53075: संज्ञायां कन्¶
Padacheda: संज्ञायाम् | S | 7 | 1 |
कन् | S | 1 | 1 |
Sutrartha¶
‘कुत्सितः’ इत्यस्य विशेषणरूपेण विहितात् प्रातिपदिकात् संज्ञायाः निर्देशार्थम् कन्-प्रत्ययः भवति ।
सर्वेभ्यः प्रातिपदिकेभ्यः कुत्सिते (5.3.74) इत्यनेन स्वार्थे ‘क’ प्रत्ययः भवति । परन्तु केचन संज्ञावाचकाः शब्दाः केभ्यश्चन प्रातिपदिकेभ्यः ‘कन्’ प्रत्ययं कृत्वा सिद्ध्यन्ति । एतेषाम् साधुत्वज्ञापनार्थमस्य सूत्रस्य निर्माणम् कृतमस्ति । यथा - 1. कुत्सितः (= निन्दितः) शूद्रः = शूद्र + कन् → शूद्रकः । कस्यचन राज्ञः इयम् संज्ञा । 2. कुत्सितः राधः (= inappropriate gift) = राध + कन् → राधकः । 2. कुत्सितः पूर्णः = पूर्णकः । ज्ञातव्यम् - ‘क’ प्रत्ययेन अपि ते एव शब्दाः सिद्ध्यन्ति ते ‘कन्’ प्रत्ययेन सिद्ध्यन्ति । परन्तु द्वयोर्मध्ये स्वरभेदः जायते । यथा, ‘क’प्रत्ययान्तस्य ‘शुद्रक’ शब्दस्य ककारोत्तरः अकारः आद्युदात्तश्च (3.1.3) इत्यनेन उदात्तत्वं प्राप्नोति ।परन्तु ‘कन्’प्रत्ययान्तस्य ‘शूद्रक’शब्दस्य शकारोत्तरः उकारः ञ्नित्यादिर्नित्यम् (6.1.197) इत्यनेन उदात्तसंज्ञां प्राप्नोति । संज्ञारूपेण प्रयुज्यमाने ‘शूद्रक’ शब्दे शकारोत्तरः उकारः उदात्तः अस्ति, न हि ककारोत्तरः अकारः । अतएव अस्य शब्दस्य निर्माणार्थम् भिन्नरूपेण ‘कन्’ प्रत्ययः अस्मिन् सूत्रे उच्यते । एवमेव ‘राधकः’, ‘पूर्णकः’ एतादृशानां शब्दानां विषये अपि ज्ञेयम् ।
Vasu English Summary¶
The affix कन् (क) comes in the above sense of contemptible when the whole word is a Name.
Vasu English Translation¶
The affix कन् (क) comes in the above sense of contemptible when the whole word is a Name. The word कुत्सिते of the last sutra is understood here also. This कन् debars क ॥ शुद्रकः, धारकः, चूर्णकः ॥
Kashika¶
कुत्सित इत्येव। कुत्सितत्वोपाधिकेऽर्थे वर्तमानात् प्रातिपदिकात् कन् प्रत्ययो भवति, कस्यापवादः, प्रत्ययान्तेन चेत् संज्ञा गम्यते। शूद्रकः। धारकः। पूर्णकः ॥
Siddhanta Kaumudi¶
कुत्सिते कन् स्यात्तदन्तेन चेत्संज्ञा गम्यते । शूद्रकः । राधकः । स्वरार्थं वचनम् ॥
Balamanorama¶
संज्ञायां कन् - संज्ञायां कन् । कुत्सिते इत्यनुवर्तते । तदाह — कुत्सित इति । तदन्तेन चेदिति । कुत्साहेतुकसंज्ञाविषये कनिति यावत् ।
Prakriyasarvasvam¶
<karika>संज्ञायां कुत्सिते कन् स्याच्छूद्रकश्चूर्णकादयः । तिसृभावस्त्रिशब्दस्य स्यात् संज्ञायां कनि स्त्रियाम् ॥ ३५० ॥</karika> तिसृकानामको ग्रामो रूढेरर्थोऽत्र मृग्यताम् ।
Sutra Prayogas¶
कृत्रिमपुत्रकैश्च (कुमारसम्भवम्): संज्ञायां कन् इति कन्प्रत्ययः।
गुणनिकैव (शिशुपालवधम्): संज्ञायां कन् इति कन् प्रत्ययः।