53085: अल्पे

Padacheda: अल्पे | S | 7 | 1 |

Sutrartha

‘अल्प’ इत्यस्य विशेष्यरूपेण विहितात् प्रातिपदिकात् तिङन्तात् च स्वार्थे यथाविहितं प्रत्ययः भवति ।

‘अल्प’ (लघु / little quantity) इत्यस्य विशेष्यरूपेण विहितं यत् प्रातिपदिकम्, तस्मात् वर्तमानसूत्रेण स्वार्थे औत्सर्गिकः क-प्रत्ययः उत तस्य अपवादः विधीयते । यथा - 1. अल्पम् तैलम् इत्येव = तैल + क → तैलकम् । A little oil इत्याशयः । 2. अल्पम् क्षीरम् इत्येव = क्षीर + क → क्षीरकम् । 3. अल्पम् घृतम् इत्येव = घृत + क → घृतकम् । अव्ययानाम्, सर्वनामशब्दानाम्, तथा च तिङन्तानाम् विषये अपि अस्य सूत्रस्य प्रसक्तिः विद्यते, परन्तु एतेभ्यः परस्य क-प्रत्ययस्य अपवादरूपेण अव्ययसर्वनाम्नामकच् प्राक् टेः (5.3.71) इति अकच्-प्रत्ययः विधीयते, सः च अङ्गस्य टि-संज्ञकात् पूर्वमागच्छति । उदाहरणानि एतानि - 1. अल्पमुच्चैः (a little above) = उच्चैस् + अकच् → उच्चकैः । 2. अल्पम् सर्वम् (a little of everything) = सर्वम् + अकच् → सर्वकम् । ‘सर्व’ शब्दस्य विषये ‘अकच्’ प्रत्ययः सुबन्तात् अनन्तरम् विधीयते इति अव्ययसर्वनाम्नामकच् प्राक् टेः (5.3.71) इत्यत्र स्पष्टीकृतमस्ति । 3. अल्पम् पचति (Cooks a little quantity) = पचति + अकच् → पचतकि । ‘देवदत्तः पचतकि’ एतादृशमस्य प्रयोगः भवति ।

Vasu English Summary

The above-mentioned affix क – प्रागिवात्कः (5.3.70), and the rest come in expressing the small quantity or small number of anything.

Vasu English Translation

The above-mentioned affix क – प्रागिवात्कः (5.3.70), and the rest come in expressing the small quantity or small number of anything. Thus अल्पं तैलं = तैलकं ‘a little oil’. सर्वकम्, घृतकम्, विश्वकम्, उच्चकैः, नीचकैः ‘a somewhat high, a somewhat low &c’. पचतकि ‘he cooks a little’. जल्पतकि ‘he speaks somewhat’.

Bhashya

अल्पे (2243)

Kashika

परिमाणापचयेऽल्पशब्दः। प्रकृतिविशेषणं चैतत्। अल्पत्वविशिष्टेऽर्थे वर्तमानात् प्रातिपदिकाद् यथाविहितं प्रत्ययो भवति। अल्पं तैलं तैलकम्। घृतकम्। सर्वकम्। विश्वकम्। उच्चकैः। नीचकैः। पचतकि। जल्पतकि॥

Siddhanta Kaumudi

अल्पं तैलं तैलकम् ॥

Balamanorama

अल्पे - अल्पे । अल्पत्वविशिष्टे वर्तमानाद्यथाविहितं प्रत्ययाः स्युः । तैलकमिति । ‘सर्वकम्’ ‘उच्चकैः’पचतकी॑त्याद्यप्युदाहार्यम् ।

Prakriyasarvasvam

अल्पार्थे काकचौ स्तः । घृतकं, वददतकि ।

Sutra Prayogas

  • वृक्षकान् (कुमारसम्भवम्): अल्पे इति अल्पार्थे कप्रत्ययः।

  • शरीरकैः (शिशुपालवधम्): अल्पे इति परिमाणे कन्प्रत्ययः।