53089: कुत्वा डुपच् =================== **Padacheda:** कुत्वा | S | 5 | 1 | डुपच् | S | 1 | 1 | Sutrartha --------- **'ह्रस्व' इत्यस्य विशेष्यरूपेण विहितात् 'कुतू' शब्दात् स्वार्थे 'डुपच्' प्रत्ययः भवति ।** 'ह्रस्व' (यत् दीर्घः नास्ति तत्, short) इत्यस्य विशेष्यरूपेण विहितं यत् प्रातिपदिकम्, तस्मात् **ह्रस्वे** (5.3.86) इत्यनेन औत्सर्गिकरूपेण क-प्रत्यये प्राप्ते 'कुतू' अस्य विषये अपवादरूपेण 'डुपच्' प्रत्ययः भवति । ह्रस्वा कुतू (oil bag / oil bottle) इत्येव = कुतू + डुपच् कुतू + उप [डकारचकारयोः इत्संज्ञा, लोपः] → कुत् + उप [डित्त्वात् **टेः** (6.4.143) इति टिलोपः] → कुतुप । A small-sized oil container / bottle is called कुतुपः । अयम् शब्दः पुंलिङ्गे प्रयुज्यते । Vasu English Summary -------------------- The affix डुपच् (उप) comes in expressing diminution after the word कुतू 'a jar'. Vasu English Translation ------------------------ The affix डुपच् (उप) comes in expressing diminution after the word कुतू 'a jar'. This debars क ॥ Thus कुतुपः, from कुतू the long ऊ being elided owing to ड ॥ It means a small leathern vessel for oil. This word is neuter also, as, कुतुपम् ॥ Kashika ------- ह्रस्व इत्येव। कुतूशब्दाद् ह्रस्वत्वे द्योत्ये डुपच् प्रत्ययो भवति। कस्यापवादः। ह्रस्वा कुतूः कुतुपम्। चर्ममयं स्नेहभाजनमुच्यते। कुतूरित्यावपनस्याख्या॥ Siddhanta Kaumudi ----------------- ह्रस्वा कुतूः कुतुपः । कुतूः कृत्तेः स्नेहपात्रं ह्रस्वा सा कुतुपः पुमान् ॥ Balamanorama ------------ **कुत्वा डुपच्** - कुत्वा डुपच् । कुतुप इति । कुतूशब्दात् डुपचि ङित्त्वाट्टिलोपः । तत्रापि कुटीरादिवत्स्तीर्तवमपहाय पुंस्त्वमेव । तत्राऽमरकोशषमपि प्रमाणयति — कुतूः कृत्तिस्नेहेति । Prakriyasarvasvam ----------------- चार्मणं स्नेहपात्रं कुतूः । सा ह्रस्वा कुतुपः ।