53076: अनुकम्पायाम्¶
Padacheda: अनुकम्पायाम् | S | 7 | 1 |
Sutrartha¶
अनुकम्पायाम् गम्यमानायाम् प्रातिपदिकात् तिङन्तात् च स्वार्थे क-प्रत्ययः उत तस्य अपवादः विधीयते ।
‘अनुकम्पा’ इत्युक्ते कारूण्यम् (compassion / sympathy) । यत्र अनुकम्पा दृश्यते, तत्र ‘अनुकम्पायाः यत् कर्म, तस्मात् प्रातिपदिकात्, तथा च अनुकम्पाविहिता या क्रिया, तस्मात् तिङन्तात् स्वार्थे यथाविहितं प्रत्ययः भवति । यथा - [अ] प्रातिपदिकेभ्यः प्रत्यविधानम् 1. अनुकम्पितः पुत्रः (A sympathized son) । अत्र अनुकम्पायाः कर्म (object of compassion) पुत्रः अस्ति, अतः अस्मिन् सन्दर्भे ‘पुत्र’शब्दात् औत्सर्गिकः ‘क’ प्रत्ययः भवति । अनुकम्पितः पुत्रः पुत्रकः । एवमेव - 2. अनुकम्पितः बुभुक्षितः = बुभुक्षितकः । 3. अनुकम्पितः वत्सः = वत्सकः । 4. अनुकम्पितः दुर्बलः = दुर्बलकः । [आ] तिङन्तेभ्यः प्रत्ययविधानम् - यत्र क्रिया अनुकम्पासहिता विद्यते, तत्र तिङन्तात् वर्तमानसूत्रेण प्रत्ययविधानम् भवितुमर्हति । तिङन्तेभ्यः क-प्रत्ययस्य अपवादरूपेण अव्ययसर्वनाम्नामकच् प्राक् टेः (5.3.71) इत्यनेन अकच्-प्रत्ययः भवतीति स्मर्तव्यम् । यथा - 1. अनुकम्पितम् विश्वसिति = विश्वसित् + अकच् + इ → विश्वसितकि । The act of belief involves compassion - इत्याशयः । 2. अनुकम्पितम् स्वपिति = स्वपितकि । The act of sleeping involves compassion - इत्याशयः । उभयत्र क्रियायाः अनुकम्पा निर्दिश्यते । स्मर्तव्यम् - तिङन्तेभ्यः अकच्-प्रत्ययेन निर्मिताः शब्दाः क्रियापदरूपेणैव प्रयुज्यन्ते ।
Vasu English Summary¶
The above affixes come when compassion is denoted.
Vasu English Translation¶
The above affixes come when compassion is denoted. The word अनुकम्पा means ‘compassion, pity, endearment’. Thus पुत्रकः ‘the little child’, ‘poor child’. वत्सकः, दुर्बलकः, बुभुक्षिकः, विश्वसितकि ‘fie ! he trusts’. स्वपितकि ‘alas ! he sleeps’. The two latter are examples of finite verbs taking this affix.
Kashika¶
कारुण्येनाभ्युपपत्तिः परस्यानुकम्पा। तस्यां गम्यमानायां सुबन्तात् तिङन्तात् च यथाविहितं प्रत्ययो भवति। पुत्रकः। वत्सकः। दुर्बलकः। बुभुक्षितकः। स्वपितकि। श्वसितकि॥
Siddhanta Kaumudi¶
पुत्रकः । अनुकम्पितः पुत्र इत्यर्थः ॥
Balamanorama¶
अनुकम्पायाम् - अनुकम्पायाम् । अनुकम्पायुक्तार्थाभिधायिनः स्वार्थे कः स्यादित्यर्थः । अनुकम्पा=दया ।
Tattvabodhini¶
अनुकम्पायाम् - अनुकम्पायाम् ।कृपा दयाऽनुकम्पा स्या॑दित्यमरः ।
Padamanjari¶
कारुण्येनेति। करुणैव कारुण्यम्। अभ्युपपतिरिति। अनुग्रहः, उपकार इति यावत्। परस्योति कर्मणि षष्ठी। तस्यां गम्यमानायामिति। अनेनग्रयोक्तृधर्मोऽनुकम्पा आवाधवद्, न तु प्रशंसादिवत्प्रकृत्यर्थविशेषणमिति दर्शयति। अन्ये तु प्रकृत्यर्थविशेषणमेव मन्यन्ते, तथा चाजिनान्तस्येत्यादिषु विग्रह दर्शयिप्यन्ति - ठनुकम्पितो व्याव्राजिनः, अनुकम्पितो बृहस्पतिदतः, अनुकम्पितः शेवलदतःऽ इति, न च प्रयोक्तृधर्मस्य विग्रहे दर्शनमस्ति। स्वपितकि, श्वसितकीति। अदादित्वाच्छपो लुक्, रुदादिभ्यः सार्वधातुकेऽ इतीट् ॥
Nyaas¶
कारुण्णेन इत्यादि। अभ्युपपत्तिरनुग्रह एव। स्वपितकि, आसितकि इति। रुदादिभ्यः सार्वधातुके (7.2.76) इट्, अदादित्वाच्छपो लुक्॥
Prakriyasarvasvam¶
इहानुकम्पितः पुत्रः पुत्रको, मन्दमेतकि ।
Sutra Prayogas¶
विपन्न-कैः (भट्टिकाव्यम्): अनुकम्पायां कन् इति निमग्नैः परिभूतैः ।