53084: शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात्

Padacheda: शेवल-सुपरि-विशाल-वरुण-अर्यमा-आदीनाम् | S | 6 | 3 |

तृतीयात् | S | 5 | 1 |

Sutrartha

अनुकम्पायाम् गम्यमानायाम् विहिते ठकारादौ अजादौ वा प्रत्यये परे ‘शेवल’, ‘सुपरि’, ‘विशाल’, ‘वरुण’, ‘अर्यमन्’ एते शब्दाः यस्य आदौ सन्ति, तस्य अङ्गस्य तृतीयात् अच्-वर्णात् अनन्तरम् विद्यमानस्य शब्दखण्डस्य लोपः भवति ।

अनुकम्पायाम् (5.3.76) इत्यस्मात् सूत्रात् आरभ्य अजिनान्तस्योत्तरपदलोपश्च (5.3.82) इति सूत्रपर्यन्तम् सर्वेषु सूत्रेषु अनुकम्पायाम् गम्यमानायाम् भिन्नाः प्रत्ययाः उक्ताः सन्ति । यदि एषु कश्चन प्रत्ययः ठकारादिः अजादिः वा अस्ति, तर्हि औत्सर्गिकरूपेण ठाजादावूर्ध्वं द्वितीयादचः (5.3.83) इत्यनेन अङ्गस्य द्वितीयात् अच्-वर्णात् अनन्तरम् विद्यमानस्य शब्दखण्डस्य लोपे प्राप्ते ; ‘शेवल’, ‘सुपरि’, ‘विशाल’, ‘वरुण’, ‘अर्यमन्’ एते शब्दाः यस्य प्रारम्भे विद्यन्ते, तेषाम् विषये अपवादत्वेन अङ्गस्य तृतीयात् अच्-वर्णात् अनन्तरम् विद्यमानस्य शब्दखण्डस्य लोपः भवति । कानिचन उदाहरणानि एतानि - 1. अनुकम्पितः शेवलदत्तः = शेवलदत्त + ठच् / घन् / इलच् [बह्वचो मनुष्यनाम्नष्ठज्वा (5.3.78) इति ठच् । पक्षे घनिलचौ च (5.3.79) इत्यनेन ‘घन्’ तथा ‘इलच्’ एतौ प्रत्ययौ अपि भवतः] → शेवल + ठच् / घन् / इलच् [वर्तमानसूत्रेण तृतीयात् अचः अग्रे विद्यमानस्य शब्दखण्डस्य लोपः] → शेवल + इक / इय / इल [ठस्येकः (7.3.50) इति ठकारस्य ‘इक्’ आदेशः । आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इत्यनेन घकारस्य ‘इय्’ आदेशः] → शेवल् + इक / इय + इल [यस्येति च (6.4.148) इति अकारलोपः] → शेवलिक / शेवलिय / शेवलिल एवमेव - 2. अनुकम्पितः सुपरिदत्तः = सुपरिकः / सुपरियः / सुपरिलः । 3. अनुकम्पितः विशालदत्तः = विशालिकः / विशालियः / विशालिलः । 4. अनुकम्पितः वरुणदत्तः = वरुणिकः / वरुणियः / वरुणिलः । 5. अनुकम्पितः अर्यमादत्तः = अर्यमिकः / अर्यमियः / अर्यमिलः । अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!शेवलादीनां तृतीयादचो लोपः स चाकृतसन्धीनाम् इति वक्तव्यम्!> । इत्युक्ते, यदि अङ्गस्य आदौ विद्यमानानाम् शेवलादीनाम् शब्दानाम् सन्धिकार्यम् कृतम् दृश्यते, तर्हि सन्धिच्छेदं कृत्वा ततः अस्य सूत्रस्य प्रयोगः करणीयः । यथा - अनुकम्पितः शेवलेन्द्रदत्तः = शेवलेन्द्रदत्त + ठच् / घन् / इलच् → शेवल+इन्द्रदत्त + ठच् / घन् / इलच् [सन्धिच्छेदः] → शेवल + ठच् / घन् / इलच् [तृतीयात् अच्-वर्णात् अनन्तरं विद्यमानः ‘इन्द्रदत्त’ इति खण्डः लुप्यते ।] → शेवलिक / शेवलिय / शेवलिल यदि अत्र सन्धिकार्यात् पूर्वमस्य सूत्रस्य प्रयोगः क्रियेत, तर्हि ‘शेवले + ठच् / घन् / इलच्’ इति अवशिष्य ‘शेवलयिक / शेवलयिय / शेवलयिल’ एतानि अनिष्टरूपाणि सिद्ध्येयुः । तत् तथा मा भूत्, अतः अस्य वार्त्तिकस्य निर्माणं कृतमस्ति ।

Vasu English Summary

There is elision of that portion of the word which follows the third vowel in the case of a man-name beginning with 1. शेवल 2. सुपरि 3. विशाल 4. वरुण 5. आर्यमान् when the above affixes ठ or those having initial vowel follow.

