53076: अनुकम्पायाम् =================== **Padacheda:** अनुकम्पायाम् | S | 7 | 1 | Sutrartha --------- **अनुकम्पायाम् गम्यमानायाम् प्रातिपदिकात् तिङन्तात् च स्वार्थे क-प्रत्ययः उत तस्य अपवादः विधीयते ।** 'अनुकम्पा' इत्युक्ते कारूण्यम् (compassion / sympathy) । यत्र अनुकम्पा दृश्यते, तत्र 'अनुकम्पायाः यत् कर्म, तस्मात् प्रातिपदिकात्, तथा च अनुकम्पाविहिता या क्रिया, तस्मात् तिङन्तात् स्वार्थे यथाविहितं प्रत्ययः भवति । यथा - [अ] प्रातिपदिकेभ्यः प्रत्यविधानम् 1. अनुकम्पितः पुत्रः (A sympathized son) । अत्र अनुकम्पायाः कर्म (object of compassion) पुत्रः अस्ति, अतः अस्मिन् सन्दर्भे 'पुत्र'शब्दात् औत्सर्गिकः 'क' प्रत्ययः भवति । अनुकम्पितः पुत्रः पुत्रकः । एवमेव - 2. अनुकम्पितः बुभुक्षितः = बुभुक्षितकः । 3. अनुकम्पितः वत्सः = वत्सकः । 4. अनुकम्पितः दुर्बलः = दुर्बलकः । [आ] तिङन्तेभ्यः प्रत्ययविधानम् - यत्र क्रिया अनुकम्पासहिता विद्यते, तत्र तिङन्तात् वर्तमानसूत्रेण प्रत्ययविधानम् भवितुमर्हति । तिङन्तेभ्यः क-प्रत्ययस्य अपवादरूपेण **अव्ययसर्वनाम्नामकच् प्राक् टेः** (5.3.71) इत्यनेन अकच्-प्रत्ययः भवतीति स्मर्तव्यम् । यथा - 1. अनुकम्पितम् विश्वसिति = विश्वसित् + अकच् + इ → विश्वसितकि । The act of belief involves compassion - इत्याशयः । 2. अनुकम्पितम् स्वपिति = स्वपितकि । The act of sleeping involves compassion - इत्याशयः । उभयत्र क्रियायाः अनुकम्पा निर्दिश्यते । स्मर्तव्यम् - तिङन्तेभ्यः अकच्-प्रत्ययेन निर्मिताः शब्दाः क्रियापदरूपेणैव प्रयुज्यन्ते । Vasu English Summary -------------------- The above affixes come when compassion is denoted. Vasu English Translation ------------------------ The above affixes come when compassion is denoted. The word अनुकम्पा means 'compassion, pity, endearment'. Thus पुत्रकः 'the little child', 'poor child'. वत्सकः, दुर्बलकः, बुभुक्षिकः, विश्वसितकि 'fie ! he trusts'. स्वपितकि 'alas ! he sleeps'. The two latter are examples of finite verbs taking this affix. Kashika ------- कारुण्येनाभ्युपपत्तिः परस्यानुकम्पा। तस्यां गम्यमानायां सुबन्तात् तिङन्तात् च यथाविहितं प्रत्ययो भवति। पुत्रकः। वत्सकः। दुर्बलकः। बुभुक्षितकः। स्वपितकि। श्वसितकि॥ Siddhanta Kaumudi ----------------- पुत्रकः । अनुकम्पितः पुत्र इत्यर्थः ॥ Balamanorama ------------ **अनुकम्पायाम्** - अनुकम्पायाम् । अनुकम्पायुक्तार्थाभिधायिनः स्वार्थे कः स्यादित्यर्थः । अनुकम्पा=दया । Tattvabodhini ------------- **अनुकम्पायाम्** - अनुकम्पायाम् ।कृपा दयाऽनुकम्पा स्या॑दित्यमरः । Padamanjari ----------- कारुण्येनेति। करुणैव कारुण्यम्। अभ्युपपतिरिति। अनुग्रहः, उपकार इति यावत्। परस्योति कर्मणि षष्ठी। तस्यां गम्यमानायामिति। अनेनग्रयोक्तृधर्मोऽनुकम्पा आवाधवद्, न तु प्रशंसादिवत्प्रकृत्यर्थविशेषणमिति दर्शयति। अन्ये तु प्रकृत्यर्थविशेषणमेव मन्यन्ते, तथा चाजिनान्तस्येत्यादिषु विग्रह दर्शयिप्यन्ति - ठनुकम्पितो व्याव्राजिनः, अनुकम्पितो बृहस्पतिदतः, अनुकम्पितः शेवलदतःऽ इति, न च प्रयोक्तृधर्मस्य विग्रहे दर्शनमस्ति। स्वपितकि, श्वसितकीति। अदादित्वाच्छपो लुक्, रुदादिभ्यः सार्वधातुकेऽ इतीट् ॥ Nyaas ----- `कारुण्णेन` इत्यादि। अभ्युपपत्तिरनुग्रह एव। `स्वपितकि, आसितकि` इति। **रुदादिभ्यः सार्वधातुके** (7.2.76) इट्, अदादित्वाच्छपो लुक्॥ Prakriyasarvasvam ----------------- इहानुकम्पितः पुत्रः पुत्रको, मन्दमेतकि । Sutra Prayogas -------------- * **विपन्न-कैः** (भट्टिकाव्यम्): `अनुकम्पायां कन्` इति निमग्नैः परिभूतैः ।