54019: एकस्य सकृच्च¶
Padacheda: एकस्य | S | 6 | 1 |
सकृत् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
क्रियायाः गणने कर्तव्ये ‘एक’ शब्दात् सुच्-प्रत्ययः भवति, तथा च ‘एक’ शब्दस्य ‘सकृत्’ इति आदेशः अपि भवति ।
यदि काचित् क्रिया एकवारम् एव भवति, तर्हि तस्याः गणनायाः निर्देशार्थम् ‘एक’ शब्दात् ‘सुच्’ इति प्रत्ययः भवति, तथा च प्रक्रियायाम् ‘एक’ शब्दस्य ‘सकृत्’ इति आदेशः अपि भवति । सुच् प्रत्यये चकारस्य इत्संज्ञा, लोपः च भवति । सकारोत्तरः उकारः उच्चारणार्थः अस्ति । प्रक्रियायाम् केवलम् ‘स्’ इत्यवशिष्यते । तस्यापि संयोगान्तस्य लोपः (8.2.23) इत्यनेन लोपः भवति, अतः ‘सकृत्’ इत्येव अवशिष्यते । प्रक्रिया इयम् - एकवारम् इत्येव = एक + सुच् [वर्तमानसूत्रेण सुच्-प्रत्ययः] → सकृत् + स् [इत्संज्ञालोपः] → सकृत् [संयोगान्तस्य लोपः (8.2.23) इति सकारलोपः] → सकृत् यथा - देवदत्तः सकृत् भुङ्क्ते । एकवारं भुङ्क्ते इत्याशयः । स्मर्तव्यम् - 1. यद्यपि इदम् सूत्रम् समर्थानाम् प्रथमात् वा (4.1.82) इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथाप्यत्र विकल्पः न विधीयते । भाष्ये अस्मिन् सन्दर्भे उच्यते - ‘आमादयः प्राङ्मयटः नित्याः’ । इत्युक्ते, किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे (5.4.11) इत्यस्मात् आरभ्य वर्तमानसूत्रपर्यन्तम् विहिताः सर्वे प्रत्ययाः नित्याः एव भवन्ति । अतः वर्तमानसूत्रस्य सन्दर्भे अपि सुच्-प्रत्ययान्तरूपम् एव प्रयोक्तव्यम् ।इत्युक्ते, ‘एकवारं भुङ्क्ते’ विग्रहवाक्यम् प्रयोक्तव्यम्, नो चेत् ‘सकृत् भुङ्क्ते’ इति तद्धितान्तशब्दः प्रयोक्तव्यः । परन्तु ‘एकवारं भुङ्क्ते’ इति निर्देशयितुम् केवलम् ‘एकः भुङ्क्ते’ इति प्रयोगः न साधु । 2. अनेन सूत्रेण निर्मितः ‘सकृत्’ शब्दः तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अव्ययसंज्ञकः भवति । अतः सर्वासु विभक्तिषु लिङ्गेषु वचनेषु च अस्य ‘सकृत्’ इत्येव रूपं प्रयुज्यते । यथा - सीता सकृत् गच्छति; पुष्पाणि सकृत् विकसन्ति; वयं सकृत् ब्रूमः - आदयः । 3. अस्मिन् सूत्रे ‘क्रिया’ इति शब्दः अनुवृत्तिरूपेण स्वीक्रियते, अतः केवलम् ‘एकम् फलम्’, ‘एकः वृक्षः’ इत्येतेषु विषयेषु वर्तमानसूत्रस्य प्रयोगः न भवति । केवलम् क्रिया निर्दिश्यते चेदेव अस्य सूत्रस्य प्रयोगः कर्तव्यः । 4. अनेन सूत्रेण उक्तः ‘सुच्’ प्रत्ययः संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् (5.4.17) इत्यस्य अपवादरूपेण नैव विधीयते, यतः अत्र क्रियायाः अभ्यावृत्तिः नैव सम्भवति । When an action is done only once, there is no question of having a repetition. । अतएव अस्मिन् सूत्रे केवलम् ‘क्रियागणने’ इत्यनुवर्तते, न हि ‘अभ्यावृत्तिः’ इति । 5. ‘सुच्’ प्रत्यये चकारस्य इत्संज्ञा स्वरनिर्देशार्थमस्ति । तद्धितस्य (6.1.164) इत्यनेन चित्-प्रत्यये परे तद्धितान्तस्य अन्तिमः स्वरः उदात्तः भवति । यथा, ‘सकृत्’ इत्यत्र ककारोत्तरः ऋकारः अनेन उदात्तत्वं प्राप्नोति ।
Vasu English Summary¶
The word सकृत् is substituted for एक before the affix सुच् (स्) when an action is to be counted.
