53085: अल्पे ============ **Padacheda:** अल्पे | S | 7 | 1 | Sutrartha --------- **'अल्प' इत्यस्य विशेष्यरूपेण विहितात् प्रातिपदिकात् तिङन्तात् च स्वार्थे यथाविहितं प्रत्ययः भवति ।** 'अल्प' (लघु / little quantity) इत्यस्य विशेष्यरूपेण विहितं यत् प्रातिपदिकम्, तस्मात् वर्तमानसूत्रेण स्वार्थे औत्सर्गिकः क-प्रत्ययः उत तस्य अपवादः विधीयते । यथा - 1. अल्पम् तैलम् इत्येव = तैल + क → तैलकम् । A little oil इत्याशयः । 2. अल्पम् क्षीरम् इत्येव = क्षीर + क → क्षीरकम् । 3. अल्पम् घृतम् इत्येव = घृत + क → घृतकम् । अव्ययानाम्, सर्वनामशब्दानाम्, तथा च तिङन्तानाम् विषये अपि अस्य सूत्रस्य प्रसक्तिः विद्यते, परन्तु एतेभ्यः परस्य क-प्रत्ययस्य अपवादरूपेण **अव्ययसर्वनाम्नामकच् प्राक् टेः** (5.3.71) इति अकच्-प्रत्ययः विधीयते, सः च अङ्गस्य टि-संज्ञकात् पूर्वमागच्छति । उदाहरणानि एतानि - 1. अल्पमुच्चैः (a little above) = उच्चैस् + अकच् → उच्चकैः । 2. अल्पम् सर्वम् (a little of everything) = सर्वम् + अकच् → सर्वकम् । 'सर्व' शब्दस्य विषये 'अकच्' प्रत्ययः सुबन्तात् अनन्तरम् विधीयते इति **अव्ययसर्वनाम्नामकच् प्राक् टेः** (5.3.71) इत्यत्र स्पष्टीकृतमस्ति । 3. अल्पम् पचति (Cooks a little quantity) = पचति + अकच् → पचतकि । 'देवदत्तः पचतकि' एतादृशमस्य प्रयोगः भवति । Vasu English Summary -------------------- The above-mentioned affix क -- प्रागिवात्कः (5.3.70), and the rest come in expressing the small quantity or small number of anything. Vasu English Translation ------------------------ The above-mentioned affix क -- प्रागिवात्कः (5.3.70), and the rest come in expressing the small quantity or small number of anything. Thus अल्पं तैलं = तैलकं 'a little oil'. सर्वकम्, घृतकम्, विश्वकम्, उच्चकैः, नीचकैः 'a somewhat high, a somewhat low &c'. पचतकि 'he cooks a little'. जल्पतकि 'he speaks somewhat'. Bhashya ------- अल्पे (2243) Kashika ------- परिमाणापचयेऽल्पशब्दः। प्रकृतिविशेषणं चैतत्। अल्पत्वविशिष्टेऽर्थे वर्तमानात् प्रातिपदिकाद् यथाविहितं प्रत्ययो भवति। अल्पं तैलं तैलकम्। घृतकम्। सर्वकम्। विश्वकम्। उच्चकैः। नीचकैः। पचतकि। जल्पतकि॥ Siddhanta Kaumudi ----------------- अल्पं तैलं तैलकम् ॥ Balamanorama ------------ **अल्पे** - अल्पे । अल्पत्वविशिष्टे वर्तमानाद्यथाविहितं प्रत्ययाः स्युः । तैलकमिति । 'सर्वकम्' 'उच्चकैः'पचतकी॑त्याद्यप्युदाहार्यम् । Prakriyasarvasvam ----------------- अल्पार्थे काकचौ स्तः । घृतकं, वददतकि । Sutra Prayogas -------------- * **वृक्षकान्** (कुमारसम्भवम्): `अल्पे` इति अल्पार्थे कप्रत्ययः। * **शरीरकैः** (शिशुपालवधम्): `अल्पे` इति परिमाणे कन्प्रत्ययः।