53088: कुटीशमीशुण्डाभ्यो रः¶
Padacheda: कुटी-शमी-शुण्डाभ्यः | S | 5 | 3 |
रः | S | 1 | 1 |
Sutrartha¶
‘ह्रस्व’ इत्यस्य विशेष्यरूपेण विहितेभ्यः ‘कुटी’, ‘शमी’, ‘शुण्डा’ एतेभ्यः शब्देभ्यः स्वार्थे ‘र’ प्रत्ययः भवति ।
‘ह्रस्व’ (यत् दीर्घः नास्ति तत्, short) इत्यस्य विशेष्यरूपेण विहितं यत् प्रातिपदिकम्, तस्मात् ह्रस्वे (5.3.86) इत्यनेन औत्सर्गिकरूपेण क-प्रत्यये प्राप्ते ‘कुटी’, ‘शमी’, ‘शुण्डा’ एतेषां विषये तं बाधित्वा ‘र’ प्रत्ययः भवति । 1. ह्रस्वा कुटी (small-sized hut) इत्येव = कुटी + र → कुटीर । 2. ह्रस्वा शमी (legume) इत्येव = शमी + र → शमीर । 3. ह्रस्वा शुण्डा (trunk) इत्येव = शुण्डा + कन् → शुण्डार । स्मर्तव्यम् - ‘कुटीर’, ‘शमीर’, ‘शुण्डार’ एते त्रयः अपि तद्धितान्ताः शब्दाः पुंलिङ्गे प्रयुज्यन्ते ।
Vasu English Summary¶
The affix र comes after the words 1. कुटी 2. शमी and 3. शुण्डा when expressing shortness of length.
Vasu English Translation¶
The affix र comes after the words 1. कुटी 2. शमी and 3. शुण्डा when expressing shortness of length. The word हृस्व is understood here, but not संज्ञा ॥ This debars क (5.3.90). Thus हृस्वा कुटी = कुटीरः, शमीरः and शुण्डारः ॥ The derivatives are masculine names; though the primitives are feminine.
Bhashya¶
कुटीशमीशुण्डाभ्यो रः (2246) (रप्रत्ययाधिकरणम्) (5892 एकदेशिन उपसंख्यानवार्तिकम्॥ 1 ॥) - कुटीशमीशुण्डाभ्यः प्रत्ययसंनियोगेन पुंवद्वचनम् - (भाष्यम्) कुटीशमीशुण्डाभ्यः प्रत्ययसंनियोगेन पुंवद्भावो वक्तव्यः। कुटी - कुटीरः। शमी - शमीरः। शुण्डा - शुण्डार इति॥ (वार्तिकप्रयोजनभाष्यम्) किं पुनः कारणं न सिध्यति? स्वार्थिकोऽयं, स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते॥ (5893 उपसंख्यानानर्थक्यबोधकवार्तिकम्॥ 2 ॥) - उक्तं वा - (भाष्यम्) किमुक्तम्? स्वार्थिका अतिवर्तन्तेऽपि लिङ्गवचनानीति॥
Kashika¶
ह्रस्व इत्येव। संज्ञाग्रहणं नानुवर्तते, सामान्येन विधानम्। कुटीशमीशुण्डाभ्यो ह्रस्वार्थे द्योत्ये रः प्रत्ययो भवति। कस्यापवादः। ह्रस्वा कुटी कुटीरः। शमीरः। शुण्डारः। स्वार्थिकत्वेऽपि पुँल्लिङ्गता, लोकाश्रयत्वाल् लिङ्गस्य॥
Siddhanta Kaumudi¶
ह्रस्वः कुटी कुटीरः । शमीरः । शुण्डारः ॥
Balamanorama¶
कुटीशमीशुण्डाभ्यो रः - कुटीशमी । ह्रस्व इत्येव कुटीर इति ।स्वार्थिकाः क्वचित्प्रकृतितो लिह्गवचनान्यतिवर्तन्ते॑ इति पुंस्त्वम् । एवं शमीरः शुण्डार इत्यपि । ह्रस्वा शमी, शुण्डा चेत्यर्थः ।
Tattvabodhini¶
कुटीशमीशुण्डाभ्यो रः - कुटीर इति ।स्वार्थिकाः प्रकृतितो लिङ्गमतिवर्तन्ते॑इति पुंलिङ्गताऽत्र सङ्गच्छते ।
Nyaas¶
कुटीरः। शमीरः इति। स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनृवर्तते इति प्रकृतिगतेनैव स्त्रीलिङ्गेन भवितव्यम्, न पुल्लिङ्गेन? इत्यत आह - स्वार्थिकत्वेऽपि इत्यादि॥
Prakriyasarvasvam¶
ह्रस्वा कुटी कुटीरः । शमीरः । शुण्डारः । स्वार्थेऽपि क्वचित् स्वलिङ्गभाव उक्तः ॥