Vasu English Translation¶
The word सकृत् is substituted for एक before the affix सुच् (स्) when an action is to be counted. This debars कृत्वसुच् ॥ The ‘repetition’ being impossible, the action alone is counted : so the anuvritti of क्रिया only runs into this sutra and not of अभ्यावृत्तिः ॥ Thus सकृद्भुङ्क्ते “he eats once” सकृदधीते ॥ The स् of सुच् is elided by (8.2.23). But not here in एकः पाकः as being against usage.
Bhashya¶
एकस्य सकृच्च (2296) (सुचोऽधिकरणम्) (अभ्यावृत्तिपदार्थबोधकभाष्यम्) सकृदादेशेऽभ्यावृत्तिग्रहणं निर्वत्यम्। किं प्रयोजनम्? पुनः पुनरावृत्तिरभ्यावृत्तिः, न चैकस्य पुनः पुनरावृत्तिर्भवति॥ (एकदेशिनः क्रियाग्रहणानुवृत्तौ फलभाष्यम्) अथ क्रियाग्रहणमनुवर्तत उताहो न? किं चार्थोऽनुवृत्त्या? बाढमर्थः। इह मा भूत् - एको भुङ्क्त इति॥ (क्रियाग्रहणानुवृत्तावाक्षेपभाष्यम्) अथानुवर्तमानेऽपि क्रियाग्रहण इह कस्मान्न भवति - एकः पाक इति॥ (प्रतिबन्द्युत्तरभाष्यम्) पूर्वयोश्चापि योगयोः कस्मान्न भवति - द्वौ पाकौ, त्रयः पाकाः, चत्वारः पाकाः, पञ्ञ्च पाकाः, दश पाका इति? नैतत् क्रियागणनम्। किं तर्हि? द्रव्यगणनमेतत्। कथम्? कृदभिहितो भावो द्रव्यवद्भवतीति॥ इहापि तर्हि द्रव्यगणनान्न प्राप्नोति - सकृद्भुक्त्वा - सकृद्भोक्तुमिति। पूर्वयोश्चापि योगयोः - द्विर्भुक्त्वा - द्विर्भोक्तुम्, त्रिर्भुक्त्वा - त्रिर्भोक्तुम्, पञ्ञ्चकृत्वो भुक्त्वा - पञ्ञ्चकृत्वो भोक्तुम्, दशकृत्वो भुक्त्वा - दशकृत्वो भोक्तुमिति द्रव्यगणनान्न प्राप्नोति॥ (पुनः पुनरावृत्तावित्यर्थे दोषभाष्यम्) यदि खल्वपि पुनः पुनरावृत्तिरभ्यावृत्तिर्द्विरावृत्ते सकृदिति स्यात्, त्रिरावृत्ते द्विरिति॥ (अभ्यावृत्तिपदार्थबोधकभाष्यम्) एवं तर्ह्यनुवर्तते - अभ्यावृत्तिग्रहणम्। न तु पुनः पुनरावृत्तिरभ्यावृत्तिः। किं तर्हि? अभिमुखी प्रवृत्तिरभ्यावृत्तिः। पूर्वा च परे प्रत्यभिमुखी, परे च पूर्वां प्रत्यभिमुख्यौ॥ (क्रियाग्रहणानुवृत्तावपि दोषाभावोपपादकभाष्यम्) यदप्युच्यते - अनुवर्तमानेऽपि क्रियाग्रहण इह कस्मान्न भवति - एकः पाक इति, पूर्वयोश्चापि योगयोः - द्वौ पाकौ, त्रयः पाकाः, चत्वारः पाकाः, पञ्ञ्च पाकाः, दश पाका इति। परिहृतमेतत् - नैतत् क्रियागणनम्। किं तर्हि? द्रव्यगणनमेतत्। कृदभिहितो भावो द्रव्यवद्भवतीति। ननु चोक्तमिहापि तर्हि द्रव्यगणनान्न प्राप्नोति-सकृद्भुक्त्वा, सकृद्भोक्तमिति - पूर्वयोश्चापि योगयोः - द्विर्भुक्त्वा - द्विर्भोक्तुम्, त्रिर्भुक्त्वा - त्रिर्भोक्तुम्, पञ्ञ्चकृत्वो भुक्त्वा - पञ्ञ्चकृत्वो भोक्तम्, दशकृत्वो भुक्त्वा - दशकृत्वो भोक्तुमिति - द्रव्यगणनान्न प्राप्नोतीति। नैष दोषः। क्रियागणनाद्भविष्यति। कथम्? कृदभिहितो भावो द्रव्यवदपि क्रियावदपि यद्यपि॥
Kashika¶
एकशब्दस्य सकृदित्ययमादेशो भवति सुच् च प्रत्ययः क्रियागणने। कृत्वसुचोऽपवादः। अभ्यावृत्तिस्त्विह न संभवति। सकृद् भुङ्क्ते। सकृदधीते। एकः पाक इत्यत्र न भवति, अनभिधानात्॥
Siddhanta Kaumudi¶
सकृदित्यादेशः स्याच्चात्सुच् । सकृद्भुङ्क्ते । संयोगान्तस्य (SK54) इति सुचो लोपः न तु हल्ङ्याप् - (SK252) इति । अभैत्सीदित्यत्र सिच इव सुचोऽपि तदयोगात् ॥
Balamanorama¶
एकस्य सकृच्च - एकस्य सकृच्च । शेषपूरणेन सूत्रं व्याचष्टे — सकृदित्यादेशः स्यादिति । सकृद्भुङ्क्ते इति । एकशब्दात्सुच्, प्रकृतेः सकृदित्यादेशश्च । अत्र एकशब्दः क्रियाविशेषणम् ।एकत्वविशिष्टा भुजिक्रियेत्यर्थः ।स्वादु पचती॑त्यादिवदेकं भुङ्क्ते इति प्रयोगे प्राप्ते इदं सूत्रमिति कैयटः । ‘एको भुङ्क्ते’ इत्यत्र तु नायं विधिः प्रवर्तते, क्रियाग्रहणमनुवर्त्त्य क्रियाविशेषणस्यैव एकशब्दस्य ग्रहणादित्यास्तां तावत् । ननुसंयोगान्तस्ये॑ति सुचो लोप इत्यनुपपन्नम् । ‘हल्ङ्याब्भ्यः’ इत्येव हि सुलोपोऽत्र युक्तः तस्मिन्कर्तव्ये संयोगान्तस्ये॑ति सुचो लोप इत्यनुपपन्नम् । ‘हल्ङ्याब्भ्यः’ इत्येव हि सुलोपोऽत्र युक्तः, तस्मिन्कर्तव्ये संयोगान्तलोपस्य त्रैपादिकस्याऽसिद्धत्वादित्यत आह — नतु हल्याङ्यबितीति । सिच इवेति ।अभैत्सी॑त्यत्रि सिचो लोपनिवृत्तयेहल्ङ्या॑वित्यत्र सिग्रहणेन सिचो न ग्रहणं, तत्साहचर्यात्सुग्रहणेनापि सुजयं न गृह्रत इति भावः ।
Tattvabodhini¶
