53012: किमोऽत्¶
Padacheda: किमः | S | 5 | 1 |
अत् | S | 1 | 1 |
Sutrartha¶
‘किम्’ शब्दस्य सप्तमीविभक्त्यन्तात् स्वार्थे विकल्पेन ‘अत्’ प्रत्ययः विधीयते ।
‘किम्’ इति कश्चन सर्वनामशब्दः । अस्य सप्तम्येकवचनस्य रूपात् स्वार्थे सप्तम्यास्त्रल् (5.3.10) इत्यनेन त्रल्-प्रत्यये प्राप्ते वर्तमानसूत्रेण विकल्पेन ‘अत्’ प्रत्ययः अपि भवति । यथा - कस्मिन् इत्येव = कस्मिन् + अत् [‘अत्’ इति प्रत्ययः।] → कस्मिन् + अ [तकारस्य हलन्त्यम् (1.3.3) इति इत्संज्ञा, तस्य लोपः (1.3.9) इति लोपः] → किम् + अ [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सप्तमीप्रत्ययस्य लुक्] → क्व + अ [क्वाति (7.2.105) इति ‘किम्’ इत्यस्य ‘क्व’-आदेशः] → क्व् + अ [यस्येति च (6.4.148) इति अकारलोपः] → क्व अनेन निर्मितः ‘क्व’ शब्दः ‘कुत्र’ अस्मिन्नेव अर्थे प्रयुज्यते । तद्धितश्चासर्वविभक्तिः (1.3.38) इत्यनेन अस्य अव्ययसंज्ञा अपि भवति । स्मर्तव्यम् - अस्मिन् सूत्रे ‘वा’ इति अपकर्षः अस्ति, वा ह च च्छन्दसि (5.3.13) इत्यस्मात् अस्य ग्रहणं भवति । अतः पक्षे सप्तम्यास्त्रल् इत्यनेन ‘त्रल्’ प्रत्ययं कृत्वा ‘कुत्र’ इत्यपि रूपं सिद्ध्यति । विशेषः - अस्मिन् सूत्रे पाठितः ‘अत्’ अयम् प्रत्ययः वस्तुतः प्राग्दिशो विभक्तिः (5.3.1) इत्यनेन विभक्तिसंज्ञकः अस्ति । अतः अस्य तकारस्य हलन्त्यम् (1.3.3) इति इत्संज्ञायाम् प्राप्तायाम् न विभक्तौ तुस्माः (1.3.4) इत्यनेन तस्याः निषेधः भवेत् । इत्युक्ते, तकारस्य इत्संज्ञा नैव कर्तव्या । परन्तु अत्र ‘अत्’ प्रत्यये तकारस्य इत्संज्ञा अवश्यम् इष्यते । अस्य स्पष्टीकरणार्थम् न विभक्तौ तुस्माः (1.3.4) इत्यस्य अनित्यत्वमुदाह्रियते । इत्युक्ते, न विभक्तौ तुस्माः (1.3.4) इति सूत्रमनित्यमस्ति, अतः अत्र तकारस्य इत्संज्ञासमये अस्य प्रसक्तिः न विद्यते - इति आशयः । अस्मिन् विषये इदमस्थमुः (5.3.24) इत्यत्र अधिकेन उक्तमस्ति, तदपि दृश्येत ।
Vasu English Summary¶
The affix अत् (अ) comes after किम् ending in the Locative -7th case.
Vasu English Translation¶
The affix अत् (अ) comes after किम् ending in the Locative -7th case. This debars त्रल् ॥ Thus किम् + अत् = क्व + अ (7.2.105) = क॑ as क्व भोक्ष्यसे ‘where will you eat’. क्वाध्येष्यसे । According to some त्रल् also comes, as कुत्र ॥ This is done by drawing the word वा ‘optionally’ from the next sutra. So that this sutra becomes an optional one.
Kashika¶
किमः सप्तम्यन्तादत् प्रत्ययो भवति। त्रलोऽपवादः। क्व भोक्ष्यसे। क्वाध्येष्यसे। त्रलमपि। केचिदिच्छन्ति। कुत्र। तत्कथम् ? उत्तरसूत्राद् वावचनं पुरस्तादपकृष्यते॥
Siddhanta Kaumudi¶
वाग्रहणमपकृष्यते । सप्तम्यन्तात्किमोऽद्वा स्यात्पक्षे त्रल् ॥
Laghu Siddhanta Kaumudi¶
वाग्रहणमपकृष्यते। सप्तम्यन्तात्किमोऽद्वा स्यात् पक्षे त्रल्॥
Balamanorama¶
किमोऽत् - किमोऽत् । अपकृष्यत इति ।वा ह च छन्दसी॑त्युत्तरसूत्रादिति शेषः । अपकर्षे व्याख्यानमेव शरणम् । अत्प्रत्यये तकार इत् ।न विभक्ता॑विति निषेधस्तु न भवति,तवर्गस्येत्त्वप्रतिषेधोऽतद्धिते॑ इति वार्तिकात् ।
Tattvabodhini¶
किमोऽत् - किमोऽत् ।न विभक्तौ तुस्माः॑इतिनिषेधोऽत्र न प्रवर्तते, थमोरुकारेण मकारपरित्राणार्थेनाऽनित्यताज्ञापनात् । वाग्रहणमिति ।किमोऽद्वा॑इति सूत्रं पठित्वाह च छन्दसी॑ति सूत्रयितुं युक्तम् ।
Padamanjari¶
तकारस्य’न विभक्तौ तुस्माः’ इतीत्संज्ञाप्रतिषेधो न भवति; अनित्यत्वात्। अनित्यत्वं तु ठिदमस्थमुःऽ इति थम उकारान्मकारस्येत्संज्ञापरिहाणार्थाज्ज्ञायते। दानीमस्तु मकारस्य भवत्येव प्रतिषेधः। अनित्यत्वं हि ज्ञाप्यते, न पुनस्तद्धितेष्वस्याभावः। उतरसूत्रादिति।’किमो’ द्वाऽ इति सूत्रं पठितव्यम्।’ह च च्छन्दसि’ इत्यत्र चकारेण त्रतलोः समुच्चयादिष्टसिद्धिरिति तेषां भावः। भागवृत्तिकारस्तु भाषायामेतन्नेच्छति ॥
Nyaas¶
क्व इति। क्वाति (7.2.105) इति किमः क्वादेशः न विभक्तौ तुस्माः (1.3.4) इति प्रतिषेधस्य `इवमस्थमुः (5.3.24) ) इत्युकारेणानित्यत्वस्य ज्ञपितत्वादित्संज्ञा तकारस्य। दानीमस्तु प्रतिषेधान्नास्तीत्संज्ञा; प्रयोजनाभावाच्च॥
Prakriyasarvasvam¶
किम् उक्तार्थेऽत् । तः स्वरार्थः ॥
Sutra Prayogas¶
शत-धा (भट्टिकाव्यम्): संख्याया विधार्थे धा इति धा-प्रत्ययः।