53086: ह्रस्वे

Padacheda: ह्रस्वे | S | 7 | 1 |

Sutrartha

‘ह्रस्व’ इत्यस्य विशेष्यरूपेण विहितात् प्रातिपदिकात् स्वार्थे यथाविहितं प्रत्ययः भवति ।

‘ह्रस्व’ (यत् दीर्घः नास्ति तत्, short) इत्यस्य विशेष्यरूपेण विहितं यत् प्रातिपदिकम्, तस्मात् वर्तमानसूत्रेण स्वार्थे ‘क’ प्रत्ययः उत तस्य अपवादः विधीयते । यथा - 1. ह्रस्वः वृक्षः इत्येव = वृक्ष + क → वृक्षकः । 2. ह्रस्वः स्तम्भः (stem of a tree) इत्येव = स्तम्भ + क → स्तम्भकः । 3. ह्रस्वः प्लक्षः (= किञ्चन फलम्) इत्येव = प्लक्ष + क → प्लक्षकः । विशेषः - अस्मिन् प्रकरणे प्रायः सर्वेषु सूत्रेषु ‘तिङः’ इति अनुवृत्तिः स्वीकृता अस्ति । परन्तु अत्र अस्याः किमपि प्रयोजनम् न, अतः अत्र इयमनुवृत्तिः न स्वीक्रियते । ज्ञातव्यम् - पूर्वसूत्रे अल्पे (5.3.85) इत्यत्र ‘अल्प’ इत्यस्य विशेषणरूपेण विहितात् प्रातिपदिकात् प्रत्ययविधानं कृतमस्ति । अस्मिन् सूत्रे ‘ह्रस्व’ इत्यस्मिन् सन्दर्भे प्रत्ययविधानं कृतमस्ति । ‘अल्प’ तथा ‘ह्रस्व’ एतयोर्मध्ये सूक्ष्मः भेदः विद्यते । ‘अल्प’ इत्यनेन प्रमाणस्य मापनं क्रियते, तथा च ‘ह्रस्व’ इत्यनेन आयामस्य- (अ) अल्प = little quantity ; यथा - अल्पम् तैलम् । (आ) ह्रस्व = short in length or size ; यथा - अल्पः पटः । इत्युक्ते, भाषायाम् ‘अल्प’ तथा ‘ह्रस्व’ शब्दाः भिन्नेषु अर्थेषु प्रयुक्ताः दृश्यन्ते । यत्र ‘अल्प’ इति शब्दः साधु अस्ति तत्र ‘ह्रस्व’ इत्यपि शब्दः साधु एव स्यात् इति नैव आवश्यकम् । अतएव द्वयोः अपि शब्दयोः भिन्नरूपेण ग्रहणम् क्रियते ।

Vasu English Summary

The above-mentioned affixes क – प्रागिवात्कः (5.3.70), come in expressing shortness of length or diminutive.

Vasu English Translation

The above-mentioned affixes क – प्रागिवात्कः (5.3.70), come in expressing shortness of length or diminutive. The हृस्व here is opposed to दीर्घ or ‘long’. Thus हृस्वोवृक्षः-वृक्षकः ‘a small tree’. प्लक्षकः, स्तम्भकः ॥

Bhashya

ह्रस्वे (2244) (कनोऽधिकरणम्) (आक्षेपभाष्यम्) किमर्थमिमावुभावर्थौ निर्दिश्येते, न यदल्पं ह्रस्वमपि तद्भवति, यच्च ह्रस्वमल्पमपि तद्भवति? (समाधानभाष्यम्) नैतयोरावश्यकः समावेशः। अल्पं घृतम्, अल्पं तैलमित्युच्यते। न कश्चिदाह - ह्रस्वं वृतम्, ह्रस्वं तैलमिति। तथा ह्रस्वः पटः, ह्रस्वः शाटक उच्यते, न कश्चिदाह - अल्पः पटः, अल्पः शाटक इति॥

Kashika

ह्रस्वत्वविशिष्टेऽर्थे वर्तमानात् प्रातिपदिकाद् यथाविहितं प्रत्ययो भवति। दीर्घप्रतियोगी ह्रस्वः। ह्रस्वो वृक्षो वृक्षकः। प्लक्षकः। स्तम्भकः॥

Siddhanta Kaumudi

ह्रस्वो वृक्षो वृक्षकः ॥

Padamanjari

यद्यपि वंशादिष्वल्पत्वह्रस्वत्वयोः समावेशो दृष्टः, तथापि घृतादिषु द्रवद्रव्येषु न कश्चिदाह - ह्रस्वं घृतम्, ह्रस्वं तैलमिति; तथा विस्तीर्णेष्वायामहीनेषु ह्रस्वः पट हत्युच्यते, न कश्चिदाह - अल्पः पट इति; तस्मादुभयनिर्देशः - ठल्पेऽ,’ह्रस्वे’ इति ॥

Nyaas

दीर्घप्रतियोगी ह्रस्वः इति। स पुनर्यमपेक्ष्य दीर्घो भवति स वेदितव्यः। ननु च दीर्घत्वापचये सति ह्रस्वो भवति; यत्र दीर्घत्वापचयस्तत्राल्पतास्तीति पूर्वेणैव सिद्धम्? न सिध्यति; न ह्रयं नियोगः - यत्र दीर्घस्यापचयस्तत्राल्पत्वेन भवितव्यमिति, तथा हि - सत्यप्यपचये महत्त्वगुणयुक्तं यद्वस्तु तदमहदेव भवति, न चाल्पम्॥

Prakriyasarvasvam

ह्रस्वो वृक्षो वृक्षकः ॥