एकस्य सकृच्च - एकस्य सकृच्च । अभ्यावृत्तिरिति न संबध्यते, एकशब्देन ह्रेकैव क्रियाव्यक्तिराख्यायते, तस्यास्त्वावृत्तेरसंभवात् । क्रियाग्रहणमिहार्थमावश्यकम्, अन्यथाआ दशतः सङ्ख्या सङ्ख्येये वर्तते॑इत्येको भुङ्क्ते इत्यत्रापि स्यादिति । इह साधु पचतीत्यादिवदेकं भुङ्क्ते इति प्रयोगे प्राप्ते सकृच्छब्दप्रयोगार्थमिदं सूत्रमिति कैयटः ।एकः पाक॑इत्यत्र तु अनभिधानान्नेति काशिका । संयोगान्तस्येति ।हल्ङ्यादिना सुलोप॑इति प्राचो ग्रन्थोऽयुक्त इत्याह -न त्विति ।सुतिसी॑ति साहचर्याद्विभक्तय एव तत्र गृह्रन्त इथ्यभिप्रेत्याह -सिच इवेति ।
Padamanjari¶
सकृदिति ।’संयोगान्तस्य लोपः’ इति सुचो लोपः। सुचश्चकारोऽत्राप्यन्तोदातार्थः, अन्यथा ठिण्बीकापाशल्यतिमर्चिभ्यः कन्ऽ इति कन्प्रत्ययान्त एकशब्द आद्यौदात इति तस्य स्थाने भवन्सकृच्छब्द आन्तर्यत आद्यौदातः स्यात्। एकः पाक इत्यत्रेत्यादि। अपर आह - ठभ्यावृत्तिग्रहणादेव सिद्धे पूर्वसूत्रे क्रियाग्रहणं क्रियाविशेषप्रतिपत्यर्थम्, तेन साध्यस्वभावैव क्रिया गृह्यते। पाकादिभिस्तु शब्दैः सिद्धस्वभावाऽभिधीयते, यादृशी च पूर्वसूत्रे क्रिया गृहीता तादृश्येवात्राप्यनुवर्ततेऽ इति। तत्र च पाकादिशब्दप्रयोगे प्रत्ययाभाव इति घञन्ताद्यन्तप्रयोगेऽपि कृत्वोऽर्थप्रत्ययः क्वचित् लिङ्गाद्’द्विर्वचने’ चिऽ इति साधनीयो मनीषिभिः ॥
Nyaas¶
सकृद्भुक्तम् इति। संयोगान्तस्य (8.2.23) इति प्रत्ययसकारलोपः। चकारोऽन्तोदात्तार्थः। असति तु तस्मिन इण्भीकापाशल्यतिमर्चिभ्यः कन् (द।उ। 3।21) इति कन्प्रत्ययान्तत्वान्नित्स्वरेणैकशब्द आद्युदात्त इति स्थानिवद्भादादेशोऽप्याद्युदात्त एव स्यात्, चित्त्वादन्तोदात्तो भवति। अथैकः पाक इत्यत्र कस्मान्न भवति, अस्ति ह्यत्र क्रियागणनम्? इत्याह - एकः पाकः इत्यादि॥ बहुशब्देऽपि सामान्य एव; प्रकारेऽपि वृत्तेः। तत्रानेकक्रियाभ्यावृत्तेरविप्रकर्ष एव तावन्न्याय्यः, प्रकरणाद्यपेक्षश्च। कृत्वसुजापि न शक्नोत्यस्मिन्? विषये वर्त्तितुम्। तस्माद्विभाषाग्रहणं न कर्तव्यम्॥
Prakriyasarvasvam¶
अस्य क्रियागणनेऽर्थे सुच् सकृदादेशश्च स्यात् । सकृत् स् । ‘संयोगान्तलोपः’ । सकृद् भुङ्क्ते ॥
Sutra Prayogas¶
सकृत् (शिशुपालवधम्): एकस्य सकृत् इति सकृदर्थे निपातः।