53049: प्रागेकादशभ्योऽच्छन्दसि ============================== **Padacheda:** प्राक् | S | 0 | 0 | एकादशभ्यः | S | 5 | 3 | अच्छन्दसि | S | 7 | 1 | Sutrartha --------- **'एकादश' इत्यस्मात् पूर्वम् विद्यमानाः ये पूरणप्रत्ययान्तशब्दाः, ते लौकिकसंस्कृते यदि 'भाग' इत्यस्य विशेषणरूपेण प्रयुज्यन्ते, तर्हि तेभ्यः स्वार्थे अन्-प्रत्ययः विधीयते ।** 'एकादश' इति पूरणप्रत्ययान्तशब्दः अस्मिन् सूत्रे निर्दिष्टः अस्ति । एकादशानाम् पूरणम् = एकादशन् + डट् → एकादश । अस्मात् पूर्वम् ये पूरणप्रत्ययान्तशब्दाः विद्यते, ते यदि 'भाग' इत्यस्य विशेषणरूपेण विधीयन्ते, तर्हि तेभ्यः 'अन्' इति प्रत्ययः स्वार्थे विधीयते । यथा - 1. चतुर्थः भागः = चतुर्थ + अन् → चतुर्थ् + अन् [**यस्येति च** (6.4.148) इति अकारलोपः] → चतुर्थ । 2. पञ्चमः भागः = पञ्चम + अन् → पञ्चम । 3. षष्ठः भागः = षष्ठ + अन् → षष्ठ । 4. सप्तमः भागः = सप्तम + अन् → सप्तम । 5. अष्टमः भागः = अष्टम + अन् → अष्टम । 6. नवमः भागः = नवम + अन् → नवम । 7. दशमः भागः = दशम + अन् → दशम । 'एकादश' इत्यस्मात् अग्रे तु अस्य सूत्रस्य प्रयोगः न भवति । ज्ञातव्यम् - 1. वस्तुतः अत्र 'अन्' प्रत्ययस्य प्रयोगेण पुनः 'चतुर्थ', 'पञ्चम' एतादृशाः शब्दाः एव सिद्ध्यन्ति । अत्र प्रत्ययविधानमपि स्वार्थे कृतमस्ति, अतः अत्र 'चतुर्थ' / 'पञ्चम' इत्यस्मिन्नेव अर्थे पुनः 'चतुर्थ' / 'पञ्चम' एतादृशाः शब्दाः सिद्ध्यन्ति अतः अस्य सूत्रस्य प्रयोजनम् किम् - इति प्रश्नः उपतिष्ठते । अस्य स्पष्टीकरणार्थम् काशिकाकारः वदति - 'स्वरार्थम् वचनम्' । इत्युक्ते, पूरणप्रत्ययान्तशब्दाः तथा अन्-प्रत्ययान्तशब्दाः - एतेषु स्वरे अन्तरम् विद्यते । पूरणप्रत्ययान्तशब्देषु प्रत्ययस्य आदिस्वरः **आद्युदात्तश्च** (3.1.3) इत्यनेन उदात्तस्वरम् प्राप्नोति । अन्-प्रत्ययान्तशब्दानाम् विषये तु समुदायस्य प्रथमः स्वरः **ञ्नित्यादिर्नित्यम्** (6.1.197) इत्यनेन उदात्तस्वरम् प्राप्नोति । 2. पूर्वसूत्रात् 'पूरणात्' इत्यस्य अनुवृत्तिः अस्मिन् सूत्रे आवश्यकी अस्ति, यतः 'एकादश' इति सङ्ख्यावाची शब्दः अपि अस्ति, परन्तु तस्य विषये अस्य सूत्रस्य प्रसक्तिः न वर्तते । इत्युक्ते, 'प्राक् एकादशात्' इत्यस्य अर्थः 'प्राक् एकादशात् विद्यमानाः पूरणप्रत्ययान्तशब्दाः' इति अस्ति, न हि 'प्राक् एकादशात् विद्यमानाः सङ्ख्यावाचकशब्दाः' - इति स्पष्टीकरणार्थमत्र 'पूरणात्' इति स्वीकृतमस्ति । 3. एतादृशः स्वरभेदः वेदेषु कृतः न लभ्यते, अतः पाणिनिना अस्मिन् सूत्रे 'अच्छन्दसि' इति निर्दिष्टमस्ति । 4. 'द्वितीय' तथा 'तृतीय' एताभ्याम् शब्दाभ्याम् **पूरणाद्भागे तीयादन्** (5.3.48) इत्यनेन पूर्वसूत्रेण एव 'अन्' प्रत्ययः भवति, अतः तस्य उदाहरणानि अत्र दत्तानि न सन्ति । 5. 