53077: नीतौ च तद्युक्तात्¶
Padacheda: नीतौ | S | 7 | 1 |
च | S | 0 | 0 |
तद्युक्तात् | S | 5 | 1 |
Sutrartha¶
सामदानदण्डभेदरूपायाम् नीतौ गम्यमानायाम् अनुकम्पा यदा प्रदर्श्यते, तदा अनुकम्पायाः साधनात् स्वार्थे यथाविहितम् प्रत्ययः भवति ।
‘अनुकम्पा’ इत्युक्ते कारूण्यम् (compassion / sympathy) । यत्र व्यवहारे कश्चन मनुष्यः कञ्चन अन्यम् मनुष्यम् प्रति सामोपचारेण (by gentle means) अथवा दानेन (by monitory means ) अनुकम्पां प्रदर्शयति, तत्र अनुकम्पायाः यत् साधनम्, (इत्युक्ते सामोपचारस्य विषयः उत दानस्य वस्तु) तस्मात् शब्दात् (= प्रातिपदिकात् / तिङन्तात्) स्वार्थे यथाविहितम् प्रत्ययः भवति । कानिचन उदाहरणानि पश्यामः - 1. कश्चन देवदत्तः यज्ञदत्तमनुकम्पया ‘एहि’ (come here ) इति वदति - इति चिन्तयामः । अत्र अनुकम्पार्थम् प्रयुक्तम् साधनमस्ति ‘एहि’ इति तिङन्तम् । अस्मात् तिङन्तात् वर्तमानसूत्रेण यथाविहितं प्रत्ययविधानम् भवति । अत्र अव्ययसर्वनाम्नामकच् प्राक् टेः (5.3.71) इत्यनेन अकच्-प्रत्ययः विधीयते, अतः ‘एहि + अकच् → एह् + अकच् + इ → एहकि’ इति रूपम् सिद्ध्यति । अयम् शब्दः अपि क्रियापदवत् एव प्रयुज्यते । यथा - ‘एहकि यज्ञदत्त’ इति । अनुकम्पया सामोपचारस्य साहाय्येन ‘एहि’ इत्यस्य विधानम् एव ‘एहकि’ इत्यनेन निर्दिश्यते । एवमेव अनुकम्पया ‘अद्धि’ (eat) इति वक्तव्यमस्ति चेत् ‘अद्धि + अकच् → अद्ध् + अकच् + इ → अद्धकि’ इति प्रयोगः भवितुमर्हति । 2. कश्चन देवदत्तः यज्ञदत्तमनुकम्पया तिलान् ददाति - इति चिन्तयामः । अत्र ‘तिलानाम्’ प्रयोगः अनुकम्पायाः साधनरूपेण कृतः अस्ति, अतः अत्र ‘तिल’ शब्दात् प्रागित्वात् कः (5.3.70) इत्यनेन क-प्रत्ययं कृत्वा ‘तिलक’ इति शब्दः सिद्ध्यति । अनुकम्पायाः साधनरूपेण दत्ताः तिलाः तिलकाः - इति अत्र आशयः । एवमेव, अनुकम्पया दानरूपेण दीयमानाः धानाः (grains) ‘धानकाः’ नाम्ना अपि ज्ञायन्ते । धाना + कन् → धानक (केऽणः (7.4.13) इति ह्रस्वादेशं कृत्वा रूपं सिद्ध्यति)। ज्ञातव्यम् - 1. अन्यजनस्य प्रति व्यवहारस्य विषये शास्त्रे चत्वारः मार्गाः उक्ताः सन्ति - ‘साम’ (by talking gently), दान (by giving something), दण्ड ( by using physical force), तथा भेद (by using inappropriate measures) । एतेषु ‘साम’ तथा ‘दान’ एतौ द्वौ ‘अनुकम्पापूर्णमार्गौ स्तः’ इति मन्यते । वर्तमानसूत्रे ‘अनुकम्पा’ इति निर्देशः कृतः अस्ति, अतः वर्तमानसूत्रेण एतयोः द्वयोः एव ग्रहणम् भवति, न हि दण्डभेदयोः । 2. वस्तुतः अनुकम्पायाम् (5.3.76) इत्यनेन पूर्वसूत्रेण अपि ‘अनुकम्पा’ अस्मिन्नेव अर्थे प्रत्ययः विधीयते । परन्तु द्वयोः सूत्रयोः मध्ये भेदः अस्ति । अनुकम्पायाम् (5.3.76) इत्यनेन अनुकम्पायाः कर्मपदात् प्रत्ययः विधीयते । परन्तु वर्तमानसूत्रेण अनुकम्पार्थम् प्रयुक्तम् यत् साधनम्, तस्मात् प्रत्ययविधानम् भवति । यथा, ‘पिता अनुकम्पया पुत्राय धानम् (grains) ददाति’ (The father offers the grains to the son due to sympathy) इति चिन्तयामः । अत्र पितुः अनुकम्पायाः कर्म पुत्रः अस्ति, तथा च साधनम् ‘धानम्’ इति अस्ति । (The object of compassion is the son where as the instrument of compassion are the grains). अस्यां स्थितौ - [अ] अनुकम्पायाम् (5.3.76) इत्यनेन पुत्रस्य निर्देशः’पुत्रकः’ इति भवति । पित्रा अनुकम्पितः यः पुत्रः, सः पुत्रकः - इति अत्र आशयः । [आ] नीतौ च तद्युक्तात् (5.3.77) इत्यनेन धानस्य निर्देशः ‘धानकः’ इति भवति । अनुकम्पार्थम् नीतौ प्रयुक्ताः याः धानाः, ते धानकाः’ - इति अत्र आशयः ।
Vasu English Summary¶
Also as an expression of courteousness, the above mentioned affix is added to that by which compassion is shown.
