेऽपि ते गणनाविषया भवन्तीति सर्वत्र सिद्धिः। ननु शतं वाराणामित्यत्र यदा वाराणामिति प्रयुज्यते, तदा सापेक्षत्वात् प्रत्ययेन न भाव्यम्? यदा तर्ह्यर्थात्, प्रकरणाद्वाऽपेक्षयं निर्ज्ञातं भवति तदा भविष्यति यद्येवम्, संख्येयवचनादेव शतकृत्व इति भविष्यति, न हि’शतकृत्वो भुङ्क्ते’ इत्यत्र वाराणामिति वारानिति वा प्रयोगार्हम्, तस्मात्प्रयोजनदिगियं दर्शिता। इदं तु प्रयोजनम् - यत्र साक्षादभ्यावृत्तिगणनं तत्र यथा स्याद्, अभ्यावृत्तिगणनसम्भवमात्रे मा भूत् - सप्तदश प्राजापत्यान् पशूनालभत इति। अस्ति ह्यत्रालभतिक्रियायाः प्रतिपशु वस्तुतोऽभ्यावृत्तिः, तस्या विषयभूतायाः साधनगणनवृतेरपि सप्तदशशब्दात् प्रत्ययः स्यात् ॥

Nyaas

पौनःपुन्यमभ्यावृत्तिः इति। पौनः पुन्येनात्र साहचर्यादेककर्त्तृकाणां तुल्यजातीयानां सोपलक्ष्यते, अत एवाह - एककर्त्तृकाणाम् इत्यादि। एककर्त्तृकाणामित्यत्र हि संख्येयानुकृष्ट उपसंख्यातगुणस्तन्मात्रे वर्तते। संख्याशब्देऽत एव व्यतिरेकनिबन्धना षष्ठी भवति। क्रियागणनमभ्यावृत्तिर्भवत्येव। पञ्चकृत्वो भुङ्क्ते इति। क्रियायाः पञ्चोत्पत्तीः करोतीत्यर्थः। भूरीन्? वारान्? भुङ्क्ते इति। यदि संख्याग्रहणं न क्रियते, ततो यथा पञ्चादिभ्यः संख्याशब्देभ्यः प्रत्ययो भवति, तथा भूय्र्यादिभ्योऽपि स्यात्; संख्याग्रहणान्न भवति। अभ्यावृत्तिः क्रियाया एव सम्भवति इत्यादी। ननु च द्रव्यगुणयोरपि सम्भवति - पुनः पुनर्दण्डी, पुनः पुनः स्थूल इत्यादि? नैतदस्ति; अत्र सामर्थ्यात्? क्रियाभ्यावृत्तिः - पुनः पुनर्दण्डी भवति, पुनःपुनः स्थूलो भवतीति। तस्मादभ्यावृत्तिः क्रियाया एव सम्भवति, न द्रव्यगुणयोरपि। पुनः पुनर्दण्डीति - अत्र सामर्थ्याल्लभ्या क्रियेति क्रियाग्रहणं न कर्तव्यम्। एकस्य सकृच्चेत्यत्र इत्यादि। एकशब्देन ह्रेकैव क्रियाव्यक्तिराख्यायते। न चैकस्यां क्रियाव्यक्तावभ्यावृत्तिः सम्भवति, किं तर्हि? अनेकासु क्रियाव्यक्तिषु। तथा च प्रागुक्तम् - एककर्त्तृकाणामित्यादि। तस्मादेकस्य सकृच्च क्रियैव गण्यते, नाभ्यावृत्तिः। तस्मादसति क्रियाग्रहणे एकशब्दात्? क्रियागणने प्रत्ययो न लभ्यते। तस्मादुत्तरार्थं क्रियाग्रहणं कर्तव्यम्। पञ्चपाकाः इति। क्रियागणने इत्येतावत्युच्यमानेऽत्रापि स्यात्, अस्ति ह्यत्र क्रियागणनम्। अभ्यावृत्तिर्हि भिन्नकालानां क्रियाणां भवति, इह त्वभिन्नकाला एव पाका गण्यन्ते, अतस्तद्व्यावृत्तिः। ननु च क्रियाप्यत्र नास्त्येव, धात्वर्थस्य सिद्धताख्यो यो धर्मस्तस्मिन्? घञो विधानात्? नैष दोषः; सापि सिद्धता क्रियाप्रदेशेषु क्रियागरहणेन गृह्रत एव; धर्मधर्मिणोर्भेदस्याविवक्षितत्वात्। अन्यथा कारकस्य गतिः, कारकस्य व्रज्येत्यत्र तुमुन्ण्वुणौ क्रियायां क्रियार्थायाम् (3.3.10) इति ण्वुल्? न स्यात्। अक्रियमाणे इत्यादि। द्विविधाः संख्येयेवर्तमानेभ्यः संख्येयवचनेभ्य एव प्रत्ययः स्यात्। शतं वारान्? भुङ्क्ते शतकृत्वो भुङ्क्ते इति। अत्र सोऽयमित्यभिसम्बन्धेन क्रियाभ्यावृत्तौ संख्येये शतशब्दो वर्तते। अत एव सामानाधिकरण्यम्। शतं वारानिति संख्याने पर्तमानेभ्यो न स्यादिति दर्शयितुमाह - इह न स्यात् इति। कुत एतदित्याह - संख्यानमात्रवृत्तित्वात् इति। मात्रशब्दः संख्येयं विहाय शतं वाराणामिति स्यात्॥

Prakriyasarvasvam

पञ्चकृत्वो भुङ्क्ते ॥

Sutra Prayogas

  • त्रिःसप्तकृत्वो (किरातार्जुनीयम्): संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् इति कृत्वसुच्प्रत्ययः।

  • त्रिःसप्तकृत्वो (शिशुपालवधम्): संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् इति कृत्वसुच् प्रत्ययः।

  • शत-कृत्वस्तवैकस्याः (भट्टिकाव्यम्): क्रियाभ्यावृत्तिगणने कृत्वसुच् इति कृत्वसुच् प्रत्ययः।