53108: अङ्गुल्यादिभ्यष्ठक्¶
Padacheda: अङ्गुल्यादिभ्यः | S | 5 | 3 |
ठक् | S | 1 | 1 |
Sutrartha¶
अङ्गुल्यादिगणस्य शब्देभ्यः ‘इव’ इति सन्दर्भे स्वार्थे ‘ठक्’ इति प्रत्ययः भवति ।
अङ्गुल्यादिगणस्य शब्देभ्यः ‘इव’ इति सन्दर्भे ‘ठक्’ इति प्रत्ययः भवति । अङ्गुल्यादिगणः अयम् - अङ्गुलि, भरुजा, बभ्रु, वल्गु, मण्डर, मण्डल, शष्कुल, कपि, उदश्वित्, गोणी, उरस्, शिखर, कुलिश । उदाहरणानि - 1. अङ्गुलिः इव = अङ्गुलि + ठक् → अङ्गुलि + इक [ठस्येकः (7.3.50) इति इक्] → आङ्गुलि + इक [किति च (7.2.118) इति आदिवृद्धिः] → आङ्गुल् + इक [यस्येति च (6.4.148) इति इकारलोपः] → आङ्गुलिक 2. बभ्रुः इव = बभ्रु + ठक् → बभ्रु + क [इसुसुक्तान्तात् कः (7.3.51) इति ककारादेशः] → बाभ्रु + क [किति च (7.2.118) इति आदिवृद्धिः] → बाभ्रुक । 3. उदश्वित् इव = उदश्वित् + ठक् → उदश्वित् + क [इसुसुक्तान्तात् कः (7.3.51) इति ककारादेशः] → औदश्वित् + क [किति च (7.2.118) इति आदिवृद्धिः] → औदश्वित्क विशेषः - 1. स्त्रीत्वे विवक्षिते सर्वत्र टिड्ढाणञ्.. (4.1.15) इति ङीप्-प्रत्ययः विधीयते । यथा - आङ्गुलिकी, बाभ्रुकी - आदयः स्मर्तव्यम् - इवे प्रतिकृतौ (5.2.96) इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये तथा च अन्येषु अपि सर्वेषु विषयेषु अङ्गुल्यादिगणस्य शब्देभ्यः ‘इव’ इति सन्दर्भे ठक्-प्रत्ययः एव भवति ।
Vasu English Summary¶
The affix ठक् comes in the sense of ‘like this’ after the words अङ्गुली etc.
Vasu English Translation¶
The affix ठक् comes in the sense of ‘like this’ after the words अङ्गुली etc. Thus आङ्गुलिकः (= अङ्गुलीय), भारुजिकः ॥
1 अङ्गुलि (अङ्गुली), 2 भरुज, 3 बभ्रु 4 वल्गु 5 मण्डर, 6 मण्डल, 7 शष्कुली (शष्कुल), 8 हरि, 9 कपि, 10 मुनि, 11 रुह, 12 खल, 13 उदश्वित्, 14 गोणी, 15 उरस्, 16 कुलिश, 17 शिखा ॥
Kashika¶
अङ्गुल्यादिभ्य इवार्थे ठक् प्रत्ययो भवति। अङ्गुलीवाङ्गुलिकः। भारुजिकः॥ अङ्गुलि। भरुज। बभ्रु। वल्गु। मण्डर। मण्डल। शष्कुल। कपि। उदश्वित्। गोणी। उरस्। शिखर। कुलिश। अङ्गुल्यादिः॥
Siddhanta Kaumudi¶
अङ्गुलीव आङ्गुलिकः । भरुजेव भारुजिकः ॥
Balamanorama¶
अङ्गुल्यादिभ्यष्ठक् - अङ्गुल्यादिभ्यष्ठक् । इवे इत्येव । अङ्गुलीवेति । अङ्गुलिशब्दात् कृदिकारादक्तिनः॑ इति ङीष् । आङ्गुलिक इति । पूर्ववद्विशेष्यनिघ्नता । भारूजिक इति । पूर्ववद्विशेष्यनिघ्नता ।
Prakriyasarvasvam¶
अङ्गुलीतुल्य आङ्गुलिकः । मण्डलवत्स्थितं माण्डलिकम् । एवं मुनिहरिकपि- खलोदश्विद्भ्ररुशष्कुलीकुलिशगोण्यादेः ॥