53011: इदमो हः¶
Padacheda: इदमः | S | 5 | 1 |
हः | S | 1 | 1 |
Sutrartha¶
‘इदम्’ शब्दस्य सप्तमीविभक्त्यन्तात् स्वार्थे ‘ह’ प्रत्ययः भवति ।
‘इदम्’ इति सर्वनामशब्दः । अस्य सप्तमीविभक्त्यन्तात् सप्तम्यास्त्रल् (5.3.10) इत्यनेन औत्सर्गिकरूपेण ‘त्रल्’ प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण ‘ह’ प्रत्ययः विधीयते । यथा - अस्मिन् इत्येव = अस्मिन् + ह → इदम् + ह [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सप्तमीप्रत्ययस्य लुक्] → इ + ह [इदम इश् (5.3.3) इति इश्-आदेशः] → इह अनेन प्रकारेण ‘इह’ इति शब्दः सिद्ध्यति । तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अस्य अव्ययसंज्ञा विधीयते ।
Vasu English Summary¶
The affix ह comes after इदम् ending in the Locative -7th case.
Vasu English Translation¶
The affix ह comes after इदम् ending in the Locative -7th case. This debars त्रल् ॥ Thus इह (5.3.3) ‘here’.
Kashika¶
इदमः सप्तम्यन्ताद् हः प्रत्ययो भवति। त्रलोऽपवादः। इह॥
Siddhanta Kaumudi¶
त्रलोऽपवादः इशादेशः । इह ॥
Laghu Siddhanta Kaumudi¶
त्रलोऽपवादः। इह॥
Balamanorama¶
इदमो हः - इदमो हः । इदंशब्दात्सप्तम्यन्तात् हप्रत्ययः स्यादित्यर्थः ।