53053: भूतपूर्वे चरट् ===================== **Padacheda:** भूतपूर्वे | S | 7 | 1 | चरट् | S | 1 | 1 | Sutrartha --------- **'भूतपूर्व' इत्यस्य विशेष्यरूपेण प्रयुक्तात् प्रातिपदिकात् स्वार्थे चरट्-प्रत्ययः भवति ।** 'भूतपूर्वः' इत्युक्ते 'पूर्वम् भूतः (used to exist before)' । 'भूतपूर्वः' इत्यस्य विशेष्यरूपेण यत् प्रातिपदिकम् प्रयुज्यते, तस्मात् स्वार्थे 'चरट्' प्रत्ययः भवति । 'चरट्' इत्यत्र टकारस्य इत्संज्ञा भवति, अतः प्रयोगे 'चर' इति प्रयुज्यते । यथा - भूतपूर्वः आढ्यः (One who used to be rich earlier) = आढ्य + चरट् → आढ्यचरः । भूतपूर्वः सुकुमारः = सुकुमारचरः । स्त्रीत्वे **टिड्ढाणञ्..** (4.1.15) इत्यनेन ङीप्-प्रत्यये कृते 'आढ्यचरी', 'सुकुमारचरी' एतादृशाः शब्दाः सिद्ध्यन्ति । ज्ञातव्यम् - स्त्रीवाचिनः प्रातिपदिकात् चरट्-प्रत्यये विहिते **तसिलादिष्वाकृत्वसुचः** (6.3.35) इत्यनेन पुंवद्भावः विधीयते । यथा - भूतपूर्वा आढ्या सा = आढ्या + चर → आढ्य + चर [पुंवद्भावः] → आढ्यचर → आढ्यचर + ङीप् [स्त्रीत्वे विवक्षिते **टिड्ढाणञ्..** (4.1.15) इत्यनेन ङीप्-प्रत्ययः] → आढ्यचर् + ई [**यस्येति च** (6.4.148) इति अकारलोपः] → आढ्यचरी विशेषः - 'चरट्' प्रत्ययस्य आदिस्थस्य चकारस्य **चुटू** (1.3.7) इत्यनेन इत्संज्ञा न भवति, यतः अत्र इत्संज्ञायाः किमपि प्रयोजनम् न विद्यते । Vasu English Summary -------------------- The affix चर (with the feminine in ङीप्) comes after a प्रातिपदिक (Nominal Stem), the word retaining its detonation when the meaning is 'this had been before'. Vasu English Translation ------------------------ The affix चर (with the feminine in ङीप्) comes after a प्रातिपदिक (Nominal Stem), the word retaining its detonation when the meaning is 'this had been before'. The word भूतपूर्व is a compound of पूर्व and भूतः the compounding being by सुप्सुपा, and denotes something done in a past time. Thus आढ्यो भतपूर्वः = आढ्यचरः 'once opulent'. सुकुमारचरः ॥ The ट् indicates that the feminine will be in ङीप्; as, आढ्यचरी ॥ The च् is not इत् in चरट् though required by (1.3. 7). This proves that चुटु rule is *anitya*. The *sutra* (5.2.18) might have been read after this, with the saving of the word भूतपूर्वः, but then खञ् would have debarred चरट् which is, however, not intended. Kashika ------- पूर्वं भूत इति विगृह्य सुप्सुपेति समासः। भूतपूर्वशब्दोऽतिक्रान्तकालवचनः। प्रकृतिविशेषणं चैतत्। भूतपूर्वत्वविशिष्टेऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे चरट् प्रत्ययो भवति। आढ्यो भूतपूर्व आढ्यचरः। सुकुमारचरः। टकारो ङीबर्थः। आढ्यचरी॥ Siddhanta Kaumudi ----------------- आढ्यो भूतपूर्वः । आढ्यचरः ॥ Balamanorama ------------ **भूतपूर्वे चरट्** - भूतपूर्वे चरट् । भूतपूर्वे वर्तमानात्प्रातिपदिकात्स्वार्थे चरट् स्यादित्यर्थः । Tattvabodhini ------------- **भूतपूर्वे चरट्** - भूतपूर्वे । अत्र वर्तमानाच्चरट् स्यात् ।गोष्ठात् खञि॑त्यत्रैव नोक्तं, विशेषविहितेन खञा चरटो बाधा मा भूदिति । संनिधौ हि सामान्यविशेषभावः स्फुटीभवति । यद्यपि दूरस्थस्यापि बाधो न्याय्य एव, तथापीह गौरवं स्वीकृत्य दूरे पाठसामर्थ्याद्बाधो नेति भावः । Padamanjari ----------- भूतपूर्वशब्द इत्यादि। केवलभूतशब्दः'पौतन्ये' पि वर्ततेभूतमियं ब्राह्मणीति, सत्येऽपि वर्तते - भूतवादीति, अत्र भूतशब्दो विद्यमानवचनित्यन्ये; पूर्वशब्दश्च दिग्देशयोरपि वर्तते, तस्मादन्यतरोपादाने विवक्षितोऽर्थो न गम्यत इत्युभयोरुपादानम्। आढ।ल्चर इति। यथात्र चकारस्येत्संज्ञा न भवति, तथा'चुटूअ' इत्यत्र प्रतिपादितम्।'गोष्ठात्खञ्' इत्यत्रैव नोक्तम्, विशेषविहितेन खञा चरटो बाधा मा भूदिति। सन्निधौ हि बाध्यबाधकभावः, न कालभेदे ॥ Nyaas ----- किमर्थं पुनरेतौ समानार्थो शब्दावुपदिश्येते, नान्यतर एवोपदिश्येत? नैवं शक्यम्; इह ह्रतिक्रान्तकालविशिष्टेऽर्थे वर्तमानात्? प्रत्यग्रहमिष्यते, स चातिक्रान्तः कालोऽन्यतरोक्तौ नैव गृह्रते। तथा हि - भूतशब्दो वर्तमानेऽप्यर्थे वर्तते, यथा - भूतवानिति, पूर्वशब्दस्तु दिग्देशयोरपि। तस्मादन्यतरोक्तावतिक्रान्तकालो न प्रतीयते। अत एवाऽऽह - `भूतपूर्वशब्दोऽतिक्रान्तकालवचनः` इति। अथ चकारस्य `चुट्` (1.3.7) इतीत्संज्ञा कस्मान्न भवति? अनित्यत्वात्तस्य विधेः। अनित्यत्वं तु तत्रैव प्रतिपादितम्॥ Prakriyasarvasvam ----------------- प्राक् सुन्दरः सुन्दरचरः । टित्वात्सुन्दरचरी । ‘तसिलादिष्वि’ति सुन्दर्याः पुंवत्त्वम् ।।