53046: एधाच्च ============= **Padacheda:** एधाच् | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **'द्वि' तथा 'त्रि' एताभ्याम् विहितस्य 'धा' प्रत्ययस्य विकल्पेन 'एधाच्' इति आदेशः भवति ।** **संख्याया विधार्थे धा** (5.3.42) तथा **अधिकरणविचाले च** (5.3.43) एतयोः सूत्रयोः सङ्ख्यावाचिभ्यः शब्देभ्यः 'धा' इति प्रत्ययः भवति । 'द्वि' तथा 'त्रि' एताभ्याम् विहितस्य अस्यैव 'धा' प्रत्ययस्य वर्तमानसूत्रेण विकल्पेन 'एधाच्' इति आदेशः विधीयते । अस्मिन् आदेशे चकारस्य इत्संज्ञा भवति । प्रक्रिया एतादृशी - द्वि / त्रि + धा → द्वि / त्रि + एधाच् ['धा' इत्यस्य 'एधाच्' आदेशः ] → द्व् / त्र् + एधा [**यस्येति च** (6.4.148) इति इकारलोपः] → द्वेधा, त्रेधा । यथा - द्वेधा भुङ्क्ते (= द्वाभ्यां प्रकाराभ्यां भुङ्क्ते) । त्रेधा वदति (= त्रिभिः प्रकारैः वदति) । एका राशी द्वेधा त्रेधा वा कुरु । अयमादेशः विकल्पेन भवति, अतः पक्षे 'द्विधा' तथा 'त्रिधा' एते रूपे अपि भवतः । ज्ञातव्यम् - 1. अनेन सूत्रेण निर्मितयोः 'द्वेधा' तथा 'त्रेधा' शब्दयोः **तद्धितश्चासर्वविभक्तिः** (1.1.38) इत्यनेन अव्ययसंज्ञा भवति । 2. 'द्वि' तथा 'त्रि' एताभ्यां विहितस्य 'धा' प्रत्ययस्य **द्वित्र्योश्च धमुञ्** (5.3.45) इत्यनेन विकल्पेन धमुञ्-आदेशः अपि भवति । 'धमुञ्' इत्यत्र ञकारस्य इत्संज्ञा भवति, उकारश्च उच्चारणार्थः अस्ति । द्वयोः अपि लोपे कृते 'धम्' इत्येव प्रयोगे दृश्यते, येन 'द्वैधम्' तथा 'त्रैधम्' एते रूपे सिद्ध्यतः । Vasu English Summary -------------------- The substitute एधाच् (एधा) comes optionally in the place of धा after 1. द्वि and 2. त्रि। Vasu English Translation ------------------------ The substitute एधाच् (एधा) comes optionally in the place of धा after 1. द्वि and 2. त्रि। Thus द्वेधा (6.4.148) or द्वैधम् or द्विधा, त्रेधा, त्रैधम् or त्रिधा ॥ Kashika ------- द्वित्र्योः संबन्धिनो धाप्रत्ययस्य एधाजादेशो भवत्यन्यतरस्याम्। चकारो विकल्पानुकर्षणार्थः। द्वेधा, द्वैधम्, द्विधा। त्रेधा, त्रैधम्, त्रिधा॥ Siddhanta Kaumudi ----------------- द्वेधा । त्रेधा ॥ Balamanorama ------------ **एधाच्च** - एधाच्च । द्वित्रिभ्यां परस्य धाप्रत्ययस्यं एधाजित्यादेशः स्यादित्यर्थः ।पञ्चम्यास्तसि॑लित्यारभ्यएधाच्चे॑त्यन्तैर्विहितप्रत्ययान्तानामव्ययत्वम् । Tattvabodhini ------------- **एधाच्च** - एधाच्च । द्वित्र्योः संबन्धिनो धाप्रत्ययस्य एधाच् स्यात् । योगविभागो यथासङ्ख्यनिरासार्थः । Padamanjari ----------- योगविभागो यथासंख्यनिरासार्थः ॥ Prakriyasarvasvam ----------------- द्वित्रिभ्यां यः एधाजपि वा स्यात् । द्वेधा, त्रेधा ॥