53107: शर्करादिभ्योऽण्

Padacheda: शर्करादिभ्यः | S | 5 | 3 |

अण् | S | 1 | 1 |

Sutrartha

शर्करादिगणस्य शब्देभ्यः ‘इव’ अस्मिन् सन्दर्भे स्वार्थे ‘अण्’ प्रत्ययः विधीयते ।

शर्करादिगणस्य शब्देभ्यः ‘इव’ इति सन्दर्भे अण् इति प्रत्ययः भवति । शर्करादिगणः अयम् - शर्करा, कपालिका, पिष्टिक, पुण्डरीक, शतपत्र, गोलोमन्, गोपुच्छ, नराची, नकुला, सिकता । उदाहरणानि - 1. शर्करा इव = शर्करा + अण् → शार्करः । 2. कपालिका इव = कपालिका + अण् → कापालिकः । 2. सिकता इव = सिकता + अण् → सैकतः । आदयः । विशेषः - 1. स्त्रीत्वे विवक्षिते सर्वत्र टिड्ढाणञ्.. (4.1.15) इति ङीप्-प्रत्ययः विधीयते । यथा - शार्करी, सैकती - आदयः स्मर्तव्यम् - इवे प्रतिकृतौ (5.2.96) इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र शर्करादिगणस्य शब्देभ्यः ‘इव’ इति सन्दर्भे अण्-प्रत्ययः एव भवति ।

Vasu English Summary

The affix अण् comes in the sense of ‘like this’ after the words शर्करा etc.

Vasu English Translation

The affix अण् comes in the sense of ‘like this’ after the words शर्करा etc. Thus शर्करेव = शार्करम्, कापालिकम् ॥

1 शर्करा, 2 कपालिका, 3 कपाटिका, 4 कनिष्ठिका (कपिष्ठिका; पिष्ठिका, कनिश्ठिक !), 5 पुण्डरीक, 6 शतपत्र, 7 गोलोमन, 8 लोमन्, 9 गोपुच्छ, 10 नराची (नरालि), 11 नकुल (नकुला), 12 सिकता ॥

Kashika

शर्करा इत्येवमादिभ्यः प्रातिपदिकेभ्य इवार्थेऽण् प्रत्ययो भवति। शर्करेव शार्करम्। कापालिकम्॥ शर्करा। कपालिका। पिष्टिक। पुण्डरीक। शतपत्र। गोलोमन्। गोपुच्छ। नरालि। नकुला। सिकता। शर्करादिः॥

Siddhanta Kaumudi

शर्करेव शार्करम् ॥

Balamanorama

शर्कराऽऽदिभ्योऽण् - शर्करादिभ्योऽण् । इवे इत्येव । शार्करमिति ।स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते॑ इति विशेष्यनिघ्नतेति भावः ।

Prakriyasarvasvam

‘शर्कराकपालिकाकवाटिकासिकतानकुलनाराचीशतपत्रपुण्डरीकेभ्यः’ (स० ५- ३-१४२) । शर्करातुल्यं शार्करं वचः । कापालिकं, कावाटिकं, सैकतं, नाकुलं, नाराचं, शातपत्रं, पौण्डरीकम् । ‘गोलोमपुच्छाभ्याम् (स० ५-३-१४३) । गोलोमसदृशं गौलोमनम् । अण्यनः प्रकृतिभावः । गौपुच्छम् । ‘अस्सपत्न्याः’ (स० ५-३-१४४) । पत्नीसदृशत्वात् सपत्नः शत्रुः ॥