53030: अञ्चेर्लुक् ================== **Padacheda:** अञ्चेः | S | 5 | 1 | लुक् | S | 1 | 1 | Sutrartha --------- **'अञ्च्' धातुः यस्य अन्ते अस्ति, तादृशेभ्यः दिशावाचिभ्यः शब्देभ्यः विहितस्य 'अस्ताति' प्रत्ययस्य लुक् भवति ।** 'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः **दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः** (5.3.27) इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्ययः विधीयते । परन्तु 'अञ्च्' धातुः यस्य अन्ते आगच्छति, तादृशात् दिशावाचकशब्दात् विहितस्य 'अस्ताति' प्रत्ययस्य वर्तमानसूत्रेण लुक् विधीयते । प्रारम्भे 'अञ्च्' इति किम् तत् पश्यामः । 'अञ्च्' (अञ्चुँ गतौ) इति भ्वादिगणस्य कश्चन धातुः । यदि अयम् धातुः उपपदेन सह प्रयुज्यते, तर्हि अस्मात् धातोः **ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च** (3.2.59) इत्यनेन 'क्विन्' प्रत्ययं कृत्वा भिन्नाः दिशावाचकशब्दाः सिद्ध्यन्ति । यथा - 1) प्र + अञ्च् + क्विन् → प्राच् । 'पूर्वः' इत्यर्थः । 2) प्रति + अञ्च् + क्विन् → प्रत्यच् । 'पश्चिमः' इत्यर्थः । 3) उद् + अञ्च् + क्विन् → उदच् । 'उत्तरः' इत्यर्थः । एते त्रयः अपि शब्दाः 'अञ्चुँ' इत्यन्ताः सन्ति अतः 'उगितः' सन्ति । अतः एतेषाम् प्रयोगः यदा 'दिश्' इति स्त्रीलिङ्गशब्दस्य विशेषणरूपेण क्रियते, तदा एतेषामपि स्त्रीत्वमपेक्ष्यते । अस्यां स्थितौ **उगितश्च** (4.1.6) इत्यनेन एते सर्वे शब्दाः ङीप् प्रत्ययं स्वीकुर्वन्ति । यथा - 1. 'प्राच्' शब्दस्य स्त्रीत्वे - = प्र + अच् + ङीप् [**उगितश्च** (4.1.16) इति ङीप्] → प्र + च् + ई [**अचः** (6.4.138) इत्यनेन 'अच्' इत्यस्य अकारस्य लोपः भवति] → प्रा + च् + ई [**चौ** (6.3.138) इति अङ्गस्य दीर्घादेशः ] → प्राची । यथा - प्राची दिक् । पूर्वदिशा - इत्यर्थः । स्मर्तव्यम् - देशस्य कालस्य वा विशेषणरूपेण तु 'प्राच्' इति मूलशब्दः एव प्रयुज्यते, तत्र 'ङीप्' इति प्रत्ययः न भवति, यतः 'देश' उत 'काल' एतौ शब्दौ स्त्रीवाचिनौ न स्तः । यथा - प्राङ् देशः, प्राङ् कालः । (प्रथमैकवचनस्य रूपे **उगिदचां सर्वनामस्थाने अधातोः** (7.1.70) इति नुमागमः, तथा च **चोः कुः** (8.2.30) इति कुत्वम् विधीयते)। एवमेव - 2) 'प्रत्यच्' शब्दस्य स्त्रीत्वे - = प्रति + अच् + ङीप् [**उगितश्च** (4.1.16) इति ङीप्] → प्रति + च् + ई [**अचः** (6.4.138) इत्यनेन 'अच्' इत्यस्य अकारस्य लोपः भवति] → प्रती + च् + ई [**चौ** (6.3.138) इति अङ्गस्य दीर्घादेशः ] → प्रतीची । यथा - प्रतीची दिक् । पश्चिमदिशा - इत्यर्थः । देशस्य कालस्य वा विशेषणरूपेण तु 'प्रत्यच्' इति मूलशब्दः एव प्रयुज्यते । यथा - प्रत्यङ् देशः, प्रत्यङ् कालः । (प्रथमैकवचनस्य रूपे **उगिदचां सर्वनामस्थाने अधातोः** (7.1.70) इति नुमागमः, तथा च **चोः कुः** (8.2.30) इति कुत्वम् विधीयते)। तथैव - 3) 'उदच्' शब्दस्य स्त्रीत्वे - = उद् + अच् + ङीप् [**उगितश्च** (4.1.16) इति ङीप्] → उद् + ईच् + ई [**उद ईत्** (6.4.139) इति अकारस्य इकारादेशः] → उदीची । यथा - उदीची दिक् । उत्तरदिशा - इत्यर्थः । देशस्य कालस्य वा विशेषणरूपेण तु 'उदच्' इति मूलशब्दः एव प्रयुज्यते । यथा - उदङ् देशः, उदङ् कालः । (प्रथमैकवचनस्य रूपे **उगिदचां सर्वनामस्थाने अधातोः** (7.1.70) इति नुमागमः, तथा च **चोः कुः** (8.2.30) इति कुत्वम् विधीयते)। एतादृशम् निर्मिताः 'प्राची, प्राच्, प्रतीची, प्रत्यच्, उदीची, उदच्' एते सर्वे शब्दाः दिशावाचकाः सन्ति । एतेषाम् सप्तम्यन्तात् / पञ्चम्यन्तात् / प्रथमान्तात् स्वार्थे विहितस्य 'अस्ताति' प्रत्ययस्य लुक् भवति । यथा - 1. प्राच्यां दिशि / प्राच्यः दिशः / प्राची दिक् = प्राच्याम् / प्राच्यः / प्राची + अस्ताति → प्राची + अस्ताति [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → प्राची ['अस्ताति'प्रत्ययस्य लुक्] → प्राच् [**लुक् तद्धितलुकि** (1.2.49) इति स्त्रीप्रत्ययस्य अपि लुक् । स्त्रीप्रत्ययस्य निवृत्तौ ङीप्-प्रत्ययविशिष्टमङगकार्यमपि निवर्तते, अतः 'प्र + अच्' इत्यवे अवशिष्यते । सवर्णदीर्घं कृत्वा 'प्राच्' इति सिद्ध्यति । अस्य **तद्धितश्चासर्वविभक्तिः** (1.3.38) इति अव्ययसंज्ञा विधीयते ।] → प्राच् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः ] → प्राच् [**अव्ययादाप्सुपः** (2.4.82) इति सुँ-प्रत्ययस्य लुक्] → प्राक् [सुँ-प्रत्ययस्य लुकि अपि **सुप्तिङन्तं पदम्** (1.4.14) इति पदसंज्ञा । अतः **चोः कुः** (8.2.30) इति पदान्तचकारस्य कुत्वे ककारः] → प्राग् [**झलां जशोऽन्ते** (8.2.39) इति पदान्तककारस्य जश्त्वे गकारः] उदाहरणम् - 'प्राग् वसति' (= प्राच्यां दिशि वसति) । प्राग् आगतः (प्राच्यः दिशः आगतः) । विशेषः - देशस्य तथा कालस्य विशेषणरूपेण यत्र 'प्राच्' शब्दः प्रयुज्यते, तत्रापि 'प्राच्' शब्दात् अस्ताति-प्रत्यये प्राप्ते तस्य लुक् कृत्वा 'प्राग्' इत्येव रूपम् सिद्ध्यति । यथा - 'प्राचि काले' / 'प्राचि देशे' / 'प्राचः कालात्' / 'प्राचः देशात्' / प्राङ् कालः / प्राङ् देशः = प्राग् । अस्यापि प्रक्रिया समाना एव, परन्तु तत्र स्त्रीप्रत्ययविशिष्टः अंशः नास्ति । 2. प्रतीच्यां दिशि / प्रतीच्यः दिशः / प्रतीची दिक् / प्रतीचि देशे / प्रतीचः देशात् / प्रत्यङ् देशः / प्रतीचि काले / प्रतीचः कालात् / प्रत्यङ् कालः = प्रत्यग् । अस्यापि प्रक्रिया 'प्राक्' शब्दवदेव भवति । इत्युक्ते - [अ] 'प्रतीची' शब्दस्य विषये 'अस्ताति' प्रत्ययस्य लुकि कृते ङीप्-प्रत्ययस्य **लुक् तद्धितलुकि** (1.2.49) इत्यनेन लुक् विधीयते, तेन च ङीप्-निमित्तभूतम् कार्यमपि विनश्यति, अतः 'प्रति + अच्' इत्येव अवशिष्यते । अग्रे यणादेशं कृत्वा 'प्रत्यच्' इति प्रातिपदिकम् सिद्ध्यति । 