53108: अङ्गुल्यादिभ्यष्ठक् ========================== **Padacheda:** अङ्गुल्यादिभ्यः | S | 5 | 3 | ठक् | S | 1 | 1 | Sutrartha --------- **अङ्गुल्यादिगणस्य शब्देभ्यः 'इव' इति सन्दर्भे स्वार्थे 'ठक्' इति प्रत्ययः भवति ।** अङ्गुल्यादिगणस्य शब्देभ्यः 'इव' इति सन्दर्भे 'ठक्' इति प्रत्ययः भवति । अङ्गुल्यादिगणः अयम् - अङ्गुलि, भरुजा, बभ्रु, वल्गु, मण्डर, मण्डल, शष्कुल, कपि, उदश्वित्, गोणी, उरस्, शिखर, कुलिश । उदाहरणानि - 1. अङ्गुलिः इव = अङ्गुलि + ठक् → अङ्गुलि + इक [**ठस्येकः** (7.3.50) इति इक्] → आङ्गुलि + इक [**किति च** (7.2.118) इति आदिवृद्धिः] → आङ्गुल् + इक [**यस्येति च** (6.4.148) इति इकारलोपः] → आङ्गुलिक 2. बभ्रुः इव = बभ्रु + ठक् → बभ्रु + क [**इसुसुक्तान्तात् कः** (7.3.51) इति ककारादेशः] → बाभ्रु + क [**किति च** (7.2.118) इति आदिवृद्धिः] → बाभ्रुक । 3. उदश्वित् इव = उदश्वित् + ठक् → उदश्वित् + क [**इसुसुक्तान्तात् कः** (7.3.51) इति ककारादेशः] → औदश्वित् + क [**किति च** (7.2.118) इति आदिवृद्धिः] → औदश्वित्क विशेषः - 1. स्त्रीत्वे विवक्षिते सर्वत्र **टिड्ढाणञ्..** (4.1.15) इति ङीप्-प्रत्ययः विधीयते । यथा - आङ्गुलिकी, बाभ्रुकी - आदयः स्मर्तव्यम् - **इवे प्रतिकृतौ** (5.2.96) इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये तथा च अन्येषु अपि सर्वेषु विषयेषु अङ्गुल्यादिगणस्य शब्देभ्यः 'इव' इति सन्दर्भे ठक्-प्रत्ययः एव भवति । Vasu English Summary -------------------- The affix ठक् comes in the sense of 'like this' after the words अङ्गुली etc. Vasu English Translation ------------------------ The affix ठक् comes in the sense of 'like this' after the words अङ्गुली etc. Thus आङ्गुलिकः (= अङ्गुलीय), भारुजिकः ॥ 1 अङ्गुलि (अङ्गुली), 2 भरुज, 3 बभ्रु 4 वल्गु 5 मण्डर, 6 मण्डल, 7 शष्कुली (शष्कुल), 8 हरि, 9 कपि, 10 मुनि, 11 रुह, 12 खल, 13 उदश्वित्, 14 गोणी, 15 उरस्, 16 कुलिश, 17 शिखा ॥ Kashika ------- अङ्गुल्यादिभ्य इवार्थे ठक् प्रत्ययो भवति। अङ्गुलीवाङ्गुलिकः। भारुजिकः॥ अङ्गुलि। भरुज। बभ्रु। वल्गु। मण्डर। मण्डल। शष्कुल। कपि। उदश्वित्। गोणी। उरस्। शिखर। कुलिश। अङ्गुल्यादिः॥ Siddhanta Kaumudi ----------------- अङ्गुलीव आङ्गुलिकः । भरुजेव भारुजिकः ॥ Balamanorama ------------ **अङ्गुल्यादिभ्यष्ठक्** - अङ्गुल्यादिभ्यष्ठक् । इवे इत्येव । अङ्गुलीवेति । अङ्गुलिशब्दात् कृदिकारादक्तिनः॑ इति ङीष् । आङ्गुलिक इति । पूर्ववद्विशेष्यनिघ्नता । भारूजिक इति । पूर्ववद्विशेष्यनिघ्नता । Prakriyasarvasvam ----------------- अङ्गुलीतुल्य आङ्गुलिकः । मण्डलवत्स्थितं माण्डलिकम् । एवं मुनिहरिकपि- खलोदश्विद्भ्ररुशष्कुलीकुलिशगोण्यादेः ॥