'षष्ठ' तथा 'अष्टम' एताभ्याम् शब्दाभ्यामग्रिमसूत्रेण 'ञ' प्रत्ययः अपि विधीयते, येन 'षाष्ठ' तथा 'आष्टम' एते रूपे भवतः । 6. वस्तुतः 'प्रागेकादशेभ्यः' इति उच्यते चेत् तत्र 'द्वितीय' तथा 'तृतीय' एतयोः अपि ग्रहणं भवत्येव । तथापि 'द्वितीय' तथा 'तृतीय' शब्दयोः **पूरणाद्भागे तीयादन्** (5.3.48) इत्यत्र विशिष्टः निर्देशः कृतः अस्ति । अस्य स्पष्टीकरणार्थम् बालमनोरमाकारः वदति - *नचानेनैव सिद्धत्वात्पूर्वसूत्रं किमर्थमिति शङ्क्यं, तस्य छन्दस्यापि प्रवृत्त्यर्थत्वात् * । इत्युक्ते, पूर्वसूत्रेण सिद्धौ 'द्वितीय' तथा 'तृतीय' एतौ अन्-प्रत्ययान्तशब्दौ वेदेषु अपि दृश्यन्ते, अतः तेषाम् निर्देशः भिन्नरूपेण कृतः अस्ति । Vasu English Summary -------------------- After an ordinal numeral up to 11 exclusive, comes the affix अन् , the word retaining its denotation when a 'part' is meant, but not so in the छन्दस् (Vedas). Vasu English Translation ------------------------ After an ordinal numeral up to 11 exclusive, comes the affix अन् , the word retaining its denotation when a 'part' is meant, but not so in the छन्दस् (Vedas). This is for accent also. Thus च꣡तुर्थः, प꣡ञ्चमः, स꣡प्तमः, न꣡वमः, द꣡शमः ॥ Why do we say प्रागेकादशः 'before eleven'? Observe एकादशः꣡, द्वादशः꣡ no change of accent (6.1.223). Why do we say 'not in the *Chhandas*'? Observe, पञ्चममिन्द्रियस्यापाक्रामत (पञ्चम꣡ has acute on the final being formed by डट् preceded by मट् (5.2.48), (5.2.49). Kashika ------- पूरणाद् भाग इत्येव। प्रागेकादशभ्यः संख्याशब्देभ्यः पूरणप्रत्ययान्तेभ्यो भागे वर्तमानेभ्यः स्वार्थेऽन् प्रत्ययो भवति अच्छन्दसि विषये। स्वरार्थं वचनम्। पञ्चमः। सप्तमः। नवमः। दशमः। प्रागेकादशभ्य इति किम् ? एकादशः। द्वादशः। अच्छन्दसीति किम् ? त॑स्य॒ पञ्च॒म॑मि॒न्द्रि॒य॑स्या॑पा॒क्राम॒त् (मै० सं० १.९.४)॥ Siddhanta Kaumudi ----------------- पूरणप्रत्ययान्ताद्भागेऽन् । चतुर्थः । अष्टमः ॥ Balamanorama ------------ **प्रागेकादशभ्योऽच्छन्दसि** - प्रागेकदशभ्यः । शेषपूरणेन सूत्रं व्याचष्टे-पूरणप्रत्ययान्ताद्भागेऽनिति । द्वितीयतृतीयशब्दाभ्यां पूर्वसूत्रेण सिद्धत्वाच्चतुर्थादिदशमशब्दपर्यन्तविषयकमिदमित्यभिप्रेत्योदाहरति — चतुर्थ इति । नचानेनैव सिद्धत्वात्पूर्वसूत्रं किकिमर्थमिति शङ्क्यं, तस्य छन्दस्यापि प्रवृत्त्यर्थत्वात् । Padamanjari ----------- प्रागीकादशभ्यः संख्याशब्देभ्य इति। एकादशशब्दात्प्राञ्चो ये संक्याशब्दास्तेभ्य इत्यर्थः, एकादशभ्यः प्राचीनेषु संख्येयेषु ये संख्याशब्दास्तेभ्य इती वा ॥ Prakriyasarvasvam ----------------- एकादशभ्यः प्राच्यात् पूरणाद् भागेऽर्थे लोक एवान् । पञ्चमः, सप्तमो भागः ॥