53109: एकशालायाष्ठजन्यतरस्याम्

Padacheda: एकशालायाः | S | 5 | 1 |

ठच् | S | 1 | 1 |

अन्यतरस्याम् | S | 7 | 1 |

Sutrartha

‘एकशाला’ शब्दात् ‘इव’ इति सन्दर्भे स्वार्थे ठच् प्रत्ययः विकल्पेन भवति । पक्षे ठक् प्रत्ययः अपि विधीयते ।

‘एकशाला’ (single room) शब्दात् ‘इव’ अस्मिन् सन्दर्भे स्वार्थे ठच् तथा ठक् प्रत्ययौ भवतः । एकशाला इव गृहम् (A house that has a single room) = एकशाला + ठक् / ठच् → एकशाला + इक [ठस्येकः (7.3.50) इति इक-आदेशः] → ऐकशाला / एकशाला + इक [ठक्-प्रत्ययस्य विषये किति च (7.2.118) इति आदिवृद्धिः] → ऐकशाल् / एकशाल् + इक [यस्येति च (6.4.148) इति आकारलोपः] → ऐकशालिक / एकशालिक एकशाला इव तत् ऐकशालिकम् एकशालिकम् वा । Just like a single hall / single room - इत्याशयः । स्मर्तव्यम् - इवे प्रतिकृतौ (5.2.96) इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र ‘एकशाला’ शब्दात् ‘इव’ इति सन्दर्भे ठक् / ठच् प्रत्ययः एव भवति ।

Vasu English Summary

The affix ठच् also comes optionally after the word एकशाला with the force of ‘like this’.

Vasu English Translation

The affix ठच् also comes optionally after the word एकशाला with the force of ‘like this’. Thus एकशालिकः or ऐकशालिकः by ठक् ॥

Kashika

एकशालाशब्दादिवार्थेऽन्यतरस्यां ठच् प्रत्ययो भवति। अन्यतरस्यांग्रहणेनानन्तरष्ठक् प्राप्यते। एकशालेव एकशालिकः, ऐकशालिकः॥

Siddhanta Kaumudi

एकशालाशब्दादिवार्थे ठज्वा पक्षे ठक् । एकशालेव एकशालिकः । ऐकशालिकः ॥

Balamanorama

एकशालायाष्ठजन्यतरस्याम् - एकशालायाः । पक्षे ठगिति । अन्यतरस्याङ्ग्रहणमनन्तरठ,कः समुच्चयार्थमिति भावः ।ठज्वे॑त्येव सुवचम् ।

Padamanjari

अनेकार्थत्वन्निपातानामन्यतरस्यांग्रहणमिह समुच्चयार्थम्, न विकल्पार्थमित्याह - अन्यतरस्यांग्रहणेनेत्यादि ॥

Nyaas

अन्यतरस्यांग्रहणेन इत्यादि। पूर्वसूत्रेण (5.3.108) विहितत्वाट्ठगेवानन्तरः। अन्यतरस्यांग्रहणं समुच्चयार्थम्। अतस्तेन अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा (व्या।प।19) इति स एव प्राप्यते॥

Prakriyasarvasvam

अत्रान्यतरस्यामिति समुच्चये । तेन ठक् च स्यात् । एकशालिकः । ऐकशालिकः ॥