53090: कासूगोणीभ्यां ष्टरच्¶
Padacheda: कासू-गोणीभ्याम् | S | 5 | 2 |
ष्टरच् | S | 1 | 1 |
Sutrartha¶
‘ह्रस्व’ इत्यस्य विशेष्यरूपेण विहितात् ‘कासू’ तथा ‘गोणी’ शब्दाभ्याम् स्वार्थे ‘ष्टरच्’ प्रत्ययः भवति ।
‘ह्रस्व’ (यत् दीर्घः नास्ति तत्, short) इत्यस्य विशेष्यरूपेण विहितं यत् प्रातिपदिकम्, तस्मात् ह्रस्वे (5.3.86) इत्यनेन औत्सर्गिकरूपेण क-प्रत्यये प्राप्ते ‘कासू’ तथा ‘गोणी’ एतयोः विषये अपवादत्वेन ‘ष्टरच्’ प्रत्ययः भवति । विशेषः - अत्र मूलरूपेण ‘तर’ इति प्रत्ययः अस्ति । षकारः प्रत्यये अनुबन्धरूपेण प्रयुज्यते, अतः ष्टुत्वं अपि भवति येन तकारस्य टकारादेशः भवति । प्रक्रियायाः प्रथमसोपाने षः प्रत्ययस्य (1.3.6) इत्यनेन षकारस्य इत्संज्ञा तथा तस्य लोपः (1.3.9) इत्यनेन लोपे कृते निमित्तापाये नैमित्तिकस्याप्यपायः अनेन सिद्धान्तेन ष्टुत्वं अपि निवर्तते - ह्रस्वा कासूः (A type of weapon) इत्येव = कासू + ष्टरच् → कासू + तर [षकारचकारयोः इत्संज्ञा, लोपः । षकारलोपे अकृतव्यूहाः पाणिनीयाः इत्यनया परिभाषया (= निमित्तापाये नैमित्तिकस्याप्यपायः इत्यनेन सिद्धान्तेन) ष्टुत्वमपि विनश्यति, अतः ‘तर’ इत्येव अवशिष्यते । → कासूतर → कासूतर + ङीष् [स्त्रीत्वे विवक्षिते षिद्गौरादिभ्यश्च (4.1.41) इति ङीष्] → कासूतर् + ई [यस्येति च (6.4.148) इति अकारलोपः] → कासूतरी । a small weapon - इत्याशयः । एवमेव ह्रस्वा गोणी (small sack / bag) इत्येव = गोणी + ष्टरच् → गोणीतरी ।
Vasu English Summary¶
The affix ष्टरच् (तर with feminine – अन्यतो ङीष् (4.1.40)) comes in expressing diminution after the words 1. कासू and 2. गोणी।
Vasu English Translation¶
The affix ष्टरच् (तर with feminine – अन्यतो ङीष् (4.1.40)) comes in expressing diminution after the words 1. कासू and 2. गोणी। Thus हृस्वा कासूः = कासूतरी ‘a small lance’; गोणीतरी ‘a small sack’.
Kashika¶
ह्रस्व इत्येव। कासूगोणीशब्दाभ्यां ह्रस्वत्वे द्योत्ये ष्टरच् प्रत्ययो भवति। कस्यापवादः। षकारो ङीषर्थः। ह्रस्वा कासूः कासूतरी। गोणीतरी। कासूरिति शक्तिरायुधविशेष उच्यते॥
Siddhanta Kaumudi¶
आयुधविशैषः कासूः । ह्रस्वा सा कासूतरी गोणीतरी ॥
Balamanorama¶
कासूगोणीभ्यां ष्टरच् - कासूगोणीभ्यां ष्टरच् । ह्रस्व इत्येव । कासूतरीति । षित्त्वान्ङीषिति भावः ।कासूर्बुद्धे कुवाच्येऽस्त्रे॑ इति नानार्थरत्नमालायाम् । एवं गोणीतरीति ।
Prakriyasarvasvam¶
आभ्यां ह्रस्वे ष्टरच् । स्वार्थिकत्वात्, स्त्रीत्वेन षित्वात् ङीप् । कासूतरी, गोणीतरी । कासूः शक्तिः ॥