Vasu English Translation¶
Also as an expression of courteousness, the above mentioned affix is added to that by which compassion is shown. The word नीति means ‘policy’ or ‘expedient’, such as ‘conciliation’, ‘dissension’ and ‘punishment’. तद्युक्तात् means ‘joined with that, i.e. with gift compassion’. In other words, the things signified by the bases, are connected as means of relief with the persons or things that have been objects of compassion. Thus, हन्त ते धानकाः ‘alas! here are barley for you’. हन्त ते तिलकाः ‘alas! here are sesamun for you’. एहकि, अद्धकि ‘O dear! come and eat’. (These words are supposed to be addressed to a person who is starving, by one who wants to relieve him. Iyengar). Being moved with compassion, he entreats coursteously the object of sympathy, with gifts to relieve his want. In the last Sutra, the affix was added, in the sense of compassion, to the name of the person or action that evoked pity. In the present sutra, the affix is added to the object or action by which pity is shown. The word एहकि is from एहि the Imperative second person Singular of इ ‘to go’ with the upasarga आ ॥
Kashika¶
सामदानादिरुपायो नीतिः। नीतौ च गम्यमानायां तद्युक्तादनुकम्पायुक्ताद् यथाविहितं प्रत्ययो भवति। हन्त ते धानकाः। हन्त ते तिलकाः। एहकि। अद्धकि। अनुकम्पमानो दानेनाराधयति। पूर्वेण प्रत्यासन्नानुकम्पासंबन्धादनुकम्प्यमानादेव प्रत्ययो विहितः। सम्प्रति व्यवहितादपि यथा स्यादिति वचनम्॥
Siddhanta Kaumudi¶
सामदानादिरुपायो नीतिस्तस्यां गम्यमानायामनुकम्पायुक्तात्कप्रत्ययः स्यात् । हन्त ते धानकाः । गुडकाः । एहकि । अद्धकि । पूर्वेणानुकम्प्यमानात्प्रत्ययः । अनेन तु परम्परासंबन्धेऽपीति विशेषः ॥
Balamanorama¶
नीतौ च तद्युक्तात् - नीतौ च तद्युक्तात् । सामदानादीति । आदिना भेददण्डयोग्र्रहणम् । तद्युक्तादित्येतद्व्याचष्टे — अनुकम्पायुक्तादिति । अव्ययसर्वनाम्नां टेः प्रागिति चानुवर्तते, ‘कस्य च दः’ इति च । हन्त ते धानका इति । ‘दास्यन्ते’ इति शेषः ।हन्ते॑त्यव्ययमनुकम्पाद्योतकम् ।हन्त हर्षेऽनुकम्पाया॑मित्यमरः ।हन्ते॑त्यदन्तम् ।हे पुत्रे॑ति शेषः । अनुकम्पायुक्ता धाना इत्यर्थः । धानाशब्दात्कप्रत्यये ‘केऽणः’ इति ह्रस्वे कान्ताट्ठापिअबाषितपुंस्काच्चे॑ति विकल्पात्पक्षे इत्त्वाऽभावः । एहकीति ।एही॑ति तिङन्तस्य टेः प्रागकच् ।अव्ययसर्वनाम्ना॑मित्यत्र तिङस्चेत्यनुवृत्तेरिति भावः । अद्धकीति ।अद्धी॑ति तिङन्तस्य टेः प्रागकच् । पूर्वेणेति । अनुकम्पायास्तद्विषयत्वादिति भावः । परम्परासम्बन्धे ।ञपीति । पुत्रः साक्षादनुकम्प्यः, तद्द्वारा धाना अनुकम्पायुक्ता इति भावः ।