Vasu English Translation

There is elision of that portion of the word which follows the third vowel in the case of a man-name beginning with 1. शेवल 2. सुपरि 3. विशाल 4. वरुण 5. आर्यमान् when the above affixes ठ or those having initial vowel follow. This debars the previous sutra. Thus अनुकम्पितः शेवलदत्तः = शेवलिकः, शेवलियः, शेवलिलः, सुपरिकः, सुपरियः, सुपरिलः from सुपरिदत्तः; so also विशालिकः, विशालियः, विशालिलः, वरुणिकः, वरुणियः, वरुनिलः, अर्यमिकः, अर्यमियः, and अर्यमिलः ॥

Vart:- The third vowel must be the original third vowel, and not that which results from Sandhi. Thus in शेवलेन्द्रदत्तः and सुपार्याशीर्दत्तः; though the apparent third vowels are ए and आ, but they being the result of compounding between शेवल + इन्द्र and सुपारि + आशीस्; the original vowels are taken. Thus शेवलिकः from शेवलेन्द्रदतः, and सुपरिकः from सुपार्याशीर्दत्तः; and not शवलेयिकः and सुपयिकः ॥

Bhashya

शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् (2242) (5887 उपंसख्यानवार्तिकम्॥ 4 ॥) - वरुणादीनां च तृतीयात् स चाकृतसंधीनाम् - (भाष्यम्) वरुणादीनां च तृतीयाल्लोप उच्यते, स चाकृतसंधीनां वक्तव्यः। सुपर्याशीर्दत्तः - सुपरिकः, सुपरियः, सुपरिलः॥ (आक्षेपभाष्यम्) इह षडङ्गुलिः षडिक इत्यजादिलोपे कृते पदसंज्ञा न प्राप्नोति। तत्र को दोषः? जश्त्वं न स्यात्॥ (5888 समाधानवार्तिकम्॥ 5 ॥) - षडिके जश्त्वे उक्तम् - (भाष्यम्) किमुक्तम्? सिद्धमचः स्थानिवत्त्वात् इति। यद्येवं, (5889 प्रत्याक्षेपवार्तिकम्॥ 6 ॥) - वाचिकादिषु पदवृत्तप्रतिषेधः - (भाष्यम्) वाचिकादिषु पदवृत्तस्य प्रतिषेधो वक्तव्यः। वागाशीर्दत्तः, वाचिक इति॥ (5890 प्रत्याक्षेपनिरासवार्तिकम्॥ 7 ॥) - सिद्धमेकाक्षरपूर्वपदानामुत्तरपदलोपवचनात् - (भाष्यम्) सिद्धमेतत्। कथम्? एकाक्षरपूर्वपदानामुत्तरपदस्य लोपो वक्तव्यः। वाचिकः॥ (आक्षेपभाष्यम्) इहापि तर्हि प्राप्नोति - षडङ्गुलिः, षडिक इति॥ (5891 समाधानवार्तिकम्॥ 8 ॥) - षषष्ठाजादिवचनात् सिद्धम् - (भाष्यम्) षषष्ठाजादिवचनात्सिद्धमेतत्॥

Kashika

शेवलादीनां मनुष्यनाम्नां ठाजादौ प्रत्यये परतः तृतीयादच ऊर्ध्वस्य लोपो भवति। पूर्वस्यायमपवादः। अनुकम्पितः शेवलदत्तः शेवलिकः। शेवलियः। शेवलिलः। सुपरिकः। सुपरियः। सुपरिलः। विशालिकः। विशालियः। विशालिलः। वरुणिकः। वरुणियः। वरुणिलः। अर्यमिकः। अर्यमियः। अर्यमिलः॥ शेवलादीनां तृतीयादचो लोपः स चाकृतसन्धीनामिति वक्तव्यम्॥ शेवलेन्द्रदत्तः, सुपर्याशीर्दत्तः,शेवलिकः, सुपरिक इति यथा स्यात्। शेवलयिकः, सुपर्यिक इति मा भूत्॥

