53041: विभाषावरस्य ================== **Padacheda:** विभाषा | S | 1 | 1 | अवरस्य | S | 6 | 1 | Sutrartha --------- **'अवर' शब्दस्य अस्ताति-प्रत्यये परे विकल्पेन अव-आदेशः भवति ।** 'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः **दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेष्वस्तातिः** (5.3.27) इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्ययः विधीयते । अस्मिन्नेव प्रत्यये परे 'अवर' शब्दस्य **पूर्वाधरावराणामसि पुरधवश्चैषाम्** (5.3.39) इत्यनेन 'अव्' आदेशे प्राप्ते; वर्तमानसूत्रेण अयमादेशः केवलम् विकल्पेनैव भवति । यथा - अवरस्याम् दिशि / अवरस्मिन् देशे / अवरस्मिन् काले / अवरस्याः दिशः / अवरस्मात् देशात् / अवरस्मात् कालात् / अवरा दिक् / अधरः देशः / अधरः कालः → अवर + अस्ताति [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → अवर+ अस्तात् ['अवर' इत्यस्य **पूर्वाधरावराणामसि पुरधवश्चैषाम्** (5.3.39) इत्यनेन 'अव्' आदेशे प्राप्ते वर्तमानसूत्रेण सः विकल्प्यते ।] → अवर् + अस्तात् [**यस्येति च** (6.4.148) इति अकारलोपः] → अवरस्तात् पक्षे अवर'शब्दस्त 'अव्' इति आदेशं कृत्वा 'अवस्तात्' इति रूपमपि सिद्ध्यति । ज्ञातव्यम् - 1. अनेन सूत्रेण निर्मितस्य 'अवरस्तात्' शब्दस्य **तद्धितश्चासर्वविभक्तिः** (1.1.38) इत्यनेन अव्ययसंज्ञा भवति । 2. पूर्वसूत्रेण **अस्ताति च** (5.3.40) इत्यनेन 'अवर' शब्दस्य 'अस्ताति'प्रत्यये परे नित्यम् 'अव्' आदेशे प्राप्ते वर्तमानसूत्रेण सः विकल्प्यते, अतः इयम् 'व्यवस्थितविभाषा' अस्ति । Vasu English Summary -------------------- The substitution of अव् for अवर is optional when अस्ताति follows. Vasu English Translation ------------------------ The substitution of अव् for अवर is optional when अस्ताति follows. This declares option when by last it was compulsory. As अवरस्तात् or अवस्तात् वसति आगतः, or रमणीयम् ॥ Kashika ------- पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। अवरस्यास्तातौ परतो विभाषा अव् इत्ययमादेशो भवति। अवस्ताद् वसति। अवस्तादागतः। अवस्ताद् रमणीयम्। अवरस्ताद् वसति। अवरस्तादागतः। अवरस्ताद् रमणीयम्॥ Siddhanta Kaumudi ----------------- अवरस्यास्तातौ परेव् स्याद्वा । अवस्तात् । अवरस्तात् । एवं देशे काले च । दिशिरूढेभ्यः किम् । ऐन्द्र्यां वसति । सप्तम्याद्यन्तेभ्यः किम् । ऐन्द्र्यां वसति । सप्तम्याद्यन्तेभ्यः किम् । पूर्वं ग्रामं गतः । दिगादिवृत्तिभ्यः किम् । पूर्वस्मिन् गुरौ वसति । अस्ताति च (SK1976) इति ज्ञापकादसिरस्तातिं न बाधते ॥ Balamanorama ------------ **विभाषाऽवरस्य** - विभाषाऽवरस्य ।अस्ताति चे॑ति पूर्वसूत्रादस्तातीत्यनुवर्तते । तदाह — अवरस्येति । एवमिति । पूर्वस्मिन्पूर्वस्मात्पूर्वो वा देशः, कालो वा — पुरः पुरस्तादित्यादि । पूर्वस्मिन्गुराविति । पूर्वकालिकाध्यापनकर्तरीत्यर्थः । ननु 'दिक्छब्देभ्यः' इति सामान्यविहितस्य परादिशब्देषु सावकाशस्य अस्तातेः पूर्वाधरावरशब्देषु असिना विशेषविहितेन बाधः स्यादित्यत आह — अस्ताति चेतीत्यादि । Padamanjari ----------- अवित्ययमादेशो भवतीति। कथं पुनर्बहुष्वादेशेषु प्रसक्तेषु अयमेव भवतु? अस्यैवानुवृतेः। अथ वा - अवरस्य यदुक्तं तदसतातौ विभाषा भवतीति विज्ञास्यते ॥