53013: वा ह च च्छन्दसि¶
Padacheda: वा | S | 0 | 0 |
ह | S | | | 1
च | S | 0 | 0 |
छन्दसि | S | 7 | 1 |
Sutrartha¶
‘किम्’ शब्दस्य सप्तमीविभक्त्यन्तात् वेदेषु स्वार्थे विकल्पेन ‘ह’ प्रत्ययः कृतः दृश्यते ।
‘किम्’ इति कश्चन सर्वनामशब्दः । अस्य सप्तम्येकवचनस्य रूपात् स्वार्थे सप्तम्यास्त्रल् (5.3.10) इत्यनेन त्रल्-प्रत्ययः तथा च किमोऽत् (5.3.12) इत्यनेन अत्-प्रत्ययः भवति । वेदेषु अस्मादेव शब्दात् ‘ह’ प्रत्ययः कृतः अपि दृश्यते । प्रक्रिया इयम् - किम् + ह → कु + ह [किमः कः (7.2.103) इत्यनेन विभक्तिसंज्ञके प्रत्यये परे ‘किम्’ इत्यस्य ‘क’ इति आदेशे प्राप्ते तं बाधित्वा हकारादौ प्रत्यये परे कु तिहोः (7.2.104) इति ‘कु’ आदेशः ] → कुह ‘कुत्र’ इत्यस्मिन्नेव अर्थे ‘कुह’ इति शब्दः वेदेषु प्रयुज्यते । यथा, ऋग्वेदे 10.129 (नासदीयसूक्तम्) इत्यस्य प्रथमा ऋक् - नास॑दासी॒न्नो सदा॑सीत्त॒दानीं॒ नासी॒द्रजो॒ नो व्यो॑मा प॒रो यत् । किमाव॑रीव॒: कुह॒ कस्य॒ शर्म॒न्नम्भ॒: किमा॑सी॒द्गह॑नं गभी॒रम् ॥ स्मर्तव्यम् - अस्मिन् सूत्रे ‘वा’ इत्यनेन विकल्पः निर्दिश्यते ।किम्-शब्दात् ‘त्रल्’ तथा ‘अत्’ प्रत्ययौ कृत्वा अपि रूपाणि वेदेषु भवितुमर्हन्ति - इति अस्य विकल्पस्य अर्थः ।
Vasu English Summary¶
Optionally the affix ह also comes in the छन्दस् (Vedas) after the word किम् in the Locative -7th case as well as other affixes.
Vasu English Translation¶
Optionally the affix ह also comes in the छन्दस् (Vedas) after the word किम् in the Locative -7th case as well as other affixes. Thus कुह (7.2.104), क, कुत्र. As in Rig Veda VIII.62.4: कुह॑स्थः॒ कुह॑जग्मथुः कुह॑ श्ये॒नेव॑ पेतथुः ॥ ‘Where are ye two? Where are you (or did you) going? Where do you fall like eagles?’.
Kashika¶
किमः सप्तम्यन्ताद् वा हः प्रत्ययो भवति छन्दसि विषये। यथाप्राप्तं च। क्व। कुह॑ (ऋ० ८.७३.४)। कुत्रचिदस्य सा दूरे क्व ब्राह्मणस्य चावकाः॥
Siddhanta Kaumudi¶
कुह स्थः कुह जग्मथुः ॥
Balamanorama¶
वा ह च च्छन्दसि - वाह च छन्दसि ।हे॑ति लुप्तुप्रथमाकम् । किमः सप्तम्यन्तात् हप्रत्ययः, स्यादित्यर्थः । चादत्, त्रल्च । यद्यपि वैदिकप्रक्रियायामिदमुपन्यसनीयं, तथापि वाग्रहणस्य पूर्वसूत्रेऽपकर्षज्ञानायाऽत्र तदुपन्यासः ।
Tattvabodhini¶
वा ह च च्छन्दसि - वा ह च छन्दसि । पूर्वोक्तस्य वाग्रहणापकर्षणस्य स्फुटीकरणार्थमिदमुपन्यस्तम् । अत इति । एतस्माद्ग्रामादित्यर्थः ।दृशिग्रहणाद्भवदीदियोग एव । तत्रभवन्तमिति । ततो भवता तत्र भवता । ततो भवते थत्रभवते इत्यादि । एवमिति । ततो दीर्घायुस्तत्र दीर्घायुरित्याद्यूह्रमित्यर्थः । सदेति ।सर्वस्य सोऽन्यतरस्यां दी॑ति सभावः । कदेति ।किमः कः॑ ।