Siddhanta Kaumudi

एषां मनुष्यनाम्नां ठाजादौ परे तृतीयादच ऊर्ध्वं लोपः स्यात् । पूर्वस्यापवादः । अनुकम्पितः शेवलदत्तः शेवलिकः । शेवलियः । सेवलिलः । सुपरिकः । विशालिकः । वरुणिकः । अर्यमिकः ॥

Balamanorama

शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् - शेवल । एषामिति । शेवल, सुपरि, विशाल, वरुण, अर्यमन्-एतत्पूर्वपदकानामित्यर्थः । पूर्वस्येति । ‘ठाजादौ’ इत्यस्येत्यर्थः । शेवलिक इति । शेवलदत्त शब्दाट्ठचि तृतीयादचः परस्य दत्तशब्दस्य लोपः । शेवलिल इति । इलचि रूपम् । सुपरिक इति । सुपरिदत्तशब्दाट्ठचि दत्तशब्दलोपः । विशालिक इति । विशालदत्तशब्दाट्ठचि रूपम् । वरुणिक इति । वरुणदत्तात् — वरुणिकः । अर्यमिक इति । अर्यमदत्तात्-अर्यमिकः ।अकृतसन्धीनामेषा॑मिति वार्तिकं भाष्ये स्थितम् । तेन सुपर्याशीर्दत्तः सुपरिक इत्यादि सिध्यति ।

Tattvabodhini

शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् - शेवलसुपरि । शेवलिक इति ।बह्वचो मनुष्यनाम्नः॑इति ठच् । घनिलचोस्तु — — शेवलियः । शेवलिलः ।शेवलादीनां तृतीयाल्लोपो य उच्यते स चाऽकृतसन्धीनां वक्तव्यः । सुपर्याशीः । सुपरिकः । सुपरियः । सुपरिलः॑ इति भाष्ये स्थितम्, कैयटेन तुसुपरिकत॑इति प्रतीकमुपादायसंहिताकार्ये तु कृते लोपे सतिसपर्यिक॑इति स्यादिति व्याख्यातम् । अयं भावः -संहिताकार्ये यणि कृते तृतीयादच ऊध्र्वं लोपे सतिशीर्दत्त॑इत्यस्यैव लोपः स्यात्, आकारस्य तुयस्येति चे॑त्यनेन स्यात्, तथाच स्थानिवद्भावाद्यणो निवृत्तिर्न भविष्यतीति ।

Padamanjari

शेवलादीनामित्यादि। योऽयं शेवलादीनां तृतीयादच ऊर्ध्वस्य लोप उच्यते, सोऽकृतसन्धीनामेव वक्तव्यः। सन्धीयतेऽनेनेति संहिताकार्यमुच्यते ॥

Nyaas

स चाकृतसन्धीनाम् इति। यद्यस्वरसन्धौ लोपो भवत्येवं सिध्यति, नान्यथा। तस्मादकृतस्वरसन्धीनामेव शेवलादीनां लोपो भवतीति वक्तव्यम्॥

Prakriyasarvasvam

एतत्पूर्वकाणां शब्दानां ठाजादौ परे तृतीयादच ऊर्ध्वं लोपः स्यात् । अनुकम्पितः शेवलदत्तः शेवलिकः । तथा सुपरिदत्तः सुपरिकः । विशालदत्तो विशालिकः । वरुणदत्तो वरुणिकः । अर्यमदत्तोऽर्यमिकः । ‘एष्वकृतसन्धेलोपो वाच्यः’ (वा०) । शेवलेन्द्रदत्तादौ शेवलयिक इत्येकारस्थितिर्मा भूत् । ‘ब्वृाच- च्चतुर्थादच ऊर्ध्वं लोपो वाच्यः’ (वा०) । बृहस्पतिदत्तो बृहस्पतिकः । <karika>एकाच्पूर्वपदानां तु तदूर्ध्वं लुप्यते क्वचित् । अनुकम्प्यो हि वागाशीर्दत्तो वाचिक उच्यते ॥ ३५२ ॥</karika>

Vartika

एकाक्षरपूर्वपदानामुत्तरपदस्य लोपो वक्तव्यः ।