53089: कुत्वा डुपच्¶
Padacheda: कुत्वा | S | 5 | 1 |
डुपच् | S | 1 | 1 |
Sutrartha¶
‘ह्रस्व’ इत्यस्य विशेष्यरूपेण विहितात् ‘कुतू’ शब्दात् स्वार्थे ‘डुपच्’ प्रत्ययः भवति ।
‘ह्रस्व’ (यत् दीर्घः नास्ति तत्, short) इत्यस्य विशेष्यरूपेण विहितं यत् प्रातिपदिकम्, तस्मात् ह्रस्वे (5.3.86) इत्यनेन औत्सर्गिकरूपेण क-प्रत्यये प्राप्ते ‘कुतू’ अस्य विषये अपवादरूपेण ‘डुपच्’ प्रत्ययः भवति । ह्रस्वा कुतू (oil bag / oil bottle) इत्येव = कुतू + डुपच् कुतू + उप [डकारचकारयोः इत्संज्ञा, लोपः] → कुत् + उप [डित्त्वात् टेः (6.4.143) इति टिलोपः] → कुतुप । A small-sized oil container / bottle is called कुतुपः । अयम् शब्दः पुंलिङ्गे प्रयुज्यते ।
Vasu English Summary¶
The affix डुपच् (उप) comes in expressing diminution after the word कुतू ‘a jar’.
Vasu English Translation¶
The affix डुपच् (उप) comes in expressing diminution after the word कुतू ‘a jar’. This debars क ॥ Thus कुतुपः, from कुतू the long ऊ being elided owing to ड ॥ It means a small leathern vessel for oil. This word is neuter also, as, कुतुपम् ॥
Kashika¶
ह्रस्व इत्येव। कुतूशब्दाद् ह्रस्वत्वे द्योत्ये डुपच् प्रत्ययो भवति। कस्यापवादः। ह्रस्वा कुतूः कुतुपम्। चर्ममयं स्नेहभाजनमुच्यते। कुतूरित्यावपनस्याख्या॥
Siddhanta Kaumudi¶
ह्रस्वा कुतूः कुतुपः । कुतूः कृत्तेः स्नेहपात्रं ह्रस्वा सा कुतुपः पुमान् ॥
Balamanorama¶
कुत्वा डुपच् - कुत्वा डुपच् । कुतुप इति । कुतूशब्दात् डुपचि ङित्त्वाट्टिलोपः । तत्रापि कुटीरादिवत्स्तीर्तवमपहाय पुंस्त्वमेव । तत्राऽमरकोशषमपि प्रमाणयति — कुतूः कृत्तिस्नेहेति ।
Prakriyasarvasvam¶
चार्मणं स्नेहपात्रं कुतूः । सा ह्रस्वा कुतुपः ।