'प्रत्यग्' इति तस्य प्रथमैकवचनम् । [आ] पुंलिङ्गनपुंसकलिङ्गयोः 'प्रत्यच्' शब्दस्य विषये तु केवलं प्रत्ययलुक् तथा अग्रे कुत्वजश्त्वे 'प्रत्यग्' इति अव्ययं सिद्ध्यति । 3. उदीच्यां दिशि / उदीच्यः दिशः / उदीची दिक् / उदीचि देशे / उदीचः देशात् / उदङ् देशः / उदीचि काले / उदीचः कालात् / उदङ् कालः = उदग् । अस्यापि प्रक्रिया 'प्राक्' शब्दवदेव भवति - [अ] 'उदीची' शब्दस्य विषये 'अस्ताति' प्रत्ययस्य लुकि कृते अङ्गस्य ङीप्-प्रत्ययस्य **लुक् तद्धितलुकि** (1.2.49) इत्यनेन लुक् विधीयते, तेन च ङीप्-निमित्तभूतम् कार्यमपि विनश्यति, अतः 'उद् + अच्' इत्येव अवशिष्यते । अग्रे वर्णमेलनं कृत्वा 'उदच्' इति प्रातिपदिकम् सिद्ध्यति । 'उदग्' इति तस्य प्रथमैकवचनम् । [आ] पुंलिङ्गनपुंसकलिङ्गयोः 'उदच्' शब्दस्य विषये तु तु केवलं प्रत्ययलुक् तथा अग्रे कुत्वजश्त्वे 'उदग्' इति अव्ययं सिद्ध्यति । अनेन प्रकारेण अस्मिन् सूत्रे 'प्राग्, प्रत्यग्, उदग्' एतेषां त्रयाणां शब्दानां सिद्धिः दत्ता अस्ति । Vasu English Summary -------------------- After words of direction ending in अञ्च् there is लुक् elision of the affix अस्ताति। Vasu English Translation ------------------------ After words of direction ending in अञ्च् there is लुक् elision of the affix अस्ताति। Thus प्राक् or प्रत्यक्; प्राच्यां दिशि वसति = प्राग् वसति, प्रागागतः, प्राग्रमणीयम् ॥ The feminine affix of प्राची is also elided, when the *taddhita* affix is elided by लुक् ॥ See (l. 2.49). Kashika ------- अञ्चत्यन्तेभ्यो दिक्शब्देभ्य उत्तरस्यास्तातिप्रत्ययस्य लुग् भवति। प्राच्यां दिशि वसति। **लुक् तद्धितलुकि** (१.२.४९) इति स्त्रीप्रत्ययोऽपि निवर्तते। प्राग् वसति। प्राग् आगतः। प्राग् रमणीयम्। प्रत्यग् वसति। प्रत्यग् आगतः। प्रत्यग् रमणीयम्॥ Siddhanta Kaumudi ----------------- अञ्चत्यन्ताद्दिक्शब्दादस्तातेर्लुक् स्यात् ॥लुक्तद्धितलुकि (SK1408) ॥ प्राच्यां प्राच्याः प्राची वा दिक् प्राक् । उदक् । एवं देशे काले च ॥ Balamanorama ------------ **अञ्चेर्लुक्** - अञ्चेर्लुक् । प्राच्यामिति । लिङ्गविशिष्टपरिभाषयाऽस्तातेर्लुक् । Tattvabodhini ------------- **अञ्चेर्लुक्** - प्राच्यां प्राच्या इति । प्राच्यादिशि वसति — प्राग्वसति । प्राच्या दिश आगतः प्रागागत इत्यादि योज्यम् । Padamanjari ----------- अञ्चत्यन्तेभ्य इति। केवलेभ्यः, लिङ्गविशिष्टेभ्यश्च। स्रीप्रत्ययोऽपि निवर्तत इति। एवं चाकारलोपः,'चौ' इति दीर्घत्वं च नास्तीति, प्रागित्यत्र सवर्णदीर्घत्वम्, प्रत्यगित्यत्र यणादेशः ॥ Prakriyasarvasvam ----------------- अञ्चत्यन्तेभ्यो दिक्शब्देभ्योऽस्तातेर्लुक् स्यात् । प्राप्यां दिशीत्यादौ प्रागित्येव। अत्र तद्धितलुकि स्त्रीप्रत्ययस्यापि लुक् । एवमवाक्, उदक् । प्रत्यक् ।। Sutra Prayogas -------------- * **प्रत्यगियाय** (भट्टिकाव्यम्): `अचेर्लुक्` इति भसंज्ञाभावात् अचः।