Tattvabodhini¶
नीतौ च तद्युक्तात् - नीतौ च तद्युक्तात् । अनुकम्पायुक्तादिति । यद्यपि पुत्रादिरेव साक्षादमुकम्पायुक्तो न तु धानादिस्तथापि तद्द्वारा धानादीनामप्यस्त्यनुकम्पासंबन्ध इति भावः । धानका इति ।धाना॑शब्दः स्त्रीलिङ्गः । ततः कः ।केऽणः॑इति ह्रस्वः । कप्रत्ययान्ताट्टाप् । अत्रप्रत्ययस्था॑दितीत्त्वेन भाव्यम् । प्रायेण तुधानका॑इति पटते । तत्र लिङ्गातिवृत्तिद्र्रष्टव्येति हरदत्तः ।कर्मव्यतिहारे णच्स्त्रिया॑मिति सिद्धेणचः स्त्रियामञि॑ति सूत्रे पुनः स्त्रीग्रहणेन ज्ञापितंस्वार्थिकाः प्रकृतिलिङ्गं क्विचदतिवर्तन्ते॑इति । तेनधानका॑इत्यत्र पुंस्त्वमिति भावः ।
Padamanjari¶
सामदानादिरिति। आदिशब्देन भेददण्डयोर्ग्रहणम्, यद्यनुकम्पायां तौ सम्भवतः। असम्भवेऽपि नीतिस्वरूपप्रदर्शनपरं द्रष्टव्यम्। एहकीति। आङ्पूर्वादिणो लोट्, सिपो हिः पूर्वेणेत्यादि। अनुकम्पायां हि विधीयमानः प्रत्ययः प्रत्यासतेरनुकम्प्यमानादेव युक्तो विधातुम्, तस्य हि अनुकम्पासम्बन्धः प्रतयासन्नस्तद्विषयत्वादनुकम्पायाः। तेन व्यवहितान्नीत्युपायाद्धानादेर्न स्याद्; अतद्विषयत्वादनुकम्पायाः। तेन व्यवहितान्नीत्युपायाद्धातादेर्न स्याद्; अतद्विषयत्वादनुकम्पायाः। धानाशब्दः स्त्रीलिङ्गः, ततः के विहते’के’ णःऽ इति ह्रस्वत्वे च स्वाथिकानां प्रकृतिवल्लिङ्गं भवतीति कप्रत्ययान्तादापि कृते’प्रत्ययस्थात्’ इतीत्वेन भवितव्यम्। प्रायेण तु हन्त ते धानका पठ।ल्ते, तत्र लिङ्गातिवृत्तिर्द्रष्टव्या ॥
Nyaas¶
सामदानादिरूपायो नीतिः इति। आदिशब्देन भेददण्डयोग्र्रहणम्; तौत्वनुकम्पायां न सम्भवत इति सामदानादिरेकैव नीतिर्गुह्रते, एहकि इति। इण आङपूर्वाल्लोण्मध्यमपुरुषैकवचनस्य सेह्र्रपिच्च (3.4.87) इति हिरादेशः। ननु पूर्वेणैवात्रापि प्रत्ययः सिद्धः, अत्रापयनुकम्पा गम्यत एव, तत किमर्थम्? इत्याह - पूर्वेणैव इत्यादि। प्रत्यासन्नोऽनुकम्पासम्बन्धो यस्यानुकम्पयमानस्य स तथोक्तः। प्रत्यासन्नत्वं तु सम्बन्धसर्यानुकम्प्यानंप्रति; तदाश्रयत्वादनुकम्पायां विधीयमानः प्रत्यासत्तेर्यस्यानुकम्पया प्रत्यासन्नः सम्बन्धस्ततः एव युक्तो विधातुमिति पूर्वेमानुकम्प्यमानादेव प्रत्यो विहितः, न तु व्यवहितात्? पुनर्घानादेः। अतः सम्प्रति ततोऽपि यथा स्यादित्येवमर्थमिदम्। व्यवहितात् इति। विप्रकृष्टादित्यर्थः। विप्रृष्टत्वमतदाश्रयत्वादनुकम्पायाः। न हि तस्यां धानादिराश्रयः, किं तर्हि? अनुकम्प्यमानो देवदत्तादिः॥