53012: किमोऽत् ============== **Padacheda:** किमः | S | 5 | 1 | अत् | S | 1 | 1 | Sutrartha --------- **'किम्' शब्दस्य सप्तमीविभक्त्यन्तात् स्वार्थे विकल्पेन 'अत्' प्रत्ययः विधीयते ।** 'किम्' इति कश्चन सर्वनामशब्दः । अस्य सप्तम्येकवचनस्य रूपात् स्वार्थे **सप्तम्यास्त्रल्** (5.3.10) इत्यनेन त्रल्-प्रत्यये प्राप्ते वर्तमानसूत्रेण विकल्पेन 'अत्' प्रत्ययः अपि भवति । यथा - कस्मिन् इत्येव = कस्मिन् + अत् ['अत्' इति प्रत्ययः।] → कस्मिन् + अ [तकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः] → किम् + अ [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सप्तमीप्रत्ययस्य लुक्] → क्व + अ [**क्वाति** (7.2.105) इति 'किम्' इत्यस्य 'क्व'-आदेशः] → क्व् + अ [**यस्येति च** (6.4.148) इति अकारलोपः] → क्व अनेन निर्मितः 'क्व' शब्दः 'कुत्र' अस्मिन्नेव अर्थे प्रयुज्यते । **तद्धितश्चासर्वविभक्तिः** (1.3.38) इत्यनेन अस्य अव्ययसंज्ञा अपि भवति । स्मर्तव्यम् - अस्मिन् सूत्रे 'वा' इति अपकर्षः अस्ति, **वा ह च च्छन्दसि** (5.3.13) इत्यस्मात् अस्य ग्रहणं भवति । अतः पक्षे **सप्तम्यास्त्रल्** इत्यनेन 'त्रल्' प्रत्ययं कृत्वा 'कुत्र' इत्यपि रूपं सिद्ध्यति । विशेषः - अस्मिन् सूत्रे पाठितः 'अत्' अयम् प्रत्ययः वस्तुतः **प्राग्दिशो विभक्तिः** (5.3.1) इत्यनेन विभक्तिसंज्ञकः अस्ति । अतः अस्य तकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञायाम् प्राप्तायाम् **न विभक्तौ तुस्माः** (1.3.4) इत्यनेन तस्याः निषेधः भवेत् । इत्युक्ते, तकारस्य इत्संज्ञा नैव कर्तव्या । परन्तु अत्र 'अत्' प्रत्यये तकारस्य इत्संज्ञा अवश्यम् इष्यते । अस्य स्पष्टीकरणार्थम् **न विभक्तौ तुस्माः** (1.3.4) इत्यस्य अनित्यत्वमुदाह्रियते । इत्युक्ते, **न विभक्तौ तुस्माः** (1.3.4) इति सूत्रमनित्यमस्ति, अतः अत्र तकारस्य इत्संज्ञासमये अस्य प्रसक्तिः न विद्यते - इति आशयः । अस्मिन् विषये **इदमस्थमुः** (5.3.24) इत्यत्र अधिकेन उक्तमस्ति, तदपि दृश्येत । Vasu English Summary -------------------- The affix अत् (अ) comes after किम् ending in the Locative -7th case. Vasu English Translation ------------------------ The affix अत् (अ) comes after किम् ending in the Locative -7th case. This debars त्रल् ॥ Thus किम् + अत् = क्व + अ (7.2.105) = क॑ as क्व भोक्ष्यसे 'where will you eat'. क्वाध्येष्यसे । According to some त्रल् also comes, as कुत्र ॥ This is done by drawing the word वा 'optionally' from the next *sutra*. So that this *sutra* becomes an optional one. Kashika ------- किमः सप्तम्यन्तादत् प्रत्ययो भवति। त्रलोऽपवादः। क्व भोक्ष्यसे। क्वाध्येष्यसे। त्रलमपि। केचिदिच्छन्ति। कुत्र। तत्कथम् ? उत्तरसूत्राद् वावचनं पुरस्तादपकृष्यते॥ Siddhanta Kaumudi ----------------- वाग्रहणमपकृष्यते । सप्तम्यन्तात्किमोऽद्वा स्यात्पक्षे त्रल् ॥ Laghu Siddhanta Kaumudi ----------------------- वाग्रहणमपकृष्यते। सप्तम्यन्तात्किमोऽद्वा स्यात् पक्षे त्रल्॥ Balamanorama ------------ **किमोऽत्** - किमोऽत् । अपकृष्यत इति ।वा ह च छन्दसी॑त्युत्तरसूत्रादिति शेषः । अपकर्षे व्याख्यानमेव शरणम् । अत्प्रत्यये तकार इत् ।न विभक्ता॑विति निषेधस्तु न भवति,तवर्गस्येत्त्वप्रतिषेधोऽतद्धिते॑ इति वार्तिकात् । Tattvabodhini ------------- **किमोऽत्** - किमोऽत् ।न विभक्तौ तुस्माः॑इतिनिषेधोऽत्र न प्रवर्तते, थमोरुकारेण मकारपरित्राणार्थेनाऽनित्यताज्ञापनात् । वाग्रहणमिति ।किमोऽद्वा॑इति सूत्रं पठित्वाह च छन्दसी॑ति सूत्रयितुं युक्तम् । Padamanjari ----------- तकारस्य'न विभक्तौ तुस्माः' इतीत्संज्ञाप्रतिषेधो न भवति; अनित्यत्वात्। अनित्यत्वं तु ठिदमस्थमुःऽ इति थम उकारान्मकारस्येत्संज्ञापरिहाणार्थाज्ज्ञायते। दानीमस्तु मकारस्य भवत्येव प्रतिषेधः। अनित्यत्वं हि ज्ञाप्यते, न पुनस्तद्धितेष्वस्याभावः। उतरसूत्रादिति।'किमो' द्वाऽ इति सूत्रं पठितव्यम्।'ह च च्छन्दसि' इत्यत्र चकारेण त्रतलोः समुच्चयादिष्टसिद्धिरिति तेषां भावः। भागवृत्तिकारस्तु भाषायामेतन्नेच्छति ॥ Nyaas ----- `क्व` इति। `क्वाति` (7.2.105) इति किमः क्वादेशः `न विभक्तौ तुस्माः (1.3.4) इति प्रतिषेधस्य `इवमस्थमुः` (5.3.24) ) इत्युकारेणानित्यत्वस्य ज्ञपितत्वादित्संज्ञा तकारस्य। दानीमस्तु प्रतिषेधान्नास्तीत्संज्ञा; प्रयोजनाभावाच्च॥ Prakriyasarvasvam ----------------- किम् उक्तार्थेऽत् । तः स्वरार्थः ॥ Sutra Prayogas -------------- * **शत-धा** (भट्टिकाव्यम्): `संख्याया विधार्थे धा` इति धा-प्रत्ययः।